________________
१४४ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानेष्वायुषः तमशुभलेश्यायां सत्यां देवायुष एव बन्धसम्भवादिति । “सुरो व णिरयो वा"त्ति 'सुरः'-देवो वा नैरयिको वा, देवनारकान्यतर इत्यर्थः, आयुषो जघन्यस्थितिबन्धस्वामी भवेदिति गाथाप्रान्तेऽन्वयः । केषु मार्गणाभेदेष्वित्याह-"णाणतिगे" इत्यादि, मनःपर्यवज्ञानवर्जे ज्ञानत्रिके. मतिज्ञानादिमार्गणाभेदत्रय इत्यर्थः । अवधिदर्शनमार्गणायां, चः समुच्चये, स च व्युत्क्रमेणोत्तरत्र योज्यः । “सम्मखइअवे प्रसुति सम्यक्त्वौघ-नायिकपम्यक्त्व-वेदकसम्यक्त्वमार्गणासु चेत्यर्थः । एतासु सप्तमार्गणासु प्रत्येकं सम्यग्दृष्टयो जीवा एव समाविष्टाः, तेभ्योऽनन्तरभवे मनुष्यतयोत्पत्स्यमानानां देवनारकाणामेव जघन्यस्थितिबन्धः सम्भवति, न पुनर्देवतयोत्पत्स्यमानानां मनुष्यतिरश्चामितिकृत्वा देवनारका एव जघन्यस्थितिबन्धस्वामिनोऽभिहिता इति ॥१३६॥ अथ यासु मार्गणासु प्रमत्तादिसंयतानां सद्भावेऽपि केवलानां प्रमत्तानामेव जघन्यस्थितिबन्धस्तासु मार्गणासु तथैव दर्शयन्नाह
अाउस्स लहुठिईए णायब्बो बंधगो पमत्तजई ।
मणणाण-संयमेसु समइन छेत्र-परिहारेसु॥१३७॥ (प्रे०) "प्राउस्से"त्यादि, प्रकृतस्याऽऽयुषो लघुस्थितेर्बन्धकः 'प्रमत्तयतिः'-प्रमत्तसंयतो ज्ञातव्यः, अप्रमत्ताद्यपेक्षया तस्यैव संक्लेशाधिक्येन लघुस्थितिबन्धभावात् । केषु मार्गणाभेदेष्वित्याह"मणणाणे"त्यादि, मनःपर्यवज्ञान-संयमोघमार्गणाभेदयोः, सामायिकसंयम-छेदोपस्थापनसंयमपरिहारविशुद्धिकसंयममार्गणाभेदेषु चेत्यर्थः । सुगमम् । इदन्तु बोद्धव्यम्—यास्वपर्याप्तपञ्चेन्द्रियनिर्यगायकोन सप्ततिमार्गणामु कश्चिदपि विशेषो नाभिहितस्तामु सामान्यवक्तव्यतायां दर्शितविशेषणान्येवापर्याप्तपञ्चेन्द्रियतिर्यगादितत्तन्मार्गणागतजीवापेक्ष्या विशेषतया बोद्धव्यानि, ततश्च तासु मार्गणासु साकारादिविशेषणविशिष्टा जघन्यायामबाधायां वर्तमानास्तत्प्रायोग्यसंक्लिष्टा जीवा आयुषो जघन्यस्थितिवन्धस्वामिनः । ताश्च मार्गणा इमाः-अपर्याप्तपञ्चेन्द्रियतिर्यग्भेदः, अपर्याप्तमनुष्यभेदः, अपर्याप्तपञ्चेन्द्रियजातिभेदः, अपर्याप्तत्रसकायभेदः, पञ्चानुत्तरविमानसत्का देवगतिभेदाः, सप्तैकेन्द्रियमार्गणाभेदाः. नव द्वीन्द्रियादिविकलेन्द्रियमार्गणाभेदाः, पृथिव्यादिपञ्चकायमार्गणासत्का एकोनचत्वारिंशद्भेदाः, आहारका-ऽऽहारकमिश्रकाययोगभेदो, देशसंयत-सासादना- संज्ञिमार्गणाभेदाश्चेति । नचाऽपर्याप्तपञ्चेन्द्रियवसमार्गणयो रकदेवानां व्यावृत्तये प्रस्तुतस्वामिविशेषणतया तिर्यग्मनुष्या इति विशेषणं कथं नाख्यातेति वाच्यम् । नारकदेवानां प्रकृतिवन्धस्वामित्वाभावेन तत एव व्यावृत्तत्वादिनि ॥१३७॥
तदेवमभहिता मार्गणास्थानेष्वपि शेपम्यायुःकमणो जघन्यस्थितिबन्धस्वामिनः, इत्थं च गतं द्वितीयं स्वामित्वद्वारम् ॥
॥ इति बन्धविधाने मूलप्रकृतिस्थितिबन्धे द्वितीयाधिकारे द्वितीयं स्वामित्वद्वारं समाप्तम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |