________________
उत्कृष्टस्थितिबन्धस्वामिनः ]
द्वितीयाधिकारे स्वामित्वद्वारम्
[ १२३
(प्रे० ) " चरमणिरयुरलमीसे" इत्यादि, 'चरमे' सप्तम पृथिवीभेदरूपे निरयभेदे औदारिकमिश्रकाययोगे च प्रत्येकं नरकायुषोऽबन्धात्तदन्यायुषामुत्कृष्टस्थितेर्विशुद्धि प्रत्ययत्वाच्च " तदरिहसुद्धो " त्ति साकाराद्युक्तविशेषणविशिष्ट उत्कृष्टावाधायां वर्तमानस्तदहः- तत्प्रायोग्यः शुद्धः "मिच्छो” त्ति मिथ्यादृष्टिर्वन्धकः-स्वाम्यस्ति । अत्र मिथ्यादृष्टिरिति स्वामिविशेषणं स्वरूपदर्शकमेव बोद्धव्यम्, यतः सप्तमनिरये मिथ्यात्वगुणस्थानकगतानामेवायुर्वन्धो जायते, नान्येषाम् । यदुक्तं सप्तमनरकमार्गणाभेदे गुणस्थानेषु बन्धस्वामित्वं प्रतिपादयद्भिर्देवेन्द्रसूरिपादैः - "सत्तमिए नरदुगुच्च विणु मिच्छे, इगनबई सासाणे तिरिआउ नपुंसचउवज्ज" मित्यादि । श्रदारिकमिश्र काय योगमार्गणायां पुनर्मिश्रयोगावस्थायां लब्ध्यपर्याप्तजीवैरेवायुर्बन्धस्य करणात् तेषां नियमतो मिथ्यादृष्टित्वाच्चेति । " तिरियतिपणिदितिरिये” त्ति तिर्यग्गत्योघे त्रिष्वपर्याप्तभेदवर्जेषु पञ्चेन्द्रियतिर्यग्भेदेषु च प्रत्येकम् “मिच्छो तज्जोगसंकट्ठी 'त्ति साकारादिविशेषणयुक्त उत्कृष्टाबाधायां वर्तमानस्तत्प्रायोग्य संक्लिष्टो मिथ्यादृष्टियुष उत्कृष्टस्थितेर्बन्धक इत्यर्थः । अत्र संक्लिष्टमिथ्यादृष्टेग्रहणं प्रकृतमार्गणागतजीवैरुत्कृष्टस्थितिकमायुर्नरकसत्कं बध्यत इतिकृत्वा । नरकायुर्मिथ्यात्वे सत्येव वध्यते इति तु सुगमः । तस्य चोत्कृष्ट स्थितिरशुभा इतिकृत्वा संक्लेशेन बध्यत इति तु दर्शितमेवेति ।
9
ननु तिरश्चीमार्गणायां न त्रयस्त्रिंशत्सागरोपमप्रमाणोत्कृष्टस्थितिकनिरयायुषो बन्धः, किन्तु द्वाविंशतिसागरोपम स्थितिकायुप एव । उक्तं च स्थितिबन्धप्रमाणद्वारे - 'होइ दुबीसा जलही तिरिक्खजोणिमई' त्यनेन, इत्थं भवतु तिर्यगत्योघादिमार्गणात्रये उत्कृष्टस्थितिकनिरयायुषो बन्धभावेन तत्स्वामिनां संक्लिष्टत्वम्, कथं पुनस्तिरश्चीमार्गणायामपि ? इति चेद्, न, ओघवन्मार्गणास्थानेsaपि, यावत्तत्तज्जीवानामपि स्ववन्धप्रायोग्योत्कृष्टस्थितिकमप्यायुर्यदि निरयसत्कं तदा संक्लेशेनैव वध्यते, तिर्यम् - मनुष्य- देवायुषामन्यतमत्तु स्वप्रायोग्योत्कृष्टस्थितिकं सदपि विशुद्धचैव निर्वर्त्यते, न पुनरोघोत्कृष्ट स्थितिकायुरेव । अत एवानन्तरं निरयगत्यो घादि मार्गणास्थानेषूत्कृष्टतः पूर्वकोटिस्थितिकमनुष्य-तिर्यगायुर्वघ्नतामपि तद्बन्धो विशुद्धया दर्शितः, नीललेश्यादिमार्गणायामुत्कृष्टतो दशसागरोपमादिस्थितिकं निरयायुर्वघ्नतां तद्बन्धः 'ति सुइलेसा - अभधिय-मिच्छेसं । तप्पा उग्गकिलिट्ठो' इत्यादिना संक्लेशप्रत्ययोऽभिधास्यते चेति ॥ १०८ ॥
तप्पा उग्ग विसुद्ध सरणी वा बंधगो असरणी वा । असमत्तपणिदि तिरिय-पणिंदिय- तसेसु पायव्व ॥ १०६ ॥
(प्रे०) ' तप्पा उग्गे "त्यादि, साकारायुक्त विशेषणविशिष्ट उत्कृष्टावाधायां वर्तमानस्तत्प्रायोग्यविशुद्धः संज्ञी वाऽसंज्ञी वा "बंधगो" त्ति श्रायुप उत्कृष्टस्थितेर्वन्धकः, ज्ञातव्य इति परेणान्वयः । कासु मार्गणास्त्रित्याह — " असमत्तर्पाणदि" इत्यादि, तत्रापर्याप्तापरपर्यायस्यासमाप्तशब्दस्य त्रसान्तेषु प्रत्येकं योजनादपर्याप्तपञ्चेन्द्रियतिर्यग्भेदे, अपर्याप्तपञ्चेन्द्रियभेदे, अपर्याप्तत्रसकायभेदे चेत्येवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org