________________
१२४ ]
बंधविहाणे मूलपयडिठिबंधो
[ मार्गणास्थानेष्वायुषः
मार्गणात्रये इत्यर्थः । सुगमं चेदम्, अपर्याप्तमार्गणाप्रविष्टानां लब्ध्यपर्याप्ततया मनुष्य सत्कस्य तिर्यग्सत्कस्यैव वाऽऽयुषो बन्धभावात्, तयोरुत्कृष्टस्थितेर्विशुद्धि प्रत्ययत्वाच्चेति ॥ १०६ ॥ अथ मनुष्यगतिमार्गणाभेदेष्वाह
तप्पा उग्गविसुद्ध मणुसदुगे बंधगो पमत्तजई । तह खलु मिच्छादिट्ठी यो तज्जोग्गसंकिठो ॥ ११०॥
(प्रे०) " तप्पा उग्ग” इत्यादि, सुगमा, नवरं "मणुस दुगे "त्ति मनुष्यौध - पर्याप्तमनुष्यमार्गणोर्द्विके इत्यर्थः । भावना त्वायुष अघिकोत्कृष्टस्थितिबन्धस्वामिनो भावनानुसारेण द्रष्टव्येति ॥ ११० ॥ श्रथ क्रमप्राप्तशेषमनुष्यगति- देवगतिभेदेषु दिदर्शयिषुस्तत्साम्यादन्यासु मार्गणास्वपि सममेव दर्शयन्नाह -
तप्पा उग्गविसुद्ध समत्तर- पत्तरसुसु ।
आहार दुगे य सयलए गिंदिय - विगल-पंचकायेसु ॥ १११ ॥ (गीतिः)
(प्रे०) "तप्पा उग्गविसुद्धो" इत्यादि, अक्षरार्थस्तु सुगमः, नवरमाहारकद्विकेनाऽऽहारकाssertaमिश्रकाययोगौ गृह्येते, “सयल एगिदियविगल पंचकायेसु" इत्यत्र सकलशब्दः प्रत्येकं संबध्यते, ततश्च सकलैकेन्द्रियभेदानां, सकलविकलेन्द्रियभेदानां, सकलानां पृथिव्यादिपञ्चकायसत्कभेदानां च ग्रहणात्समस्तास्त्रिषष्टिर्मार्गणा गृहीता भवन्ति । भावना पुनरेतासु प्रत्येकमपर्याप्तपञ्चेन्द्रियतिर्यगाद्यपर्याप्तमार्गणात्रयवत्कर्तव्या । कुतः ? प्रस्तुतत्रिषष्टिमार्गणागतानामपि जीवानां तद्वन्नरकायुर्बन्धस्य प्रतिषेधात् । कुत एतासु प्रत्येकं नरकायुर्वन्धप्रतिषेधो ज्ञायते ? अनन्तरभवे नारकतयोत्पाद - प्रतिषेधात् । उक्तं च श्रीप्रज्ञापनावृत्तौ मलयगिरिपूज्यै:
“देवनारकपृथिव्यादिपञ्चकविकलेन्द्रियत्रिकारणां तथाऽसंख्येयवर्षायुश्चतुष्पदखचराणां शेषाणामपि चापर्याप्तकानां तिर्यक्पञ्चेन्द्रियाणां तथा मनुष्याणां संमुर्च्छिमानां गर्भव्युत्क्रान्तिका नामप्यकर्मभूमिजानाम् अन्तरद्वीपजानां कर्मभूमिजानामप्यसंख्येयवर्षायुषां संख्येयवर्षायुषामपि अपर्याप्तकानां प्रतिषेधः" इति । पाठे आहारकऽऽहारकमिश्रकाययोगमार्गणागतानां प्रतिषेधोऽनुक्तस्तत्तु तत्र तस्याप्रस्तुतत्वात्, तथाप्यसौ सुगम एव, आहारकाऽऽहारकमिश्र काययोगिनां संयततया देवायुष एव बन्धादिति ॥ १११ ॥ अथान्यत्राह -
अण्णातिगे यतेति सुहलेसा अभवियमिच्छेसु ।
तप्पाउग्गकिलिट्ठो रो व तिरियो व मिच्छत्ती ॥ ११२ ॥
(प्रे०) ' अण्णाणतिगे” इत्यादि, मत्यज्ञान - श्रुताज्ञान- विभङ्गज्ञान मार्गणात्रयरूपेऽज्ञानत्रिके Siयममार्गणायां तथा त्रिस्रोऽशुभाः प्रशस्ताः कृष्णादिलेश्यामार्गणा अभव्यामिथ्यात्वमार्गणे तासु च प्रत्येकं निरुक्त साकारादिविशेषणविशिष्ट उत्कृष्टाबाधायां वर्तमानस्तत्प्रायोग्य क्लिष्टो मिथ्यात्वी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org