________________
[१२६
जघन्यस्थितिबन्धस्वामिनः ] द्वितीयाधिकारे स्वामित्वद्वारम् णिरयगइमणुयगइदेवगइसु दो दो जीवट्ठाणाणि, सन्निपज्जत्तगा अपज्जत्तगा य” इत्यादि । इत्थं ह्यपर्याप्तमनुष्यमार्गणायां केवलान् संज्ञिजीवानधिकृत्य जघन्यस्थितिबन्धे चिन्त्यमाने भवप्रथमद्वितीयसमययोवर्तमाना एव जघन्यस्थितिबन्धस्वामितया प्राप्येरनिति न कञ्चिदोषमुत्पश्याम इति ॥१२१॥
अथ शेषनिरयदेवभेदेषु प्रस्तुतसप्तकर्मसत्कजघन्यस्थितिवन्धस्वामिविषयकविशेषं दिदयिषुः प्रसङ्गादन्यत्राऽपि सममेव दर्शयति
सेसणिरयदेवेसु विउवदुगे होइ सम्मत्ती ॥१२२॥ (प्रे०) “सेसणिरय"इत्यादि, उक्तशेषेसु द्वितीयादिसप्तमपृथ्वीभेदभिन्नेषु षट्षु निरयभेदेषु ज्योतिष्कादिसर्वार्थसिद्धविमानान्तेषु सप्तविंशतिदेवगतिभेदेषु "विउवदुर्ग"त्ति वैक्रिय-क्रियमिश्रकाययोगमार्गणाद्वयरूपे वैक्रियद्विके इत्येतासु पञ्चत्रिंशन्मार्गणासु प्रत्येकं "होइसम्मत्ती"ति सप्तकर्मजघन्यस्थितिबन्धस्वामी 'सम्यक्त्वी'-अविरतसम्यग्दृष्टिर्भवतीत्यर्थः । कुतः ? एतास्वसंज्ञिनामनुत्पादाद् देशविरत्यादीनामेकेन्द्रियविकलेन्द्रियादीनामप्रवेशाच्च । प्रविष्टमिथ्यादृष्टयाद्यपेक्षयाऽविरतसम्यग्दृष्टीनां स्थितिबन्धो जघन्यतः स्तोको भवतीति तु सुगमः । इति ॥१२२॥ अथान्यत्राह
तिरिये कम्मणजोगे दुअणाणाऽन्यत-तिअसुहलेसासुं । अभविय-मिच्छत्तेसुं श्रमणा-ऽणाहारगेसु य ॥१२३॥ होएज्ज बंधगो खलु बायरएगिदियो, असरणी उ । पंचिंदियतिरियच उग-असमत्तपणिदियेसु भवे ॥१२४॥
(प्रे०) 'तिरिये' इत्यादि, तिर्यग्गत्योधभेदे, कार्मणकाययोगे, मत्यज्ञान-श्रुताज्ञानरूपयोईयोरज्ञानमार्गणयोः, असंयमे, तिसृषु कृष्णाद्यशुभलेश्यामार्गणासु, अभव्य-मिथ्यात्वमार्गणयोः, "अमणाणाहारगेसु यत्ति असंड्यनाहारकमार्गणयोश्च । एतासु तियग्गत्याधनाहारिमार्गणापर्यन्तास द्वादशमार्गणासु सप्तानां जघन्यस्थितिबन्धस्वामिविषयः को विशेष इत्याह-'होएज्ज बंधगो खलु बायरएगिदियो" इति, बादरैकेन्द्रियो 'बन्धकः' -सप्तानां जघन्यस्थितिबन्धस्वामी भवेदित्यर्थः । सर्वपर्याप्तिभिः पर्याप्त इति तु प्रागुक्तसामान्योक्त्यैव यथासम्भवं योज्यम् । खलुशब्दः पादपू पैं । सुगमं चेदम् , एतासु प्रत्येक क्षपकाणामुपशमकानां वाऽप्रवेशात् , शेषबन्धकेषु बादरैकेन्द्रियैरेव स्तोकस्थितिबन्धस्य करणाच्चेति । 'असण्णी उ"त्ति असंज्ञी तु, भवेदिति गाथाप्रान्तेऽन्वयः। सप्तानां जघन्यस्थितिबन्धस्य स्वामीति गम्यते । कुत्रेत्याह-"पंचिदिये''त्यादि, पञ्चेन्द्रियतिर्यगोध-पर्याप्ताऽपर्याप्तपञ्चेन्द्रियतिर्यक्-तिरचीलक्षणे पञ्चेन्द्रियतिर्यग्मार्गणाभेदचतुष्केऽपर्याप्तपञ्चेन्द्रियमार्गणाभेदे चेत्यर्थः । एतासु प्रत्येकं पञ्चेन्द्रियजीवा एव समाविष्टाः, पञ्चेन्द्रियेषु तु सर्वह्रस्वस्थितिबन्धः संयतानां भवति, ततश्चाधिकोऽसंज्ञिनाम् , तेभ्यः पुनरधिकः शेषपञ्चेन्द्रियाणामिति प्रागुक्ताल्पबहुत्वा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International