________________
जघन्यस्थितिबन्धस्वामिनः ] द्वितीयाधिकारे स्वामित्वद्वारम्
[ १३५ ___ (प्रे० ) "इह यो होइ" इत्यादि, 'इह'-मार्गणास्थानेषु भण्यमाने आयुषो जघन्यस्थितिबन्धस्वामित्वविषये यो भवति विशेषः स उच्यते इति प्रतिज्ञा, तामेव निर्वाहयन्नाह-"बंधगो"इत्यादि, आयुषो 'लघोः'-जघन्याः स्थिते-बन्धकः'-स्वामी ज्ञातव्यः, अस्य चान्वयो द्वितीयगाथाप्रान्ते "मिच्छदिट्ठीयो" इत्यनेन, तेन मिथ्यादृष्टिातव्य इत्यर्थः । एतेन सम्यग्दृशामायुषो जघन्यस्थितिवन्धस्वामितया व्यवच्छेदः कृतः । कासु मार्गणास्वायुषो जघन्यस्थितेः स्वामी मिथ्यादृष्टितिव्यः ? इत्याह-"सव्वेसु णिरयभेएसु"मित्यादि, अष्टष्वपि निरयगतिमार्गणाभेदेषु, “तिरिय"त्ति तियग्गत्योघे, “पणिदितिरियनरतिग" इत्यत्र त्रिकशब्दस्योभयत्र योजनात् पञ्चेन्द्रियतियत्रिक नरत्रिकं च, अत्र व्याख्यानतो विशेषप्रतिपत्तेः प्रत्येकत्रिरेनापर्याप्तभेदवर्जाः शेपास्त्रयस्त्रयो भेदा ग्राह्यास्तेषु षट्भेदेष्वित्यर्थः । “सुर"त्ति देवगत्योषभेदे “गेविज्जअंतदेवेसु"ति भवनपत्यादिषु नवमग्रेवेयकान्तेष्वन्येषु चतुर्विंशतिदेवगतिमार्गणाभेदेषु चेत्यर्थः । “उरले"त्ति औदारिककाययोगे "उराल मोसे"त्ति औदारिकमिश्रकाययोगभेदे, तथैव "विउवम्मि य"त्ति वैक्रियकाययोगभेदे, चः समुच्चये, एतासु समुच्चितासु त्रिचत्वारिंशन्मार्गणासु प्रत्येकमित्यर्थः । इति ॥१३२।१३३॥
अथान्यत्राह
तिरियो णरो व मिच्छो होइ पणिंदियदुगे तसदुगे य। पणमणवयेसु काये वेअतिगे चउकसायेसु॥१३४॥ अण्णाणतिगे अयते चक्खु-अचक्खूसु असुहलेसासु ।
भविया-ऽभवियेस तहा मिच्छे सरिणम्मि अाहारे ॥१३५॥ (प्रे०) “तिरियो णरो व" इत्यादि, पञ्चेन्द्रियद्विकाद्याहारिपर्यन्तेषु षट्त्रिंशन्मार्गणाभेदेषु प्रत्येकं “मिच्छो"त्ति मिथ्यादृष्टिस्तिर्यग् मनुष्यो वाऽऽयुषो जघन्यस्थितिबन्धस्वामी भवति, न पुनर्देवो नारको वा; देवनारकाणामनन्तरभवे लब्ध्यपर्याप्ततयोत्पादाभावेन प्रकृतमार्गणासु बन्धप्रायोग्यस्य जघन्यस्थितिकस्य लब्ध्यपर्याप्तसत्कायुषो बन्धस्याकरणात् , न वा सम्यग्दृष्टितिय-मनुष्याः, तेषां देवायुष एव बन्धभावादिति भावः । अक्षरार्थस्तु सुगमः, केवलम् “पणिदियदुर्गे" इत्यनेनापर्याप्तपञ्चेन्द्रियभेदव/ पञ्चेन्द्रियोघ-पर्याप्तपञ्चेन्द्रियभेदो ग्राह्यौ, तथैव "तसदुगे" इत्यनेनाऽप्यपर्याप्तवसकायभेदवौं शेषौ त्रसकायभेदौ ग्राह्याविति ॥१३४।१३।। अथ मार्गणान्तरेष्वाह
मिच्छादिट्ठी देवो सुहलेसामुसुरो व णिरयो वा।
णाणतिगे अोहिम्म य सम्म-खइअ-वेअगेसु भवे ॥१३६॥ (प्रे० ) "मिच्छादिट्ठी देवो" इत्यादि, शुभासु-प्रशस्तासु तेजः-पद्म-शुक्ललेश्यागु प्रत्येक मिथ्यादृष्टिदेवः, आयुषो जघन्यस्थितिबन्धस्वामीति गम्यते । सुगमम् । मनुष्यतिरश्चां वर्जनं तेषामन्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org