________________
१३४ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानेष्वायुषः (प्रे०) “मोसे यो" इत्यादि, मिश्रदृष्टिमार्गणायां योऽनन्तरे समये सम्यक्त्वं प्रतिपत्स्यते, स बन्धको भवति । कस्या इत्याह- "सत्तण्हे"त्यादि, आयुर्वर्जानां सप्तकर्मणां ह्रस्वाया:-जघन्यायाः स्थितेः । अत्र सम्यक्त्वाभिमुखस्य ग्रहणं मिश्रदृष्टीनां सम्यग्मिथ्यात्वगुणस्थानादनन्तरमेव देससंयमादिगुणस्थानेषु गमनाभावेन देशसंयमाद्यभिमुखत्वस्याऽसम्भवात् , न पुनर्देशसंपमाद्यभिमुखानां व्यावृत्यर्थम् । उक्तं च कर्मप्रकृत्युदोरणाकरणवृत्तौ
“सम्यग्मिध्यादृष्टियुगपत् सम्यक्त्वं संयमं च न प्रतिपद्यते, तथाविशुद्धेरभावात्, किन्तु केवलं सम्यक्त्वमेव" इति । शेषनिश्रष्टिजीवापेक्या सम्यक्त्वाभिमुखानां विशुद्धतरत्वेन जघन्यस्थितिबन्धस्वामित्वमिति तु सुगम इति ॥१३०॥
तदेवं प्रदर्शिता सप्तकर्मणां जघन्यस्थितिबन्धस्वामिनः। साम्प्रतमुक्तशेयस्यायुःकर्मणो जघन्यस्थितिवन्धस्य स्वामिनः प्रदिदर्शयिषुः. प्रागुक्तनीत्या सर्वमार्गणाविषयकसामान्यवक्तव्यतामादावेव दर्शयति
तप्पाउग्गकिलिट्ठो सम्वत्थाऽऽउस्स लहुठिईअ भवे ।
सागाराविसिट्ठो वट्टतो लहुअबाहाए ॥१३१॥
(प्र. ) "तप्पाउग्गे"त्यादि, सुगमम् , नवरं तत्प्रायोग्यसंक्लिष्टस्य ग्रहणमौधिकजघन्यस्थितिकायुर्वन्धवत् प्रत्येकं मार्गणास्थानेषु तिर्यग्-मनुष्य-देवायुषामन्यतमस्य जघन्यस्थितिकायुपो बन्धभावात्, तस्य च जघन्यस्थितेः संक्लेशप्रत्ययत्वात् । इदमुक्तं भवति-यदि कस्यामपि मार्गणायां जघन्यस्थितिकमायुर्निरयगतिसत्कं बध्नीयात्तदा तस्य निरयायुषोऽशुभत्वेन तस्य जघन्यस्थितेवन्धकस्तत्प्रायोग्यविशुद्धः स्यात् । न चैतद्भवति, सप्तमपृथिवीनरयिक-तेजो-वायुकायिकानां तिर्यगायुवस्तथा संख्येयवर्षायुपी युग्गिनां सम्यग्दृष्टिमनुजतिरश्वां च देवाषुष एव जघन्यस्थितेबन्धात् , एवमेवाऽऽनतकल्पादिदेवानां मनुष्यसत्कस्यैवाऽऽयुषो बन्धात् , शेषाणां च नैरयिकादीनां मनुष्यसत्कस्य तिर्यक्सत्कस्य वा जघन्यस्थितिकायुपो बन्धभावात् । इत्थं हि सर्वमार्गणास्वायुषो जघन्यस्थितेवन्धकाः संक्लिष्टाः प्राप्यन्ते । संक्लेशे तत्यायोग्यत्वविशेषणं तु प्राग्वदेव बोद्धव्यमिति ॥१३१॥ तदेवं सर्वमार्गणाविषयकसामान्यवक्तव्यतां प्रदर्येदानीं विशेषवक्तव्यतां प्रदर्शयितुमाह
इह यो होइ विसेसो सो वुच्चइ बंधगो लहुठिईए ।
आउस्स जाणियव्वो सब्वेसुणिरयभेएसु ॥१३२॥ तिरिय-पणिंदितिरिय-णरतिग-सुर-गेविज्जतदेवेसुं। उरले उरालमीसे विउवम्मि य मिच्छदिट्ठीयो ॥१३३॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International