________________
१३० ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानेष्वायुर्व जनाम्
इम्यत एव । अधिकृतमार्गणासु संयतानामप्रवेशादुक्तनीत्याऽसंज्ञिनो जघन्यस्थितिबन्धस्वामिनो भवन्तीति तथैवाभिहिता इति । तिरश्चीमार्गणायामसंज्ञिजीवसचं तु "थीनरपगिदि चरमा चउ" इत्यादिनाऽन्यत्र षडशीत्यादौ स्त्रीपु वेदमार्गणादावभिहितनीत्याऽत्रापि बोद्धव्यमिति ॥ १२३ ॥ १२४ ॥ एगिंदिये गए पहवाईसु बायरो यो । इंदियो भवे बंधो अपज्जत्ततसकाये ॥ १२५ ॥
(प्रे०) "एगिदिये" इत्यादि, एकेन्द्रियौघे, “णिगोए "ति साधारण वनस्पतिकायौघभेदे, "पणपुहवाईसु"त्ति पृथिवीकायादिवनस्पतिकायान्तेषु पञ्चसु पृथिव्याद्योघमार्गणाभेदेष्वित्येतासु सप्तमागंणासु प्रत्येकम् "बायरो यो "त्ति बादरैकेन्द्रियपृथिवी का यादिजीवः सप्तानां जघन्यस्थितिबन्धस्वामी ज्ञेयः । अत्रापि पर्याप्त इति तु प्रागुक्त सामान्योक्त्यावगन्तव्यम् । एवमेवोत्तरत्रापि विज्ञेयम् । कुतो बादर एव स्वामी ? उच्यते, सजातीयपर्याप्ताऽपर्याप्तजीव राशिषु पर्याप्तानामिव सूक्ष्म- बादरजीवराशिषु वादरजीवानामेवाधिकविशुद्धिसम्भवेन जघन्यस्थितिबन्धसंभवात् । उक्तं च शकचूर्णे – “एनिंदियेसु सव्वविसुद्ध बायर एनिंदियपज्जत्तगोत्ति तंमि सव्त्रजहन्ना ठिई भवइ" इति । "बेइंदियो भवे"त्ति द्वीन्द्रियजीवः सप्तकर्म सत्कजघन्य स्थितेर्बन्धकः - स्वामी भवेदित्यर्थः । कस्यां मार्गणायामित्याह—“अपज्जत्तत सकाये "त्ति अपर्याप्तत्र स काय मार्गेणाभेद इत्यर्थः । सुगमम्,
संयतानामेकेन्द्रियाणां वाऽप्रवेशादिति ॥ १२५॥
तदेवम् “गइ-इंदिय-काये”इत्यत्र गतिमार्गण सत्कसप्तचत्वारिंशद्भेदेषु “प्रोघव्व मणुस तिगे " इत्यादिना पृथक् पृथक् सप्तकर्मणां जघन्यस्थितिबन्धस्वामित्वं दर्शितम् । इन्द्रियमार्गणा सत्कोन्नविंशतिभेदेभ्यः काय मार्गणा सत्कद्विचत्वारिंशद्भेदेभ्यश्च पञ्चेन्द्रियौध-पर्याप्तपञ्चेन्द्रियभेदयोस्त्र सकायौघपर्याप्तत्र कायभेदद्वये च प्रागोघवत् ( गाथा ११७) प्रस्तुतस्वामिनो दर्शिताः, अपर्याप्तपञ्चेन्द्रियमार्गणायामनन्तर-(गाथा १२४) गाथायां तथैकेन्द्रियौघाद्यष्टमार्गणासु प्रकृत - ( गाथा १२५ ) गाथायां विशेषोऽभिहितः । इत्थं चावशिष्टा इन्द्रियकाय मार्गणाभेदेभ्योऽष्टचत्वारिंशद्भेदाः । तेष्वष्टचत्वारिंशद्भेदेष्वपि “सेसासु मग्गरणासु" इत्यादि ० गाथा - (११६-२०) द्वयोक्तसामान्यवक्तव्यत्वेनैव प्रस्तुतस्वामित्व प्ररूपणस्य पर्याप्तत्वेन विशेषवक्तव्यताया अभावात्ता अष्टचत्वारिंशन्मार्गणा विहाय साम्प्रतं क्रमप्राप्त योगमार्गणा सत्कशेषभेदेषु जघन्यस्थितिबन्धस्वामिवियकविशेषं दिदर्शयिपुराह— तिरियव्व उरलमीसेऽयंतरकाले सरीरपज्जत्तिं ।
यो ट्वेि सो वा यो तिसु मीसजोगेसु ॥ १२६॥
(प्रे०) "तिरियव्व" इत्यादि, तिर्यग्गत्योघमार्गणाभेदवत् सप्तप्रकृतीनां जघन्यस्थितिबन्धस्वामी बादरैकेन्द्रियजीवो भवतीत्यर्थः । कस्यां मार्गणायामित्याह – “ उरलमी से "त्ति प्रदारिक
/
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org