________________
१५४ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानेष्वायुर्वर्जानाम् को दोषः ? इत्यपि वाच्यम् , अभव्यानामपि सम्यक्त्वाभिमुखताप्रसङ्गादित्यलं विस्तरेण । एतेनेदं ज्ञापितं भवति, यत्
“णाणतिगे ओहिम्मि य सम्मुवसमवेअगेसु चउगइयो । तप्पाउग्गकिलिट्ठो सम्मो मिच्छाहिमुहो अंते ॥९८॥ मणणाणम्मि पमत्तो अयताभिमुहो य तयणुरुवकिट्ठो । अंतिमबंधे संयमसमइअछेएसु मिच्छहुत्तो स ॥९९।। परिहारम्मि पमत्तो छेआहिमुहो तदरिहसंकिट्ठो।। देसे मिच्छाहिमुहो दुगइट्ठो तयणुरुवकिट्ठो ॥१००।"
"मीसे मिच्छाहिमुहो सासाणे व तयणुरुवसंकिट्ठो।....।।१०४॥" इत्यादिवचनेन ज्ञानत्रिका-ऽवधिदर्शन-सम्यक्त्वौष-वेदको-पशमिकसम्यक्त्वमार्गणासु मिथ्यात्वाभिमुखानां तथैव संयमोघ-सामायिक-च्छेदोपस्थापनसंयम-देशसंयममार्गणासु मिश्रमार्गणायां च मिथ्या
वाभिमुखानामुत्कृष्टस्थितेर्वन्धकत्वात् , मनःपर्यवज्ञानमार्गणायामसंयमाभिमुखानां परिहारविशुशिकसंयममार्गणायां छेदोपस्थापनसंयमाभिभुखानामेवोत्कृष्टस्थितिबन्धभावाच्च माज्ञानादिप्रस्तुतचतुर्दशमार्गणाभावी विवक्षितैकजीवकृतसप्तप्रकृतिसत्कोत्कृष्टस्थितिबन्धो मरणव्याघातसाकारक्षयादिना समयमानं प्रवृत्त्य नैव विच्छेदं याति, किन्तु निराबाबतया जघन्यतोऽप्यन्तमुहूर्त प्रवृत्यैव विरमति, ततश्चाधिकृतमार्गणासु सप्तकर्मणामुत्कृष्टायाः स्थितेर्जघन्योऽपि बन्धकालोऽन्तर्गत प्राप्यते । शेषनरकगत्यादिमार्गणासु तूत्कृष्टस्थितिबन्धप्रारम्भद्रितीयसमये मरणव्याघाताद्यन्यतमनिमित्तसमुद्भवे स्वभावतो वाऽसौ समयमा प्रवृत्त्याऽपि विरमति, ततश्च नरकगत्यादिशेपमाणासु सप्तानामुत्कृष्टस्थितेर्जघन्यो बन्धकालः समयमात्रः प्राप्यत इति । अत्र मृले सासादनमार्गणाया निरयगत्योधादिशेषमार्गणाऽन्तर्गतत्वात् तत्र प्रकृतजघन्यवन्धकालो यः समयमात्रोऽभिहितः,स तु स्वस्थानगतानां सप्तकर्मसत्कोत्कृष्टस्थितिबन्धस्वामित्वापेक्षया बोद्धव्यः । मिथ्यात्वाभिमुखानां तत्स्वामित्वापेक्षया त्वसावुक्तनीत्या जघन्यतोप्यन्तमुहूर्तमेव लभ्यत इति तथैव ज्ञातव्य इति ॥१४४॥
अथ सप्तानामत्कृष्टस्थितेरुत्कृष्टं बन्धकालमपि सार्धाऽऽर्यया व्याकरोतिकम्मा-ऽणाहारसुणेयो परमो दुवे समया॥१४५॥ भिन्नमुहुत्त समयो वा उक्कोसो तिमिस्सजोगेसु। सेसासु मग्गणासुभिन्नमुहत्तौं मुणेयवो ॥१४६॥ (प्रे०) “कम्माणाहारेसु"मित्यादि, कार्मणकाययोगमार्गणायामनाहारकमार्गणायां च ज्ञेयः, क इत्याह-“परमो” त्ति सप्तानामुत्कृष्टायाः स्थितेः 'परमः'-उत्कृष्टो बन्धकाल इत्यर्थः । कियानित्याह-“दुवे समया" ति द्वौ समयाविति । कुतः ? उत्कृष्टस्थितेन्धिकस्य कस्यचिदपि जीवस्य प्रस्तुतमार्गणाद्वये समयद्वयादधिकमनवस्थानात् । अयम्भावः-कार्मणकाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org