________________
उत्कृष्ट स्थितिबन्धस्वामिनः ]
द्वितीयाधिकारे स्वामित्वद्वारम्
[ १२५
'नरः ' - मनुष्यो वा " तिरियो वा "त्ति पञ्चेन्द्रिय तिर्यग्वेत्यर्थः । अत्र मिध्यात्वीति विशेषणमभन्यमिथ्यात्वमार्गणयोः स्वरूपदर्शकतयैव बोद्धव्यम् । शेषमार्गणासु तु सासादनसम्यक्त्वभाजामायुष उत्कृष्टस्थितिबन्धस्वामित्वप्रतिषेधार्थं द्रष्टव्यम् । कुतः सासादनिनामुत्कृष्टस्थितिकायुषो बन्धस्वामितया प्रतिषेधः क्रियते ? तेषां सासादनिनां नारकतयोत्कृष्टस्थितिकदेवतया वाऽनुत्पादादिति ॥ ११२ ॥ अथ गाथाद्वयेन शेषमार्गणास्वायुष उत्कृष्टस्थितिबन्धस्वामित्वप्ररूपणं समापयन्नाह - मणुसित्थी - पाणचउग-विरइ समय- परिहार-छेएसु । हि-तिमुहलेसासु सम्म खइ वेगे भवे ॥ ११३ ॥ तदरिहसुद्ध मत्तो सासदेसे तदरिहसुद्धपरो । तप्पा उग्गकिलिट्ठो अमोघ सेसा ॥ ११४ ॥
(प्रे०) “मणुसित्थीणाणचउग" इत्यादि, मानुषीमार्गणायाम्, स्त्रीवेदमार्गणायाम्, मतिज्ञानादिज्ञानमार्गणाचतुष्के "विरइ" त्ति संयममार्गणायाम्, तथा सामायिक परिहारविशुद्धिकछेदोपस्थापन संयममार्गणासु " श्रोहि "त्ति अवधिदर्शनमार्गणायाम् "तिसुहलेसासुं" ति तिसृषु तेज:पद्म-शुक्लाख्यासु शुभलेश्यासु तथा सम्यक्त्वौघ - क्षायिक - वेदकसम्यक्त्वमार्गणासु " भवेत्ति एतासु सप्तदशमार्गणासु प्रत्येकं प्रकृतस्याऽऽयुष उत्कृष्ट स्थितिबन्धस्य स्वामी भवेदित्यर्थः । क इत्याह" तदरिहसुद्धपमत्तो' त्ति तदर्हशुद्धः प्रमत्तः संयतः । साकारेत्यादि स्वयमेव योज्यम् । तदर्हशुद्धग्रहणमेतासु प्रत्येकमुत्कृष्टायुर्देवगतिसत्कमेव बध्यत इतिकृत्वेति । अथ सासादन- देशसंयममार्गयो. राह-- "सासणदेसे तदरिहसुद्धणरो" इति सुगमम् । श्रसंज्ञिमार्गणायामाह - " तप्पा उग किलिट्टो श्रमणे” इति, एतदपि सुगमम्, नवरमसंज्ञिनो यावत्स्थितिकं देवायुर्यध्नन्ति तदपेक्षया नरकायुरधिकस्थितिकं बध्नन्तीतिकृत्वा तत्प्रायोग्य क्लिष्ट इत्यभिहितम्, न पुनस्तत्प्रायोग्य विशुद्ध इत्यपीति । अथ शेषमार्गणास्वतिदिशति – “ ओघव्व सेसासु" मिति, अनन्तरोक्त निरयगत्याद्यसंज्ञिपर्यन्ताः पट्त्रिंशदस्यधिकशतमार्गणास्त्यक्त्वा शेषासु पञ्चेन्द्रियौघादिसप्तविंशतिमार्गणासु प्रत्येकमायुष उत्कृष्टस्थितिबन्धस्य स्वामिन वत्साकारादिविशेषणविशिष्टा उत्कृष्टाबाधायां वर्तमानास्तत्प्रायोग्यसंक्लिष्ट मिथ्यादृष्टितिर्यग्मनुष्यास्तत्प्रायोग्यविशुद्धाः प्रमत्तसंयाताश्च भवन्तीत्यर्थः । सुगमम् । शेषमार्गणास्तुनामत इमाः – पञ्चेन्द्रियौध-पर्याप्तपञ्चेन्द्रिय-त्रसकायौघ-पर्याप्तत्रसकाय - पञ्चमनोयोगभेद - पञ्चवचोयोगभेदकाययोगसामान्यौ-दारिककाययोग-पु' वेद-नपुंसकवेद-क्रोधादिकपायचतुष्क-चक्षुर्दर्शनाऽचतुर्दर्शन-भव्यसंज्ञा - SSहारिमार्गणा भेदा इति ।। ११३ | ११४ |
तदेवं दर्शिता अष्टानामपि मूलप्रकृतीनामुत्कृष्टस्थितिबन्धस्वामिन श्रोत आदेशतचोभयथाऽपि । साम्प्रतं तासामेव जघन्यस्थितिबन्धस्वामिनो दिदर्शयिषुरादौ तावदोघत आह—
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org