________________
उत्कृष्टस्थितेर्जधन्यबन्धकाल: ] द्वितीयाधिकारे कालद्वारम्
[ १५५ योगा-ऽनाहारकमार्गणयोः सप्तानामुत्कृष्टस्थितेर्बन्धका ये संज्ञिभ्यश्च्युत्वा वक्रगत्या संज्ञितयोत्पद्यमाना उत्पत्तिस्थानमप्राप्ता विग्रहगतौ वर्तमाना जीवास्ते भवन्ति, न पुनरेकेन्द्रियाद्यसंज्ञिभ्य आगताः संज्ञिनः, असंज्ञिभ्य आगतानां तदानीमनाहारकावस्थायामसंज्ञिप्रायोग्यस्थितिवन्धभावेन प्रस्तुतमार्गणाभाव्यन्तःकोटीकोटीसागरोपमप्रमाणोत्कृष्टस्थितिबन्धस्वामित्वासम्भवात् । संज्ञिभ्यश्च्युत्वा संज्ञितयोत्पद्यमानानां त्रसनाडावेवोत्पत्तेरुत्कृष्टतोऽपि त्रिसामयिकी द्विवक्रा गतिर्भवति, न पुनस्त्रिवक्राऽपि, तस्याः स्थावराणामेव सम्भवात् । उक्तं च श्रीस्थानाङ्गत्रिस्थानकाध्ययनस्य चतुर्थोद्देशकवृत्ती
'उक्कोसेणं' ति सानां हि त्रसनाड्यन्तरुत्पादाद्वक्रद्वयं भवति, तत्र च त्रय एव समयाः, तथाहि-आग्नेयदिशो नैऋतदिशमेकेन गच्छति, ततो द्वितीयेन समश्रेण्याऽधस्ततस्तृतीयेन वायव्यदिशि समश्रेण्यैवेति, त्रसानामेव त्रसोत्पत्तावेवंविध उत्कर्षेण विग्रह इत्याह-एyदिये' त्यादि, एकेन्द्रियास्त्वेकेन्द्रियेषु पञ्चसामयिकेनाप्युत्पद्यन्ते, यतस्ते बहिस्तात् त्रसनाडीतो बहिरप्युत्पद्यन्ते, तथाहि-विदिसाउ दिस पढमे बीए पइसरइ लोयनाडीए । तइए उप्पिं धावइ, चउत्थए नीइ बाहिं तु ॥१॥ पंचमए विदिसीए गंतं उप्पज्जए उ एगिदि' त्ति सम्भव एवायम, भवति तु चतुःसामयिक एव, भगवत्यां तथोकत्वादिति, तथाहि-'अपज्जत्तगसुहुमपुढविकाइए णं भंते ! अहे लोगखेत्तनालीट बाहिरिल्ल खेत्ते समोहए समोहणित्ता जे भविए उड्ढलो यखेत्तनालिए बाहिरिल्ल खेत्ते अपज्जत्तसुहुमपुढविकाइयत्ताए उववज्जित्तए से णं भंते ! कतिसमएणं विग्गहेणं उववज्जेज्जा ? गोपमा ? तिसमइएण वा चउसमइण वा विग्गहेण उबबज्जेज्जा' इत्यादि" इति ।
किञ्चैकवक्रादिगतिषु द्वितीयादिसमयेषु जीव आहारं करोति, न पुनः प्रथमादिसमयेषु । इत्थं द्विसामयिक्यामेकवक्रायां प्रथमसमयेऽनाहारकः, त्रिसामयिक्यां द्विवक्रायां तु प्रथमद्वितयसमययोरनाहारकः, तृतीयसमय उत्पत्तिस्थानप्राप्ती पुनराहारकः । एवमुत्तरत्रापि चरमसमये आहारमादत्ते, शेषसमयेषु त्वनाहारकः । उक्तश्च श्रोप्रज्ञापनाकायस्थितिपदवृत्तौ श्रीमन्मलयगिरिसूरिपादैः-“तत्रोत्कर्पतस्त्रिसामयिक्यां विग्रहगतौ दावाद्यो समयावनाहारक” इत्यादि ।
___ इत्थं हि कार्मणकाययोगा-ऽनाहारकमार्गणाद्वये सप्तप्रकृतिसत्कोत्कृष्टस्थितिबन्धस्वामिनां संज्ञिभ्यश्च्युत्वा संज्ञितयोत्पद्यमानानां जीवानामुत्कृष्टतस्त्रिसामयिक्या द्विवक्रगत्योत्पत्तेरनाहारकावस्था तत्सहचारिणी कामणकाययोग्यवस्था चोत्कृष्टतो द्वौ समयौ प्राप्येते, ततश्चोत्कृष्ट स्थितिवन्धकालोऽपि तदधिको न सम्भवतीति तथैवोक्तः । कार्मणकाययोगा-ऽनाहारकमार्गणाद्वयं विहाय शेषमार्गणासु प्रस्तुतबन्धकालोऽन्तर्मुहूर्तं भवति, तथापि मिश्रयोगमार्गणात्रये शरीरपर्याप्तिनिष्ठापनादर्वागनन्तरसमये एवोत्कृष्टस्थितिबन्धो जघन्यस्थितिवन्धो वाजायत इति प्राक-“से काले पज्जत्ति निवउ स व मुण मीसजोगेसुं॥” इत्यादिना स्वामित्वप्ररूपणायां मतान्तरेण दर्शितस्वामित्वानुसारेणोत्कृष्टस्थितिबन्धस्योत्कृष्टः कालः समय एव प्राप्यत इति तत्र मार्गणात्रये उभयथापि दर्शयति"भिन्नमुहुत्तं समयो वा" इत्यादिना, सप्तानामुत्कृष्टस्थितेरुत्कृष्टो बन्धकालः पर्याप्तिनिष्ठापनात्प्राक्समय एवोत्कृष्टो जघन्यो वा स्थितिबन्धो भवतीति मतेन "तिमिस्सजोगेसु” ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org