________________
साद्यादिबन्धभङ्गप्ररूपणम् ]
द्वितीयाधिकारे साद्यादिद्वारम्
[ १४७
भङ्गका भवन्ति । ततचाष्टाविंशतिर्द्विचत्वारिंशदष्टौ चेत्येतेषां त्रयाणां राशीनां सङ्कलने सर्वे भङ्गा यथोक्ता सप्ततिः संजाता इति ||१३८ । १३६॥
तदेवं दर्शिता श्रोतः साद्यादयो बन्धप्रकाराः । साम्प्रतमादेशतो दिदर्शयिषुरेकामार्यामाह - एवं चक्खु भवियेनु वरि भविये धुवो ण सेसासु ।
ग्रह विहाणं ठिईए साइ अधुवा दोरि ॥ १४० ॥
(०) "एवं चक्खुभवियेसु " इत्यादि, एवंशब्दः सादृश्ये, ततो यथाऽनन्तरमोवतोऽभिहितास्तथैव "वक्खुभवियेसु "त्ति चतुर्दर्शन मार्गणायां भव्य मार्गणायां च प्रत्येकमित्यर्थः । उक्तातिदेशेनातिदिष्टार्थेऽघटमानमर्थमपवदति - "णवरि" इत्यादिना, नवरं “भविये "त्ति भव्यमार्गगायां "धुवोण"त्तिय ओघत आयुर्वर्जसप्तानामजघन्यस्थितिबन्धे 'ध्रुवः वभङ्ग उक्तः, सोऽत्र न भवती यर्थः । कुतः ? भव्यमार्गणागतानां भव्यानां सिद्धिगमनयोग्यत्वस्वलक्षणात् । ततः किम् ? ततः arrafores चरमे जघन्यस्थितिबन्धे प्रारब्धेऽनादिमतोऽप्यजघन्य स्थितिबन्धस्य व्यवच्छेदाद् ध्रुवत्वाभावः । योपशमश्रेणिमारुह्य सप्तानामवन्धप्राप्ता जघन्यस्थितिबन्धस्य विच्छेदाद् ध्रुवत्वाभाव इति । ननु यद्येवं तर्ह्यचतुदर्शन मार्गणायामपि ध्रुवभङ्गोऽपोद्यताम्, अचक्षुर्दर्शनिनामपि क्षपकश्रेणिमारूढानां जघन्यस्थितिबन्धस्य नियमेन भावात् एवमुपशमश्रेणिमारूढानां सप्तानामबन्धप्राप्तेरपि सम्भवाद् ? इति चेद् न तत्राऽचचुर्दर्शनमार्गणायां भव्याऽभव्यद्विविधजीवानां प्रवेशेन भव्यानामुक्तजघन्यस्थितिबन्धस्याऽबन्धस्य च सम्भवेऽप्यभव्यानां तस्याऽऽकालमसम्भवात्, तदपेक्षया सप्तानां वभङ्गस्यापि प्राप्तर्नापयते ध्रुवभङ्ग इति । शेषभङ्गभावना तूभयत्र सुगमा, भव्या-भव्यजीवस्वामिकोत्कृष्टा-ऽनुत्कृष्टस्थितिबन्धयोर्भव्यजीवस्वामिकजघन्यस्थितिबन्धस्य च स्वान्यस्थितिबन्ध - तयाऽवन्धतया वा नियमेन परावर्तनादिति ।
,
उक्तशेषमार्गणास्वाह— सेसासु" मित्यादिना, अनन्तरोक्तेऽचक्षुर्दर्शन- भव्यमार्ग विवर्ण्य शेषासु सर्वासु मार्गणा "दृण्ह "त्ति तत्तन्मार्गणायां ज्ञानावरणाद्यष्टानामन्यतमवन्वप्रायोग्यप्रकृतीनासु·कृष्टाऽनुत्कृष्टजघन्याऽजघन्यलक्षणानां चतुर्विधानामपि स्थितीनां, बन्ध इति पूर्वमाथातोऽनुवर्तते, "साइधुवा दोणि "त्ति सावध वौ द्वावेव भङ्गाविति । तत्राऽष्टानामपि प्रकृतीनामजघन्यवर्जनां त्रिविधस्थितीनां त्वोघतोऽपि साय वौ द्वौ द्वावेव भङ्गौ, ततो मार्गणास्थानेध्वपि तदन्यभङ्गयोरसम्भवात् तावेवोक्तौ । श्रथवा मत्यज्ञान - श्रुताज्ञाना- संयमा भव्य - मिथ्यात्वमार्गणावर्जातु मार्गणा प्रत्येकजीवानामवस्थानस्यैव साधु वभङ्गदयगतत्वात् मार्गणाप्रविष्टकालमपेच्य चिन्त्यमानाया एकजीवाश्रयायाः स्थितेरपि साय वौ द्वावेव भङ्गौ प्राप्येते । इदमुक्तं भवति - नानाजीवानाश्रित्य बहूनां मार्गणानामनाद्यनन्तत्वेऽप्येकैकं जीवमपेक्ष्या चतुदर्शनभव्यमार्गणे तथा मत्यज्ञानादिपञ्चर्मार्गणा विहाय सर्वा मार्गेणाः साद्यध्रुवा एव, न पुनरनादिधवाः; तासां चैकजीवमाश्रित्यानादिश्रु वत्वाभावे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org