________________
जघन्यस्थितिबन्धस्वामिनः ]
द्वितीयाधिकारे स्वामित्वद्वारम्
[ १३१
मिश्रकाययोगमार्गणायाम् । सुगमम् | केवलमसौ करणापर्याप्तो बोद्धव्यः । कुतः ? लब्ध्यपर्याप्तबादरैकेन्द्रियापेक्षया करणाऽपर्याप्तस्य बादरैकेन्द्रियस्याधिकविशुद्धेः सम्भवादिति । अथ योगमार्गणासत्काऽऽहारकाऽऽहारकमिश्रकाययोगभेदद्वये न कश्चिद्विशेोऽभिहितः, अतस्तत्र वक्तव्योऽसौ, नवरमाहारककाययोगे “सेसासु" (गाथा - ११६ ) इत्यादिनाऽभिहित सामान्यवक्तव्यतयैव पर्याप्तत्वेन नास्ति कश्चिद्विशेषोऽभिधानीयः, अर्थात्तत्र सामान्यवक्तव्यतयाऽभिहिताः साकारादिविशेषणविशिष्टास्तत्प्रायोग्यविशुद्धा जीवाः सप्तमूलप्रकृतीनां जघन्यस्थितिबन्धस्वामिनः । इत्थमेवैकेन मतेनाऽऽहारकमिश्रकाययोगमार्गणाभेदेऽपि, नवरं मिश्रयोगमार्गणात्रये "सेकाले पज्जत्तिं निट्टवउ स व मुण मीसजोगेसुं ॥६३॥” इतिवचनाद् यथा मतान्तरेण शरीरपर्याप्तिनिष्ठापनादर्वागनन्तरसमय एवोत्कृष्ट स्थितिबन्धभावात्तत्र मिश्रयोगचरमसमये वर्तमाना जीवा एवोत्कृष्टस्थितिबन्धस्वामिनो भवन्ति, तथा तेन मतेन मिश्रयोग्यवस्थायामुत्कृष्टसंक्लेशस्येवोत्कृष्टविशुद्धेरपि तदानीं मिश्रयोगचरमसमये एव सम्भवाज्जघन्यस्थितिबन्धोऽपि तदानीं भवति, तो मतान्तरेण मिश्रयोगचरमसमये वर्तमाना एवं जघन्य स्थितिबन्धस्वामिनो भवन्तीत्येतावद्विशेषस्य सद्भावात्तं दर्शयति- " नंतरकाले सरीरपज्जत्ति' मित्यादि, गतार्थम् । केवलमाद्यमते उक्तविशेषणानामप्यत्रानुवर्तनादौदारिक मिश्र काययोगे शरीरपर्याप्तिनिष्पत्तेरर्वाक्समये वर्तमाना बादरैकेन्द्रियास्तथा वैक्रियमिश्रकाययोगे शरीरपर्याप्तिनिष्पत्तेरर्वाक्समये वर्तमानाः सम्यग्दृष्टिदेवनारकाः सप्तानां जघन्यस्थितियन्वस्वामिन इति बोद्धव्यमिति ।। १२६ ।। गता योगमार्गणाभेदध्वपि प्रस्तुतस्वामित्ववक्तव्यता । अथ वेदकषायादिमार्गणा सत्कशेषभेदेषु दर्शयन्नाह - वे कसायतिगेस समय बेएस वंगो खरगो
होइ चरमठिइबंधे विभंग-देसेसु संयमाभिमु हो ॥१२७॥ ( गीतिः)
(प्रे०) ' वे कसायतिगे सु" मित्यादि, त्रिकशब्दस्य प्रत्येकं योजनाद् वेदत्रिक-कपायत्रिकयोः । अत्र कषायत्रिकेन लोभमार्गणावर्जाः शेषाः क्रोधादिमार्गणा गृह्यन्ते, लोभमार्गणायां प्रागेौघवदतिदिष्टत्वादिति । तथा "समय" इत्यादि, सामायिकसंयम-छेदोपस्थापनसंयममार्गणयोः प्रत्येकम् " बंधगो खवगो "त्ति सप्तप्रकृतिसत्कजघन्य स्थितेर्वन्धकः - स्वामी 'क्षपक:' - चारित्र मोहनीय क्षपकः, भवतीत्युत्तरार्धेऽन्वयः । ननु कथं चारित्रमोहनीयक्षपक इति गम्यते । उच्यते, "चरमठिइबन्धे " इत्यनन्तरवच्यमाणत्रचनेन, यतः प्रकृतमार्गणास्वपि निरुक्तक्षपको जघन्यस्थितिबन्धस्वामी तदा भवति यदाऽसौ चरमस्थितिबन्धे वर्तन्ते । अत्र चरमस्थितिबन्धः सूक्ष्म सम्पराय गुणस्थानकसत्को ग्रहीतु न युज्यते, अतोऽसौ प्रस्तुतस्त्रीवेदादितत्तन्मार्गणाऽपेक्षया ग्राह्यः । स्त्रीवेदादिना क्षपकश्रेणिमारुह्य स्त्रीवेदादेरुदयविच्छेदादर्वाग्भाविनं तत्तन्मार्गणासत्कं चरमस्थितिबन्धं कुर्वन् जीवः प्रकृतस्थितिबन्धस्वामी भवतीति भावः । “विभंगदेसेसु" त्ति त्रिभङ्गज्ञान- देशसंयममार्गणयोः प्रत्येकं "संयमाभिमु हो"त्ति “चरमठिइबंधे” इत्येतद्देहलीदीपकन्यायेनात्रापि संबध्यते, ततः प्रस्तुतमार्गणयोश्वरम स्थितिबन्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org