SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ उत्कृष्टस्थितिबन्धस्वामिनः ] द्वितीयाधिकारे स्वामित्वद्वारम् [ ११६ बंधे"त्ति प्राग्वत्तदनुरूपक्लिष्टः संयमावस्थाया अन्तिमस्थितिबन्धे वर्तमान इत्यर्थः। अथ संयममार्गणाभेदेष्वाह- "संयमे"त्यादिना, संयमौघ-सामायिक-छेदोपस्थापनसंयमरूपमार्गणात्रये तु प्रकृतस्थितिबन्धस्वामी “मिच्छत्तहत्तो सो" ति सोऽनन्तरोक्तः संयतावस्थायाश्चरमरिस्थतिबन्धे वर्तमानस्तदनुरूपसंक्लिष्टः प्रमत्तयतिरेव, नवरं मिथ्यात्वाभिमुखः, न पुनः प्राग्वदयताभिमुख इत्यर्थः । अत्र प्रत्येकं मार्गणासु साकारेत्यादिविशेषणानि प्राग्वत्स्वयमेव द्रष्टव्यानि । एवमुत्तरत्रापीति ॥६६॥ परिहारम्मि पमत्तो छेत्राहिमुहो तदरिहसंकिट्ठो। देसे मिच्छाहिमुहो दुगइट्ठो तयणुरुवकिट्ठो ॥१०॥ (प्रे०) “परिहारम्मि पमत्तो' इत्यादि, परिहारसंयममार्गणायां छेदोपस्थापनसंयमाऽभिमुखस्तदहसंक्लिष्टः, तत्प्रायोग्यसंक्लिष्ट इत्यर्थः । एवम्भूतः “पमत्तो"त्ति प्रमत्तो मुनिः, सप्तानामुत्कृष्टस्थितिबन्धस्वामीति गम्यत इति । अथ देशसंयममार्गणायामाह-' देसे मिच्छाहिमहो" इत्यादि, देशसंयममार्गणायां साकारायुक्त विशेषणविशिष्टो मिथ्यात्वाभिमुखस्तदनुरूपक्लिष्टो मनुष्यस्तिर्यग्वा सप्तकर्मणामुत्कृष्टस्थितिवन्धस्य स्वामी भवतीत्यर्थः । अत्र देशसंयमावस्थायाश्चरमस्थितिबन्धे वर्तमान इति विशेषणमनुक्तमप्युपलक्षणाद् बोद्धव्यम्, देशसंयतेषु तस्यैव संक्लिष्टतमत्वात् । इत्येवं परिहारविशुद्धिकमार्गणायामपि विज्ञेयमिति ॥१०॥ अथ सूक्ष्मसम्परायसंयममार्गणायां प्रस्तुतस्वामिनो दर्शयितुमाह सुहुमेऽणंतरबंधे अणियट्टि यो हि पाविहिइ सोऽत्थि । (प्रे०) "सुहमे" इत्यादि, सूक्ष्मसम्परायसंयममार्गणायाम् ‘णतरबंधे' त्ति लुप्ताकारस्य दर्शनादनन्तरबन्धे-अनन्तरस्थितिवन्धे, यस्य स्थितिबन्धस्यानन्तरोत्तरस्थितिवन्ध इति भावः । "अणियट्रि'ति 'अनिवृत्तिम्'-बादरानिवृत्त्याख्यं गुणस्थानकम् “यो हि पाविहिइ सो"त्ति यः प्राप्स्यति हि स अनिवृत्ति बादरगुणस्थानकाप्तेरास्थितिबन्धे वर्तमानः प्रपतन सूक्ष्मसम्परायोपशमकः "ऽत्थि" त्ति तत्र वध्यमानानां मोहनीयायुर्वर्जानां पण्णां कर्मणामुत्कृष्टस्थितिबन्धस्य स्वाम्यस्तीत्यर्थः ।। गतं संयममार्गणाभेदेषु प्रस्तुतस्वामित्वम् । चक्षुरचक्षुर्दर्शनमार्गणाभेदद्वये प्रागोघवत्तथाऽवधिदर्शनमार्गणायां मतिज्ञानादिना समं दर्शितमतः क्रमप्राप्तेषु लेश्यामार्गणाभेदेषु दिदर्शयिषुः कृष्णलेश्यामार्गणायां वेदमार्गणया समं दर्शितत्वाच्छेपलेश्यामार्गणाभेदेषु क्रमेण दर्शयति मिच्छो अइसंकिट्ठो थिरलेसो पील-काऊसु ॥१०१॥ तेऊन सुरो मिच्छो ईसाणंतोऽथि सव्वसंकिट्ठो । पउमात्र तहेव णवरि तइअाइगअट्ठमंतसुरो ॥१०२॥ सुइला प्राणतसुरो मिच्छो वा तयणुरूवसंकिट्ठो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy