________________
११८ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानेष्वायुर्वर्जानाम् गतं वेदमार्गणाभेदेषु प्रस्तुतस्वामित्वम् । कपायमार्गणाभेदेषु तु प्रागोघवदतिदिष्टमतः साम्प्रतं ज्ञानमार्गणाभेदेषु दिदर्शयिषुः समानवक्तव्योपेता अन्या अपि मार्गणाः सममेव संगृह्याह
अण्णाणतिगे अभविय-मिच्छत्तेसुय बंधगो सरणी । उक्कोससंकिलिट्ठो मिच्छो णेयो चउगइट्ठो ॥१७॥
(प्रे०) 'अण्णाणतिगे' इत्यादि, मत्यज्ञान-श्रुताज्ञान-विमङ्गज्ञानमार्गणात्रयरूपेऽज्ञानत्रिकेऽभव्य-मिथ्यात्वमार्गणयोश्चेत्येतासु पञ्चसु प्रत्येकं “बंधगो" ति सप्तप्रकृतिसत्कोत्कृष्टस्थितिबन्धस्वामी साकारादिविशेषणविशिष्टः 'उक्कोससंकिलिट्ठो” त्ति सर्वोत्कृष्टसंक्लिष्टः, प्रागुक्तन्यायादीपन्मध्यमसंक्लिष्टो वा 'चउगइट्ठो'' त्ति निरयादिचतुर्गत्यन्यतमगतिस्थः, नारक-तिर्यग्-मनुष्य-देवान्यतमः संज्ञी मिथ्यादृष्टिीव इति । अत्राज्ञानमार्गणात्रये मिथ्यादृष्टिरिति विशेषणं तत्रगतानामुत्कृष्टस्थितेरबन्धकानां सास्वादनिनां व्यवच्छेदार्थं योज्यम् , शेषमार्गणाद्वये तु स्वरूपदर्शनमात्रपरं बोद्धव्यमिति । इत्थमेवोत्तोरत्रापि यथासम्भवं योजना कर्तव्येति ॥१७॥
णाणतिगे श्रोहिम्मि य सम्मु-बसम-वेअगेसु चउगइयो ।
तप्पाउग्गकिलिट्ठो सम्मो मिच्छहिमुहो अंते ॥८॥ (प्रे०) “णाणतिगे" इत्यादि, मनःपर्यवज्ञानमार्गणायामनन्तरं वक्ष्यमाणतया तद्वर्जशेषमत्यादिज्ञानत्रिकेऽवधिदर्शने सम्यक्त्वौघ-वेदकौ-पशमिकसम्यक्त्वमार्गणाभेदेष्वित्येतासु सप्तमार्गणासु प्रत्येकं साकारादिविशेषणयुक्तः "चउगइयो' ति पूर्ववञ्चतुर्गतिकः,-नैरयिकाद्यन्यतमजीव इत्यर्थः । एवम्भूतो हि तत्प्रायोग्यः क्लिष्टः-संक्लिष्टो मिथ्यात्वाभिमुखः “सम्मो' त्ति अविरतसम्यग्दृष्टिः, "अंते" ति चरमे चरमस्थितिवन्धे, यस्य स्थितिबन्धस्यानन्तरसमये मिथ्यादृष्टिर्भविष्यति तस्मिन् सम्यक्त्वावस्थायाश्चरमस्थितिबन्धे, वर्तमान इति शेषः । सप्तानामुत्कृष्टस्थितिबन्धस्वामीति प्रक्रमाद्गम्यत इति ॥१८॥ अवशिष्ट ज्ञानभेदे क्रमप्राप्तसंयममार्गणाभेदेषु चाह
मणणाणम्मि पमत्तो अयताभिमुहो य तयणुरुवकिट्ठो । अंतिमबंधे संयम-समइअ-छेएसु मिच्छहुत्तो सो ॥६६॥ (गीतिः)
(प्रे०) "मणणाणम्मि" इत्यादि, मनःपर्यवज्ञानमार्गणायां सप्तकर्मसत्कोत्कृष्टस्थितिबन्ध स्वामी "पमत्तो" त्ति प्रमत्त मुनिरित्यर्थः । कथम्भूतः स इत्याह-"अयताभिमुहो ये" त्यादि, यमनम्-यतम् , न यतम् अयतम् , असंयम इत्यर्थः तस्याभिमुखः । चशब्दोऽवधारणे, ततोऽयताभिमुख एव, न पुनर्मिथ्यात्वाभिमुख इत्यर्थः । इदमुक्तं भवति-मनःपर्यवज्ञानिनः संयता संयमात्सम्यक्त्वाच्च युगपद्धृष्ट्वा मिथ्यात्वं नैव व्रजन्ति, किन्तु प्रथमतः संयम परिहत्यान्तर्मुहूर्तं विश्रम्य ततो मिथ्यात्वमधिगच्छन्ति । इत्थं हि तेषां मिथ्यात्वाभिमुखतैव न घटत इतिकृत्वा मिथ्यात्वाभिमुख इति विशेषणं विहायाऽयताभिमुख इति विशेषणमुपात्तमिति । पुनः किंविशिष्ट इत्याह-"तयणुरुवकिट्ठो अंतिम
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org