SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १४८ ] बंधविहाणे मूलपयडिठिइबंधो [ आदेशतश्चतुर्विधस्थितीनां साद्यादि० कुतस्तत्र जायमानानामेकजीवाश्रयाणामुत्कृष्टादिस्थितिबन्धानामनादिध्र वत्वसम्भवः, न कुतश्चिदित्यर्थः । इत्थं चाऽचक्षुर्दर्शनादिसप्तमार्गणावर्जासु शेषमार्गणास्वेकजीवाश्रयमार्गणावस्थानस्यैव सायध्र वत्वातत्प्रयुक्तावष्टकर्मसत्कचतुर्विधस्थितीनां प्रत्येकं द्वौ द्वावेव भङ्गावभिहितौ । अचक्षुदर्शन-भव्यमार्गणयोस्त्वनन्तरं भाविताः साद्यादिभङ्गाः । मत्यज्ञान-श्रुताज्ञाना-ऽसंयमा-ऽभव्य-मिथ्यात्वमार्गणानामभव्यजीवमपेक्ष्यौघवदनादिध्र वत्वेऽपि तासु सप्तानां जघन्यस्थितिबन्धो न अोषवद्भव्यस्वामिक एव, किन्त्वभव्यस्वामिकोऽपि । कुतः ? मत्यज्ञानादिमार्गणासत्कजघन्यस्थितिबन्धस्यैकेन्द्रियस्वामिकत्वात् । इत्थं च प्रस्तुतपञ्चमार्गणागतसर्वजीवानां सप्तकर्मसत्कजघन्यस्थितिबन्धस्य सम्भवात् , तस्योत्कृष्टान्तरस्याप्यसंख्येयकालचक्रप्रमाणत्वाच्चाऽभव्यजीवा अपि नियमेन प्रस्तुतपञ्चमार्गणाप्रायोग्ययोः सप्तकर्मणां जघन्या-ऽजघन्यस्थितिबन्धयोः परिभ्रमन्ति, ततश्च सप्तानां जघन्याऽजघन्यस्थितिवन्धयोः सायध्र वो द्वावेव भङ्गो लभ्येते । सप्तानामुत्कृष्टानुत्कृष्टस्थितिबन्धयोरायुषश्चतुर्विधस्थितिवन्धयोश्च प्रकृतभङ्गो बोघवदेव विज्ञेयाविति ॥१४०॥ तदेवं समाप्ताऽष्टानामपि मूलप्रकृतीनामुत्कृष्ट-जघन्य-तदितरस्थितिबन्धानामेकजीवाश्रिता मायादिप्ररूपणा, तत्समाप्तौ च गतं 'साइआई"त्यनेनोद्दिष्टं तृतीयं साधादिद्वारम् ॥ ओघत आदेशतश्चाऽष्टानामपि मूलप्रकृतीनामुत्कृष्टादिस्थितीनाम् साद्यादिबन्धभङ्गप्रदर्शकयन्त्रम् मार्गणाआयुर्वजैसप्तानां प्रत्येकम् आयुषः स्थानानि कस्याः स्थितेः । भङ्गकाः । कस्याः स्थितेः । भङ्गकाः प्रोधवत अजघन्यायाः स्थिते:--सादि, अनादि, ध्र ब, उत्कृष्टा-ऽनुत्कृष्ट-1 अत्रव. अचक्षुर्दर्शने उत्कृष्टा-ऽनुत्कृष्ट-जघन्य प्रत्येकम् भव्य जघन्या-उजघन्य- । सादि, २ चतुर्विधस्थितीनां त्रिविधस्थितीनां प्रत्येकम् / सादि, अध्रुव. ___ अजघन्यायाः स्थिते:-सादि, अनादि, अध्रु ब. ३ | चतुर्विधानामपि प्रत्येकम्-सादि, अध्रुव. २ शेपसर्वेषु ।। इति बन्धविधान मूलप्रकृतिस्थितिबन्धे द्वितीयाधिकारे तृतीयं साद्यादिद्वारं समाप्तम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy