________________
१५२ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुष उत्कृष्टेतरस्थित्योः मार्गणास्थानेषु दिदर्शयिपुरतिदिशन्नाह- 'पाउस्सेमेव सव्वासु" ति आयुःकर्मण 'एवमेव' यथौघतोऽभिहितस्तथैव 'सर्वासु'-निरयगत्योघादिसर्वमार्गणासु, उत्कृष्टानुत्कृष्टस्थित्योर्जघन्योत्कृष्टद्विविधोऽपि बन्धकाल इति गम्यते । इति ॥१४२॥
अनन्तरगाथायामायुष उत्कृष्टानुत्कृष्टस्थित्योर्जघन्योत्कृष्टद्विविधबन्धकालस्यौधेन सह तुल्यप्रायत्वात् सर्वमार्गणापु लाघवार्थं सामस्त्येन कृतेऽतिदेशे या काचिदतिप्रसक्तिस्तामुतु काम आह
णवरि अणुक्कोसाए, लहू खणो होइ पणमणवयेसु।
काये उरले विउवे, अाहारदुगे कसायेसु ॥१४३॥
(प्रे) —णवरि" इत्यादि, 'नवरम्'-परम् 'अणुक्कोसाए' त्ति आयुषोऽनुत्कृष्टायाः स्थितेलघुः-जघन्यो बन्धकालः क्षण:-समयो भवति, न पुनयथातिदेशमन्तमुहूर्तम् । कासु मार्गणास्वित्याह- "पणमणवयेसु' इत्यादि, पञ्चशब्दस्य प्रत्येकं योजनात् पञ्चमनोयोगभेदेषु पञ्चवचोयोगभेदेषु तथा “काये' त्ति काययोगसामान्यभेदे, "उरले" ति औदारिककाययोगे, "विउवे" ति वैक्रियकाययोगे, "अाहारदुगे" ति आहारका-ऽऽहारकमिश्रकाययोगयोके, आहारका-ऽऽहारकमिश्रकाययोगमार्गणाद्वय इत्यर्थः । ' कसायेसु"ति चतुषु क्रोधादिकपायमार्गणाभेदेष्वित्येतास्वेकोनविंशतिमार्गणासु प्रत्येकमित्यर्थः । कुत एतास्वायुपोऽनुत्कृष्टस्थितेजेधन्यबन्धकालोऽपोद्य समयमात्रोऽभिधीयते ? उच्यते, आयुर्वन्धप्रारम्भद्वितीयतृतीयसमयेष्वपि प्रवर्तमानस्य मनोयोगादियोगविशेषस्य योगान्तरतया तथा क्रोधादिकषायस्य कषायान्तरतया परावृत्ती सत्यां मार्गणाविच्छेदप्रयुक्तस्य समयमात्रकालस्याऽपि लाभात् । अयम्भावः-प्रवृत्तमनोयोगेन केनाऽपि संक्षिपञ्चेन्द्रियजन्तुना यथाकालमनुत्कृष्टस्थितिकायुषो बन्धः प्रारब्धः, बन्धप्रारम्भद्वितीयसमये तस्य मनोयोगो वाग्योगतया काययोगतया वा परावृत्तः, अर्थान्मनोयोगमार्गणा व्यवच्छिन्ना। इत्थं हि तस्य मनोयोगमार्गणायामेकं समयमनुत्कृष्टस्थितिवन्धस्य प्रवृत्तिर्लब्धा, समयोनान्तमुहृतं तु मनोयोगोत्तरप्रवृत्तवचोयोगादिमागणान्तरे प्राप्ता, ततश्च मनोयोगमागणायामायुषोऽनुत्कृष्टस्थितेर्वन्धकाल एकसमय एष प्राप्तः । अयमेवेकसमयप्रमाणो बन्धकालोऽन्यथाऽपि भाव्यते । तद्यथा-निरुक्तस्वरूपस्य कस्यचिजन्तोर्यदाऽऽयुर्वन्धस्य चरमे समये पूर्वप्रवृत्त मनोयोगादिभ्योऽन्यः कश्चिद्योगः प्रवर्तते तदा तस्मिन्नुत्तरस्मिन् प्रवृत्तयोगे आयुषः प्रकृतवन्धकालः समयमात्रो लभ्यते । यद्वा काययोगं विवयं शेषप्रकृतयोगानां जघन्यावस्थानं समयमानं भवति । कुतः ? मनोयोगादीनां जघन्यकायस्थितेः समयमात्रत्वात् । वक्ष्यते च
“पणमणवयजोगाणं ओरालाहारविश्यकम्माणं . . . . . . . 'समयोऽत्थि जइएणकायठिई।" इति । जघन्यकायस्थितिप्रतिपादनावसरे। ततश्च कस्यचिज्जन्तोरायुर्वन्धे प्रवर्तमाने मध्य एव समयमेक मनोयोगादिः प्रवर्तते, तदा विवक्षितमनोयागादिमार्गणायां प्रस्तुतबन्धकाल एकसमयः प्राप्यते,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International