________________
जघन्योत्कृष्टबन्धकालः ]
द्वितीयाधिकारे कालद्वारम्
[ १५३
काययोगमार्गणायां पूर्वोक्तरीत्यैव एकसमयो भावनीयः, न पुनरनन्तरोक्तरीत्या, तस्याः कार्यस्थितेर्जघन्यतोऽप्यन्तमुहूर्तत्वात् । वक्ष्यते च - " भिन्नमुहुत्तं उ सयलपज्जत्तगजोणिणीण कायस्स ।” इति । कपायमार्गणाभेदेषु तु मनोयोगादिमार्गणावत् प्रस्तुतबन्धकालो भावनीयः । एतासु मार्गणासु शेषबन्धकालस्य तथा नरकगत्योघादिमार्गणासु चतुर्विधस्यापि बन्धकालस्य च भावना तु सर्वथैवौघचद् द्रष्टव्येति ॥१४३॥
तदेवं दर्शित आयुष उत्कृष्टानुत्कृष्टस्थित्योर्जघन्योत्कृष्टद्विविधबन्धकाल आदेशतोऽपि । साम्प्रतं शेपकर्मणां तमादेशतो दिदर्शयिपुरादाबुकृष्टस्थितेर्जघन्यं बन्धकालं साधयिया दर्शयतिचरणाण - संयमेसु, समइअ - छेअ - परिहार देसेसु । ओहिम्मि सम्म वेअग, उवसम-मीसेसु णायव्वो ॥ १४४ ॥ सत्तरह गुरुअ लहू, भिन्नमुहुत्तं खणो उसेसासु ।
(प्रे०) “चरणाणे" त्यादि, मत्यादिचतुर्ज्ञान-संयमौघमार्गणासु, सामायिक-छेदोपस्थापनपरिहारविशुद्धिक- देशसंयममार्गणासु, अवधिदर्शन- सम्यक्त्वौघ - वेदकसम्यक्त्वौ - पशमिकसम्यक्त्वसम्यग्मिथ्यात्वमार्गणास्त्रित्येतासु चतुर्दशमार्गणासु प्रत्येकं ज्ञातव्य इत्यर्थः । को ज्ञातव्यः, कियांच ज्ञातव्य इत्याह-“सत्तण्ह गुरुअ" इत्यादि, आयुर्वर्जानां सप्तानां मूलप्रकृतीनां 'गुरोः ' -उत्कृष्टायाः स्थितेर्लघुः-जघन्यो बन्धकालः । स च “भिन्नमुहुत्तं" ति भिन्नमुहूर्तम्, अन्तर्मुहूर्तमात्र इत्यर्थः । " खणो उ सेसासु" ति 'क्षण:' समयः शेषासु मतिज्ञानाद्यनन्तरोक्तचतुर्दशमार्गणावर्जासु निरयगत्योघ। दिषट्पञ्चाशदभ्यधिकशतमार्गणास्त्रित्यक्षरार्थः । भावार्थस्स्वयम् - मिथ्यात्वाद्यभिमुवावस्थां गता जीवा मिध्यात्वादिकमप्राप्य मध्य एव कालं न कुर्वन्ति, किन्तु मिथ्यात्वादिकं यमभिमुखीभृतास्तं प्राप्यैव कालं कुर्वन्ति । किञ्चाभिमुखावस्थायामुपशमश्रेण्यादिवदुत्तरोत्तरसमयेष्वनन्तगुणानन्तगुण विशुद्धेरनन्तगुणानन्तगुणसंक्लेशस्य वा वर्धनाद् यथोत्तरस्थितिबन्धा अप्युपशमश्रेण्यादिवद्यथास्थानमन्तमुहूर्तमन्तमुहूर्त प्रवर्तन्ते । अत्र यथोत्तरमनन्तगुणविशुद्धिः संयम- देशसंयमाद्यभिमुखानां मिथ्यादृष्ट्यादीनां बोद्धव्या, यथोत्तरमनन्तगुणसंक्लेशस्तु वैपरित्येन देशसंयमाSसंयमाद्यभिमुखानां संयतादीनां ज्ञातव्यः । किञ्च तदानीमभिमुखावस्थायां साकारोपयोगक्षयासम्भवात् कश्चित्स्थितिबन्धः समयं प्रवृत्य विच्छेदमपि न याति । ननु कुतस्तदानीं साकारोपयोगक्षयाऽसम्भवः ? उच्यते - संक्लिश्यमानजीवानां साकारक्षये सति विशुद्धयवाप्तेः प्रसङ्गात्, एवं विशुध्यमानानां साकारक्षये सति संक्लेशावाप्तेः प्रसङ्गाच्च । न च प्राप्नुवन्तु मिथ्यात्वाद्यभिमुखाः संक्लिश्यमाना विशुद्धिम्, एवं सम्यक्त्वाद्यभिमुखा विशुध्यमानाः संक्लेशमिति वाच्यम् । प्रकृताभिमुखावस्थायाः स्वरूपहानिप्रसङ्गात् । यतोऽभिमुखावस्थायां नास्ति पञ्चालनम्, अन्यथा तदानीमपि स्थितिबन्धानां वृद्धिहानिप्रवर्तनाद् अभिमुखावस्थाया अनियमः स्यात्, न च भवत्वनियमः
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org