________________
१४६ ]
बंधविहाणे मूलपयडिठिइबंधो [ उत्कृष्ट-जघन्य-तदितरस्थितीनाम् साद्यादिभङ्गकान् दर्शयन्नाह- "अाउस्स चउविहाण"मित्यादि, आयुःकर्मणो जघन्याऽजघन्योत्कृष्टाऽनुत्कृष्टलक्षणानां चतुर्विधानां स्थितीनां बन्धेऽपि "ते"त्ति तो अनन्तरमभिहिती साद्यध्रवौ द्वौ भङ्गौ शेयौ।
इयमत्र भावना-मोहनीयायुर्वर्जानां परणां मूलप्रकृतीनां जघन्यस्थितिबन्धः क्षपकस्य सूक्ष्मसम्परायचरमस्थितिबन्धे जायते, मोहनीयस्य त्वसौ क्षपकानिवृत्तिवादरचरमस्थितिवन्धे भवति । अयं हि सप्तानामपि मूलप्रकृतीनां जघन्यस्थितिबन्धोऽजातपूर्वो यस्य कस्याऽपि जीवस्याऽजघन्यस्थितिबन्धादुत्तीर्य तत्प्रथमतया तस्मिन्नेव समये जायत इति सादिः, ततः परं क्षीणमोहाद्यवस्थायां सर्वथा न भवतीत्यवः सप्तानां जघन्यस्थितिवन्ध इति द्वावेव भङ्गो सम्भवतः, न शेषौ । एतस्मादायुर्वर्जशेष. सप्तप्रकृतिसत्कजघन्यस्थितिबन्धादन्य उपशमश्रेण्यादौ जायमानोऽपि सर्वोऽजघन्यस्थितिबन्धः । उपशमकस्याऽपि क्षपकाद् द्विगुणवन्धकत्वादितिभावः । ततश्चोपशान्तमोहावस्थायां सप्तानामजघन्यस्थितिवन्धस्याऽबन्धको भूत्वा यदा तत्स्वामी प्रतिपत्य पुनरपि तासामजघन्यस्थितिबन्धं प्रारभते, तदाऽजघन्यस्थितिबन्धः सादिभवति; बन्धव्यवच्छेदानन्तरं तत्प्रथमतयाऽजघन्यस्थितेबध्यमानत्वात् । उपशान्तमोहगुणस्थानकं चाप्राप्तपूर्वाणामजघन्यस्थितिबन्धस्य व्यवच्छेदाभावेना-नादिकालान्निरन्तर जायमानत्वाइजघन्यस्थितिबन्धोऽनादिः । अभव्यानां ध्रुवः, ध्रुवमिथ्यात्योदयानां तेपामजघन्यस्थितिबन्धस्य कदाप्यनिवर्तनात् । भव्यानामध्रुवः, क्षपकश्रेण्यवाप्तौ नियमेन विरमणादित्येवं मप्तानामजघन्यस्थितिवन्धश्चतुर्थोक्तः । एतासामेव सप्तप्रकृतीनामुत्कृष्टस्थितिबन्धस्त्रिंशत्सागरोपमकोटीकोट्यादिमानः, स च सर्व संनियमिथ्याष्टिपर्याप्तसंक्षिपञ्चेन्द्रियजीवेनानुत्कृष्टस्थितिबन्धादवतीर्य कदाचिदेव क्रियते, नानादित इति सादिः, जघन्येन समयादुत्कृष्टतस्त्वन्तमुहूर्ताच्च परतोऽध्यवसायपरावृत्त्याऽनुत्कृष्ट स्थितिन्धे क्रियमाणे उत्कृष्टः स्थितिरन्धो नियमेन निवर्तत इत्यध्रुवः । उत्कृष्ट प्रतिपत्यानुत्कृष्टं वध्नातीत्यनुत्कृष्टस्थितिबन्धोऽपि सादिः, ततो जघन्यतोऽन्तमुहूर्तेनोत्कृष्टतवानन्तोत्सर्पिण्यवसर्पिणीप्वतिक्रान्तासु पुनरप्युत्कृष्टं स्थितिबन्धं कुर्वतोऽनुत्कृष्टो निवर्तत इत्यध्रुवः । इत्येवमुत्कृष्टाऽनुत्कृष्टेषु स्थितिवन्धेषु जीवाः परिभ्रमन्तीति द्वयोरप्यनादिध्रुवत्वासम्भवः, अतः सप्तानां प्रकृतीनामुत्कृष्टानुत्कृष्टस्थितिबन्धौ तिविधौ कथिताविति । आयुष उत्कृष्टादिस्थितिबन्धस्तु वेधभानायुपस्त्रिभागाद्यवशेषे प्रतिनियतकाल एव जायत इति सादिः, समयादन्तमुहूर्ताच्च परतोऽवश्यं निवर्तत इत्यधुवः । इत्येवमायुप उत्कृष्टादिचतुवि|ऽपि स्थितियन्धः सादिरश्च दर्शित इति । एते ह्यष्टानामपि जघन्यादिचतुर्विधस्थितिबन्धसत्का भङ्गाः समस्ताः सन्तोऽष्टसप्तति-(७८)भवन्ति । तद्यथा-आयुर्वर्जानां सप्तानां प्रकृतीनामजघन्यवन्धः सायादिचतुर्वेति कृत्वा सप्तानां चतुर्निगुणनेष्टाविंशतिर्भङ्गा लभ्यते, तासामेव सप्तानां जघन्यादित्रयो बन्धाः प्रत्येकं साद्यवभेदाद् द्विधा प्राप्यन्त इति सप्तसु द्वाभ्यां हतेषु सन्सु जाताश्चतुर्दश, ते च जघन्यादित्रयेण पुनरपि गुण्यन्ते, ततो द्विचत्वारिंशद् भङ्गाः सम्पद्यन्ते । आयुषो जघन्वादिचतुर्विधोऽपि बन्धः प्रत्येकं सायध्रुवद्विप्रकार इति चत्वारो द्वाभ्यां ताडिताः सन्तोऽष्टौ
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org