________________
॥ अथ चतुर्थ कालद्वारम् ॥ सम्प्रति क्रमप्राप्तं चतुर्थमेकजीवाश्रयं कालद्वारम् । तत्र चैकजीवाश्रयं कालं प्रचिकटयिपुरादौ तावदोघतोऽष्टानां मूलप्रकृतीनां यथोक्तोत्कृष्टेतरस्थितिबन्धयोः कालं जघन्योत्कृष्टभेदतो दर्शयन्नाह
सत्तण्ह गुरू लहू कालो समयो गुरू मुहुत्तंतो ।
अगुरूत्र मुहुत्तंतो, लहू असंखपरिअटियरो ॥१४१॥ (प्रे०) “सत्तण्ह गुरूप” इत्यादि, आयुर्वर्जानां सप्तानां मूलप्रकृतीनाम् “गुरूप्रति 'गुरोः'उत्कृष्टायाः स्थितेः "लहू कालो त्ति एकजीवाश्रयो 'लघुः'-जघन्यः कालः'-बन्धकालः “समयो' त्ति एकः समयो भवतीत्यर्थः । इदमुक्तं भवति-कालद्वारे जघन्याजघन्योत्कृष्टानुत्कृष्टभेदाच्चतुर्धा विभिन्नानां स्थितीनां प्रत्येकं जघन्यत उत्कृष्टतश्च द्विधा बन्धकालस्य प्रमाणं चिन्त्यते, तत्र ज्ञानावरणादिमूलप्रकृतिसत्काया उत्कृष्टादिस्थितेवन्धो यावत्कालमविच्छिन्नतया प्रवर्तते, तावान् कालस्तस्या उत्कृष्टादेः स्थितेर्बन्धकाल उच्यते, सोऽपि विवक्षाभेदेन द्विधा-एकजीवमाश्रित्य नानाजीवान् समाश्रित्य च । तत्र एकेना विवक्षितजीवेनारब्ध उत्कृष्टायन्यतमस्थितेवेन्धोऽविच्छिन्नतयोत्कर्षतो यावन्तं कालं प्रवर्तते, परतश्च नियमेन व्युपरमते, तावान् सर्वकाल एकजीवमाश्रित्य तस्याः पूर्वारब्धाया उत्कृष्टाद्यन्यतमस्थितेरुत्कृष्टो बन्धकालो गीयते । तस्या उत्कृष्टाद्यन्यतमस्थितेवितितकजीवारब्धो बन्धो यावन्तं समय-द्विसमय-त्रिसमया-ऽन्तमुहर्तकालमनतिक्रम्य नैव विरमति, तावान् समयादिकालस्तु तस्या उत्कृष्टादिस्थितेरेकजीवाश्रयो जघन्यो बन्धकालो भएयते । इत्थमेव नानाजीवानाश्रित्याप्युत्कृष्टादिस्थितिबन्धकालनिर्वचनं बोद्धव्यम् । अनुत्कृष्टस्थितिबन्धेनोत्कृष्टस्थितिबन्धर्जसर्वस्थितिबन्धस्थानसमुदायस्तथैवाजघन्यस्थितिवन्धेन जघन्यस्थितिबन्धवर्जसर्वस्थितिबन्धविकल्पसमुदायश्च प्राग्वद्ग्राह्यः । “सत्तण्ह गुरू लहू कालो' इत्यादिग्रन्थेन भण्यमानः कालस्त्वेकजीवाश्रय एव, संनिकर्षप्ररूपणापर्यन्तानां द्वाराणामेकजीवमपेक्ष्य प्ररूपणीयत्वात् । इत्थं हि सप्तकर्मणामुत्कृधायाः स्थितेरेकजीवाश्रयो जघन्यो बन्धकाल एकसमयोऽर्थात् केनचिदेकेन जीवेनारब्धो ज्ञानावरणादीनामायुर्वर्जसप्तमूलप्रकृतीनामन्यतमप्रकृतेरुत्कृष्टस्थितिवन्धस्तदारम्भद्वितीयसमयेऽपि व्युपरमति । तथाहि-प्रत्येकं प्रकृतीनामुत्कृष्टा जघन्या वा स्थितिः साकारोपयोगोपयुक्तेन जन्तुना निर्वयते, न पुनरनाकारोपयोगोपयुक्तनः एतच्च स्वामित्वद्वारेऽर्थतोऽभिहितमेव । अत्र साकारोपयोगे सत्युत्कृष्टा स्थितिरेव बध्यत इति न नियमः, किन्तु साकारोपयोगे सत्येवोत्कृष्टा स्थितिबध्यते, नान्यथेति । तथा च सति साकारोपयोगे सति केषाञ्चिदुत्कृष्टा स्थितिबंध्यते, केषाञ्चिचनुत्कृष्टाऽपि, अनाकारोपयोगे सति तु नियमतोऽनुस्कृष्टैव बध्यते । साकारानाकारोपयोगी तु प्रत्यन्तर्मुहूर्त नियमेन परावर्तेते, ततश्च केनापि पूर्वप्रवृत्त
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International