________________
उत्कृष्टस्थितिबन्धस्वामिनः ] द्वितीयाधिकारे स्वामित्वद्वारम्
[ १२१ सुर इत्यर्थः । “सुइलाम' त्ति शुक्ललेश्यामार्गणायां सप्तानामुत्कृष्टस्थितिबन्धस्वामी नवमा-ऽऽनतकल्पोद्भवः सुरः । कथंभूत इत्याह-"मिच्छो वा" इत्यादि, सुगमम् , नवरं वाकारोऽनुक्तसमुच्चये, तदनुरूपसंक्लिष्टस्य ग्रहणं त्वानतादिकल्पोद्भवदेवानां शुक्ललेश्यत्वेनोत्कृष्टसंक्लेशानुत्पत्तेः । साकारादिविशेषणविशिष्टः सर्वपर्याप्तिभिः पर्याप्त इत्यादि तु प्राग्वत्स्वयमेव द्रष्टव्यमिति । ननु वाकारेण किमनुक्तं समुच्चीयते ? आनतकल्पवासिनामिव तदुपरितनविमानवासिनामपि मतान्तरेणोत्कृष्टस्थितिबन्धस्वामित्वसद्भावात्तेऽपि प्रकृतोत्कृष्टस्थितिबन्धस्वामितया समुच्चीयन्त इति ॥१०१।१०२॥
भणिता लेश्यामार्गणाभेदेषु प्रकृतस्वामिनः । भव्यमार्गणायामोघवदतिदिष्टाः, अभव्यमार्गणायां त्वज्ञानमार्गणया सममभिहिताः । साम्प्रतं सम्यक्त्वमार्गणाभेदेष्वभिधातव्याः । तत्रापि सम्यक्तौघक्षायोपशमिको-पशमिकसम्यक्त्वभेदेषु मतिज्ञानादिमार्गणावत् , मिथ्यात्वमार्गणायां त्वज्ञानमार्गणावच्च दर्शिता एवेति शेषभेदेषु तानाह
तप्पाउग्गकिलिट्ठो खइए णेयो चउगइट्ठो ॥१०॥ मीसे मिच्छाभिमुहो सासाणे वा तयणुरुवकिलिट्ठो।
(प्रे०) "तप्पाउग्गे" त्यादि, "खइए"त्ति क्षायिकसम्यक्त्वमार्गणायां साकारायुक्तविशेषणविशिष्टः 'चउगइट्ठो"ति प्राग्वत् नरक-तिर्य-मनुष्य-देवान्यतमगतिस्थः, नारकस्तिर्यग्मनुष्यो देवो वेत्यर्थः । कथम्भूत इत्याह-"तप्पाउग्नें"त्यादि, सुगममिति । मिश्र-सासादनमार्गणयोराह"मीसे" इत्यादि, मिश्रमार्गणायां मिथ्यात्वाभिमुखः । सासादनमार्गणायां "व"त्ति मिथ्यात्वाभिमुखो वा, एकमतेन मिथ्यात्वाभिमुखः सासादनी, अन्यमतेन तु स्वस्थानसासादनी प्रकृतसप्तकर्मसत्कोत्कृष्टस्थितिबन्ध स्वामी भवतीत्यर्थः । स च मार्गणाद्वयेऽपि मतद्वयेऽपि च "तयणुरुवसंकिट्ठो"त्ति तदनुरूपसंक्लिष्टो बोद्धव्य इति ॥१०३॥ संज्ञिमार्गणायां प्राग नरकगतिवद्दर्शिताः सप्तानामुत्कृष्टस्थितिबन्धस्वामिनः, अतोऽवशिष्टायामसंज्ञिमार्गणायामाह
अमणे पणिदियो खलु णेयो तज्जोग्गसंकिट्ठो ॥१०॥
(०) "प्रमणे" इत्यादि, अमनसोऽसंझिनः तत्सम्बन्धिमार्गणायाम् , असंज्ञिमार्गणायामित्यर्थः । तत्र तत्प्रायोग्यसंक्लिष्टः पञ्चेन्द्रियः प्रकृतसप्तकर्मणामुत्कृष्टस्थितिबन्धस्वामी ज्ञेयः, साकारो जाग्रदित्यादीनि विशेषणानि तु स्वयमेव भणितव्यानीति । आहारिमार्गणायां प्रागोघवदतिदिष्टाः, अनाहारिमार्गणायां तु कार्मणकाययोगमार्गणया समं कथिताः सप्तकर्मणामुत्कृष्टस्थितिबन्धस्वामिनः । इत्थं हि समाप्तं मार्गणास्थानेष्वप्याऽऽयुर्वर्जानां सप्तानामुत्कृष्टस्थितेर्बन्धस्वामित्वप्ररूपणम् ॥१०४॥
अथ शेषस्याऽऽयुष उत्कृष्ट स्थितिबन्धस्वामिनो मार्गणास्थानेषु दिदर्शयिषुः पूर्ववत्सर्वमार्गणाविषयां सामान्यवक्तव्यतां लाघवार्थमादावेवाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org