________________
जघन्यस्थितिबन्धस्वामिन: ]
द्वितीयाधिकारे स्वामित्वद्वारम्
[ १३३
पद्मलेश्यामार्गणयोरपि, अन्यत्र कृतकरणाद्धायाः प्रागनन्तरस्थितिबन्धं कुर्वतां शुक्रलेश्याया एव सद्भावप्रतिपादनात् । उक्तं च
" सम्यक्त्वस्य च चरमस्थितिनडे उत्कीर्णे सति असौ क्षपकः कृतकरण उच्यते । अस्यां च कृतकरणाद्धायां वर्तमानः कश्चित् कालमपि कृत्वा चतसृणां गतीनामन्यतमस्यां गतावुत्पद्यते । लेश्यायामपि च पूर्वं शुक्ललेश्यायामासीत्, सम्प्रत्यन्यतमस्यां गच्छति” इति ।
इत्थं कृतकरणाद्धायाः प्राक्शुक्लेश्यायाः प्रतिपादनात् कृतकरणाद्वायाः प्रागनन्तर भावि - जघन्यस्थितिबन्धस्तेजोलेश्या मार्गणायां पद्मलेश्यामार्गणायां वा नावाप्यते, तथा च सत्युभयमतेऽपि तयोर्द्वयोर्मार्गणयोर्जघन्यस्थितेबंन्धकाः स्वस्थानाऽप्रमत्त संयता एव । इत्थं न सङ्गच्छते लेश्यामार्गणाद्वये " से कालम्मि" इत्यादिना द्वितीयमताभिधानम् ? इति चेद्, न कषायप्राभृतचूर्णी दर्शनमोहक्षपणायाः प्रारम्भतः प्रवृत्ताया अन्यतमशुभलेश्याया यथोत्तरं परिणामविशुद्धया विशुद्धयमानायाः कृतकरणाद्धायामप्यन्तमुहूर्त प्रवृत्य तत्पश्चात्कापोताद्यन्यतमलेश्यारूपेण परिणतिरभिहिता । उक्तं च कषायप्राभृतचूण
"जइ तेउ-पम्ह-सुक्के व अंतमुहुत्तकदकर णिज्जो" इति ।
प्रर्थाद्-य: तेजः-पद्म- शुक्लान्यतमस्यां यस्यां लेश्यायां दर्शन मोहनीयक्षपणां प्रारभते, स तस्यां लेश्यायामेवान्तमुहूर्तं कृतकरणो भवति, स एव कृतकरणाद्वाया अवग्भाविनं चरमं जघन्यस्थितिबन्धं कुर्वन् शुक्रलेश्यायामिव तेजः - पद्मलेश्ययोरपि जघन्यस्थितिबन्धस्वामी भवतीत्येतस्यापि मतान्तरस्य सच्चात् तेजः- पद्मलेश्यामार्गणयोरपि विकल्पाभिधानं नासङ्गतमित्यलं विस्तरेण ||१२८||
अथान्यत्राह -
उवसामगो उसमे वट्टतो होइ चरम बिंधे ।
सासाणे चगइयो निवडतो संयमा व भवे ॥ २६ ॥
(प्रे०) ' उवसामगो" इत्यादि, " उवसमे" त्ति औपशमिकसम्यक्त्वमार्गणायामुपश्रेणिमारोहन् चरमे स्थितिबन्धे वर्तमान उपशामकः सप्तकर्मणां जघन्यस्थितिबन्धस्वामी भवति । निवृत्तिकरणगुणस्थानचरमस्थितिबन्धे मोहनीयस्य, सूक्ष्म सम्परायगुणस्थानकचरम स्थितिबन्धे मोहनीयायुर्जानां पराणामिति विवेकः । इति । "सासाणे" त्ति सासादनसम्यक्त्वमार्गणायां "चउगइयो" ति चतुर्गतिकः, नारकाद्यन्यतम इत्यर्थः । अत्रैव विकल्पान्तरमाह — "निवडतो संयमा व भवे" त्ति " व "त्ति वा अथवा, स च प्रकृतमार्गणायां प्रकृतजघन्यस्थितिबन्धस्वामि विषयकविकल्पप्रदर्शनपरः । ततोऽन्यविकल्पेन संयमात् निपतन् यः सासादन्यभूत्, स तत्र प्रथमं स्थितिबन्धं कुर्वन् जघन्यस्थितिबन्धस्वामी भवेदित्यर्थः ॥ १२६ ॥
मीसे यो पडिवज्जइ अतरम्मि समयम्मि सम्मत्तं । सो बंधगो हवेज्जा सत्तरह ठिई हस्साए ॥१३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org