SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १३२ ] विहाणे मूल डिइिबंधो [ मार्गणास्थानेष्वायुर्वर्जानाम् निर्वर्तकः यः संयमाभिमुखः स इत्यर्थः, यस्मिन् स्थितिबन्धे समाप्ते सति संयतो भविष्यति तस्मिन् स्थितिबन्धे वर्तमान इतियावत् । इति ॥१२७॥ अथ मिश्रयोगमार्गणात्रयवद् यासु मार्गणासु विकल्पद्वयं ताः संगृह्य तत्राहअपमतो हवा से बंधम्मि कयकरणी हवेहिइ जो । सो णेयो परिहारे तेउ-पउम वेगेसु ं य ॥ १२८ ॥ (प्रे० ) "अपमत्तो" इत्यादि, वच्यमाणमार्गणासु सप्तकर्मसत्कजघन्यस्थितिबन्धकोऽप्रमत्तसंयतः, ज्ञेय इति परेणान्वयः । तास्वेव मार्गणासु मतान्तरेण पुनरन्यं विशेषमाह – ' अहवा " इत्यादिना, अथवा मतान्तरे " से बंधम्मि कयकरणो हवेहिइ जो सो णेयो" त्ति सेशब्दस्यानन्तर्यार्थकत्वेनाऽनन्तरे ‘बन्धे’- स्थितिबन्धे कृतकरणो भविष्यति यः स ज्ञेयः, एवम्भूतोऽप्रमत्तसंयत ज्ञातव्य इत्यर्थः । स्वस्थानाप्रमत्तसंयतापेक्षया क्षायिकसम्यक्त्वाभिमुखस्यास्य विशुद्धेराधिक्यादित्यभिप्रायः । कामु मार्गणास्त्रित्याह - परिहारे ते उपउमवेगे सुं यत्ति परिहारसंयमे तेजोलेश्या- पद्मलेश्या-वेदकसम्यक्त्वमार्गणाभेदेषु च एतासु चतसृषु मार्गणासु प्रत्येकमित्यर्थः । इयमत्र भावना - क्षपकश्रेणि प्रतिपत्ता यदाऽनन्तानुबन्धिचतुष्कं मिथ्यात्वमोहनीयं मिश्रमोहनीयं च यथाविधि सर्वथा क्षपयित्वा क्रमशः सम्यक्त्वमोहनीयस्यापि चरमखण्डं क्षपयति तदा कृतकरण उच्यते । उक्तं च कषायप्राभृतचूणौं - "चरिमे ट्रिट्ठदिखंडए गिट्टिदे कदकर णिज्जो त्ति भरणदे !” इति । एवम्भूतो हि कृतकरणोsविरत सम्यग्दृष्ट्यादीनामन्यतमो भवति, तत्राप्रमत्तसंयतस्य शेषाविरत सम्यग्दृष्ट्याद्यपेक्षया विशुद्धत्वादसावेव प्रकृते गृह्यते, अयं प्रमत्तकृतकरणः कृतकरणाद्धायाः प्राक् सम्यक्त्वमोहनीयस्य चरमस्थितिखण्डमुत्कीरयन् सम्यक्त्वपुद्गलाश्च वेदयन् यं चरमस्थितिबन्धं करोति सः स्थितिबन्धः प्रस्तुतमार्गणाभावमवस्थितिबन्धापेक्षया स्तोकः भवति, तदानीं क्षायिकसम्यक्त्वाभिमुखस्य तस्य शेषाप्रमत्तसंयतापेक्षया विशुद्धत्वादिति द्वितीयमताभिप्रायः । प्रथममताभिप्रायेण तु क्षायिकसम्यक्त्वाभिमुखानां कृतकरणाद्धायाः प्रागनन्तरस्थितिबन्धं कुर्वतां यथा जघन्यस्थितिबन्धप्रायोग्य विशुद्धिरवाप्यते, तथा स्वस्थानगतानामपि निमित्तान्तरेण तादृशी विशुद्धिरवाप्यते । इत्थं न केवलं कृतकरणाद्धायाः प्रागनन्तर स्थितिबन्धं कुर्वतामेत्र जघन्यस्थितिबन्धस्वामित्वम्, किन्तु तदन्याऽप्रमत्तसंयतानामपि । ततः प्रथममतेऽप्रमत्त इत्येतावन्मात्रममिहितम् तेनैवोक्तोभयविधबन्धकानां ग्रहणात् । द्वितीयमते तु केवलानां कृतकरणाद्वायाः प्रागनन्तरस्थितिबन्धं कुर्वतां जघन्यस्थितिबन्धस्वामितया -"से कालम्मि" इत्यादिविशेषाभिधानपूर्वकं स्वस्थानसंयतानां जघन्यस्थितिबन्धस्वामितया प्रतिषेधः कृत इति । ननु एतन्मतद्वयमपि परिहारविशुद्धिकसंयम मार्गणायां वेदकसम्यक्त्वमार्गणायां च कृतकरणाद्धायाः प्रागनन्तरस्थितिबन्धं कुर्वतां जीवानां प्रवेशात् तयोर्द्वयोर्मार्गणयोः सङ्गच्छते, न पुनः शेषयोस्तेजः Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy