________________
१२० ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानेष्वायुर्वर्जानाम् (प्रे०) "मिच्छो" इत्यादि, नील-कापोतलेश्ययोः प्रत्येकं सप्तानामुत्कृष्टस्थितिबन्धस्य स्वामी "मिच्छो"त्ति मिथ्यादृष्टिः “अइसंकिट्ठो त्ति 'अतिसंक्लिष्ट:'-उत्कृष्टसंक्लिष्ट इत्यर्थः । “उक्कोससंकिलिट्ठो बुच्चइ सत्तएह बंधगो जत्थ। तत्थ खलु ईसिमज्झिमसंकिट्ठो अवि मुणेयव्यो” ॥८४॥ इति वचनादीषन्मध्यमसंक्लिष्टश्चाऽपि विज्ञेयः । एवम्भूतः क इत्याह—“थिरलेसो"त्ति स्थिरा-बहुकालावस्थायिनी, न पुनरन्तमुहूर्तमात्रावास्थायिनीत्यर्थः । एवम्भूता लेश्या प्रस्तुतत्वान्नीला कापोती वा विद्यते यस्य स स्थिरलेश्यः । स च "लेसाण ठिई उ देवाणं ॥४७॥ दस वाससहस्साई किण्हाए ठिई जहरिणा होइ, पलिअमसंखिज्जइमो उक्कोसा होइ किण्हाए ॥४८॥ जा किरहाइ ठिई खलु, उक्कोसा सा उ समयमब्भहिया । जहन्नेणं णीलाए, पलिअमसंखेज्ज उक्कोसा ॥४६॥ इत्याद्यागमान्नारकाणामिव भवनपत्यादिदेवानामप्यशुभलेश्याया दीपस्थितिकत्वेन स्थिरलेश्यत्वात् नीललेश्यामार्गणायां तृतीयचतुर्थपञ्चमपृथिवीनरयिक-भवनपति-व्यन्तरदेवानामन्यतमो भवति, कापोतलेश्यामार्गणायां तु प्रथम-द्वितीयतृतीयपृथिवीनरयिक भवनपति-व्यन्तरदेवानामन्यतमो लभ्यते, न तूक्तान्यो देवो नारकस्तिर्यग्मनुष्यो वा प्रस्तुतमार्गणाद्वये उत्कृष्टस्थितिबन्धस्वामी, उक्तान्यदेवनारकाणां नील-कापोतवर्जान्यतमलेश्याकत्वेन प्रस्तुतमार्गणाद्वय एवाऽप्रवेशात् , तिर्यग्मनुष्याणां प्रस्तुतमार्गणाप्रविष्टत्वेऽपि तदीयलेश्यानामन्तर्मुहूर्तस्थितिकत्वेना-ऽनवस्थितत्वात् । उक्तंच-“अन्तमुहुत्तठिईओ तिरियनराण हुन्ति लेसाओ"इति । नन यद्येवमेव तदा “देवो वा नारको वा” इत्येतावदपि पर्याप्तं स्यात् , तत्कस्मात् “थिरलेसो' इत्यमिहितम् ? इति चेद्, उच्यते, महाबन्धकारमतसंग्रहार्थम् । इदमुक्तं भवति-प्रस्तुतमार्गणाद्वये बन्धप्रायोग्यः त्रिंशत्सागरोपमकोटिकोटयायुक्तप्रमाण ज्ञानावरणादीनामुत्कृष्टस्थितिवन्धो येषां जायते तेषां पर्याप्तावस्थायामेवासौ भवति, किञ्च महाबन्धकारा नारकवर्जसर्वछमस्थजीवानां कृष्णाद्यन्यतमाशुभलेश्यामान्तमुहर्तिकी मन्यन्ते, तत्र देवानां तु साऽपर्याप्तावस्थायामेव भवति, न तु पर्याप्तावस्थायाम् , पर्याप्तावस्थायां तेषां शुभलेश्याया एव प्रवर्तनात् , इत्थं हि तेषां मतेन भवनपत्यादिदेवानां जायमानोऽपि यथोक्त प्रमाण उत्कृष्टस्थितिबन्धः शुभलेश्यायामेव लभ्यते, न पुनः प्रस्तुतमार्गणादये कृष्णलेश्यामार्गणायां वा । ततश्च नैते भवनपत्यादिदेवाः प्रस्तुतमार्गणाद्वये उत्कृष्टस्थितबन्धस्वामिनः, किन्तु यथोक्तनारका एव । “थिरलेसो" इत्यनेन तेषां मते प्रस्तुतमार्गणाद्वये देवा ग्रहीतुन युज्यन्ते, तेषां कृष्णाद्यशुभलेश्याया अन्तर्मुहूर्तस्थितिकत्वेनाऽस्थिरत्वात् । इत्येवं महाबन्धकारमतेन प्रस्तुतमार्गणाद्वये देवानामुत्कृष्टस्थितिबन्धस्वामित्वाभावात् तन्मतसंग्रहार्थम् ‘देवो वा नारको वा' इत्यनभिधाय “थिरलेसो" इत्यभिहितमित्यलं पल्लवितेन । “तेऊअत्ति तेजोलेश्यामार्गणायां सप्तकर्मोत्कृष्टस्थितिबन्धस्वामी सर्वसंक्लिष्टः, उक्तवचनादीपन्मध्यमसंक्लिष्टो वा भवनपत्यादीशानकल्पान्तोद्भवो मिथ्यादृष्टिः सुरो भवति । "पउमा तहेव' ति पद्मलेश्यामार्गणायां तथैव'-तेजोलेश्यावदेव, 'नवरं'-परम् “तइआइगअट्ठमंतसुरो" ति सर्वसंक्लिष्ट ईपन्मध्यमसंक्लिष्टो वा तृतीयसनत्कुमारकल्पाद्यष्टमसहस्रारकल्पान्तोद्भवो मिथ्यादृष्टिः 'सुरः'-देवः सप्तानामुत्कृष्टस्थितिबन्धस्वामी भवति, न पुनस्तेजोलेश्यामार्गणावदीशानकल्पान्तोद्भवः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org