________________
॥ अथ तृतीयं साद्यादिद्वारम् ॥ साम्प्रतं "साइपाई" त्यनेनोद्दिष्टं तृतीयं साद्यादिद्वारम् । तत्र चोत्कृष्ट-जवन्य-जदितर भेदाच्चतुर्धा विभक्तानां स्थितीनां प्राग्वदोघत आदेशतश्च साधादिवन्धप्रकाराश्चिन्तनीयाः । तत्रादौ तावदोघतश्चिचिन्तयिषुर्गाथाद्वयमाह
सत्तरहं कम्माणं भंगा साई प्रणाइ-धुव-अधुवा । चउरो अजहण्णाए ठिई बंधे मुणेशव्या ॥१३८॥ सत्तण्हुक्कोसे यर-जहण्णगाणऽत्थि साइ-अधुवा दो ।
पाउस्स चउविहाणं ठिईण बंधे वि ते णेया ॥१३॥ (प्रे० ) "सत्तण्ह"मित्यादि, आयुर्वर्जानां सप्तानां मूलकर्मणाम् "साई अणाइधुपपुवा" त्ति सादिरनादिध्रुवाऽध्रुवाश्च चत्वारो भङ्गा:-प्रकाराः, ज्ञातव्या इति गाथाप्रान्तेऽन्वयः। अत्रैकजीवमधिकृत्य य उत्कृष्टादिस्थितिवन्धः पूर्वव्यवच्छिन्नोऽभूतपूर्वो वा प्रारब्धः, स सादिरुच्यते, सह आदिना वर्तते इतिकृत्वा । यस्त्वनादिकालात्सन्ततिभावेन प्रवृत्तोऽन्तराले कदाचिदपि न व्यवच्छिन्नः सोऽनादिविज्ञेयः । यस्त्वनागतकालेऽपि न कदाचिद् व्यवच्छेदं प्राप्स्यति, स ध्रुवः । यः पुनरायत्यां नियमेन व्यवच्छेदं यास्यति, सोऽध्रुवश्वावसातव्यः । किं सप्तानामुत्कृष्टादिचतुर्विधस्थितिबन्धे एते चत्वारो भङ्गा ज्ञातव्या उत कस्मिंश्चिदेवेत्याह-"अजहण्णाए"इत्यादि, सवजघन्यस्थितिबन्धस्थानलक्षणमेकं स्थानं त्यक्त्वा शेषसवस्थितिबन्धस्थानसमुदायलक्षणाया अजघन्यायाः स्थितेर्वन्धे इत्यर्थः, न पुनः समयाधिकजघन्यायाः, हिसमयाधिकजघन्यायाः, इत्येवं प्रत्येकस्थानरूपाया अजघन्यायाः; प्रत्येकस्थानरूपाऽजघन्यस्थितेबन्धस्य सादिसान्तभङ्गपतितत्वादिति । सप्तानामुत्कृष्टादिस्थितेवन्धे तर्हि किमित्याह–“सत्तण्हुक्कोसेयरजहण्णगाणे"त्यादि, प्रस्तुतानामायुवेर्जानां सप्तानामु-कृष्टायाः, इतरपदादनुत्कृष्टायाः, जघन्यायाश्वेत्येवं शेषत्रिविधायाः स्थितेवन्धे "अस्थि साइअधुवा दो"त्ति उक्तस्वरूपौ साद्यध्वौ द्वौ भङ्गौ स्त इत्यर्थः । अत्रापि सर्वोत्कृष्टस्थितिबन्धलक्षणमेकं स्थितिबन्धस्थानं विवर्य शेषसर्वस्थितिबन्धस्थानानां समुदायोऽनुत्कृष्टस्थितिवन्वतया बोद्धव्यः, न पुनः शेषसर्वस्थितिबन्धस्थानानि प्रत्येकरूपेण । इत्थं हि जघन्याऽजघन्यस्थितिबन्धात्मकेन स्थितिबन्धद्वयेन सर्वाण्यपि स्थितिबन्धस्थानानि संगृहीतानि भवन्ति, उत्कृष्टाऽनुत्कृष्टस्थितिबन्धात्मकेन च स्थितिबन्धहयेनापि सर्वाण्यपि स्थितिबन्धस्थानानि संगृहीतानि भवन्तीति । अथ शेषस्यायुःकर्मणश्चतुर्विधस्थितिबन्धे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |