________________
जघन्योत्कृष्ठबन्धकालः ] द्वितीयाधिकारे कालद्वारम्
[ १५१ बन्धप्रायोग्याध्यवसायानवाप्तेः । कस्मादेतावत्कालं पुनरपि तादृशाध्यवसायो नाऽवाप्यते ? असंश्यवस्थायां तथाविधसामग्रीविरहेण तादृशाध्यवसायस्यानुत्पत्तेः । असंश्यवस्था तूत्कृष्टतोऽसंख्येयपुद्गलपरावर्तान् यावदवतिष्ठते, तदीयोत्कृष्टकायस्थितेरसंख्येयपुद्गलपरावर्तप्रमाणत्वात् । वक्ष्यते च -“णेया असंखिया खलु, परिअट्टा पोग्गलाण तिरियस्स । एगिदिय-हरियाणं, काय णपुंसग-असरणीणं" ॥१५४॥ इति।।
इत्थं चासंख्येयपुद्गलपरावान् यावदुत्कृष्टस्थितिबन्धाभावे केषांचिदसंज्यवस्थायां तावत्कालमनुत्कृष्टस्थितिबन्ध एव प्रवर्तते, ततश्चानुत्कृष्टस्थितेरुत्कृष्टो बन्धकालोऽसंख्येयपुद्गलपरावर्तप्रमाणोऽभिहित इति ॥१४१॥
उक्त अोधतः सप्तानामुत्कृष्टानुत्कृष्टस्थित्योर्जघन्योत्कृष्टद्विविधोऽपि बन्धकालः । साम्प्रतं शेपस्याऽऽयुपस्तं द्विविधं कालमोघतः प्रतिपादयन्नल्पवक्तव्यत्वादादावायुष एव तमादेशतः प्रदर्शयश्चाह
आउस्सुक्कोसाए ठिईश्र समयो हवेज्ज हस्सियरो।
अगुरूअ मुहुरंतो, अाउस्सेमेव सव्वासु ॥१४२॥ (प्रे) “अाउस्सुक्कोसाए' इत्यादि, आयुप उत्कृष्टायाः स्थितेः समयो भवेत् । क इत्याह"हस्सियरो" तिहस्वः'-जघन्यकालः, 'इतरः'–उत्कृष्टका लश्च, अोधत एकजीवाश्रयो जघन्यो बन्धकालः, उत्कृष्टवन्धकालश्च प्रत्येकमेकसमय एव भवति, नाधिक इत्यर्थः । कुतः ? आयुष उत्कृष्टस्थितिवन्धस्योत्कृष्टावाधासापेत्रत्वाद्, वेद्यमानायुपोऽवशेषरूपायास्तस्या अबाधायाः प्रतिसमयं परिगलनाञ्चेति । इदमुक्तं भवति-त्रयस्त्रिंशसागरोपमस्थितिकस्य वध्यमानायुष उत्कृयावाधायां सत्याम कृयास्थितिवन्धो गण्यते, कर्मरूपतापस्थानलक्षणस्य स्थितिबन्धस्याधिकृतत्वात् । उत्कृष्टावाधा तु वेद्यमान पूर्वकोटीस्थितिकायुपो भागद्रयेऽतिगते सति तृतीयभागस्यायसमये अायुध्नतः प्राप्यते, न पुनहितीयादिसमयेषु, वेद्यमानायुपः प्रतिसमयं परिगलनेन शेषवेद्यमानायुरूपाया अबाधाया द्वितीयादिसमयेपु समय-दिसमयादिभिहीन-हीनतर-हीनतमभाषात् । इत्थमुत्कृष्टावाधाया एकं समयं प्राप्तेस्तदधीन आयुष उत्कृष्टस्थितेवन्धकालोऽपि जघन्यत उत्कृष्टतो वा समयमात्रः प्राप्यते, नाधिक इति ।
अथायुषोऽनुत्कृष्टस्थितेबन्धकालमाह- "अगुरूअ मुहत्तंतो ति 'अगुरोः'-अनुत्कृष्टस्थितेमुहर्तान्तः-अन्तमु हृतम् । कः ? एकजीवाश्रयो ह्रस्वकालः, तदितर उत्कृष्टकालश्च, गाथापूर्वाधस्य प्रान्तेऽभिहितस्य "हस्सियरो" इत्यस्य घण्टालालान्यायनात्रापि योजनात् । कस्मादुभयथाप्यन्तमुहूर्तमेव प्राप्यते ? आयुष एकजीवाश्रित प्रकृतिवन्धकालस्य जघन्योत्कृष्टतोऽन्तर्मुहूर्तत्वात्, आयुषः प्रकृतिवन्धे सति कुत्रचित्समयमेकं विहायानुत्कृष्टस्थितिबन्धस्य नियमेन भाराच्चेति ।
उक्त ओघत आयुयोऽप्युत्कृष्टानुन्कृष्टस्थित्योः प्रत्येक द्विविधो बन्धकालः। साम्प्रतमल्पवक्तव्यत्वात् लावाच्च सप्तकर्माणि विहायादावायुप एवेकजीवाश्रितं बन्धकालमादेशतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org