SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १२२] बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानेष्वायुषः सागाराइविसिट्ठो वट्ट माणो य गुरुप्रवाहाए । सवासु बंधगो खलु आउस्स ठिईअ जेट्टाए ॥१०॥ पज्जत्ताऽपज्जत्ता दुहा वि जीवाऽस्थि जत्थ तत्थ भवे । पज्जत्तो सव्वाहिं पज्जत्तीहिं त्ति वत्तव्यं ॥१०६॥ (प्रे०) “सागाराइविसिट्ठो' इत्यादिगाथाद्वयं गतार्थमिति ॥१०५।१०६॥ तदेवं सर्वमार्गणाविषयकसामान्यवक्तव्यतां लाघवार्थ पृथगभिधाय साम्प्रतं निरयगत्यादिमार्गणास्थानेषु क्रमश आयुष उत्कृष्टस्थितिबन्धस्वामिनो विशेषेण प्रदर्शयन्नाह णिरय-पढमाइछणिरय-सुर-गेविज्जंतदेव-विउवेसु। अाउस्स गुरुठिईए सम्मो मिच्छो व तयणुरुवसुद्धो ॥१०७॥ (गीतिः) (प्रे०) "णिरयपढमाइछणिरये" त्यादि, निरयगत्योध-धर्मादिपृथिवीभेदभिन्नप्रथमादिषड्निरयभेद-सुरोघ-भवनपत्यादिनवमग्रैवेयकान्तचतुर्विंशतिदेवभेद-वैक्रियकाययोगमार्गणास्वित्येतासु त्रयस्त्रिंशन्मार्गणासु प्रत्येकमायुषो 'गुरुस्थितेः'-उत्कृष्टस्थितिबन्धस्य “सम्मो मिच्छो व”ति उक्तसाकारादिविशेषणविशिष्टः परमासात्मिकायामुत्कृष्टाबाधायां वर्तमानः सम्यग्दृष्टिर्वा मिथ्यादृष्टिर्वेत्यर्थः । सोऽपि “तयणुरुवसुद्धो" ति तेषां प्रायोग्यपूर्वकोटीस्थितिकोत्कृष्टायु बन्धस्यानुरूपा या विशुद्धिस्तद्युक्त इत्यर्थः । अत्र विशुद्धग्रहणेन संक्लिष्टानां व्यवच्छेदः कृतः, यत एतासु मार्गणासु प्रत्येक देवा नारका वैव समाविष्टास्ते च स्वभावत एव मनुष्येषु तिर्यक्षुर्वोत्पद्यन्ते, न पुनर्नारकतया । उक्तं च श्रीप्रज्ञापनायां षष्ठपदे “नेरइया णं भंते ! अणंतरं उव्यट्टित्ता कहिं उववज्जंति, किं नेरइएसु उववज्जंति, तिरिक्खजोणिएसु उववज्जंति, किं मणुसेसु उववज्जंति, देवेसु उववज्जंति ? गोयमा ! नो नेरइएसु उववज्जंति, तिरिक्खजोणिएसु उववज्जति” इत्यादि । (सूत्रम् १३८) इत्थमेव देवानामपि नारकतयोत्पादप्रतिषेधः कृतः । ततः किम् ? तत एते देवनारका नारकायुर्न बध्नन्ति, उत्कृष्टस्थितिकमनुष्यतिर्यगायुपी वध्नतां तु तेषां विशुद्धिरेव भवति, नरकायुर्वर्जानां त्रयाणामायुषामुत्कृष्टस्थितेः विशुद्धिप्रत्ययत्वात् । उक्तं च शतकचूर्णी-- “तिएहंपि आउगाणं उक्कोसं जहन्नगं विवरीयं । कहं ? तब्बन्धकेसु जो जो सव्वविशुद्धो सो सो सब्बुक्कसियं ठिइं बंधइ, तेसु चेव जो जो सव्वसंकिलिट्ठो सो सो सव्वजहन्नियं सव्वासिं ठिइं बंधइ" इति । इत्थमेवोत्तरत्रापि विशुद्धग्रहणे नरकान्यायुर्वन्धकत्वादिति द्रष्टव्यमिति ॥१०७॥ अथान्यत्राह चरमणिरयुरलमीसे तदरिहसुद्धोऽस्थि बंधगो मिच्छो। तिरिय-तिपणिदितिरिये मिच्छो तज्जोगसंकिट्ठो ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy