SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ उत्कृष्टस्थितिबन्धस्वामिनः ] द्वितीयाधिकारे स्वामित्वद्वारम् [ ११७ (प्रे०) “गयवेए स भवे" इत्यादि, गतवेदमार्गणायामायुर्वर्जानां सप्तकर्मणामुत्कृष्टस्थितिबन्धस्वामी स भवेत् । कोऽसावित्याह-“यो अपुरिसवेएणुवट्टिो' इत्यादि, पर्युदासाश्रयणात् पुरुषवेदभिन्नवेदेन स्त्रीवेदेन नपुंसकवेदेन वा य 'उपस्थितः'-समारूढः, उपशमश्रेणिमिति गम्यते । कुतः ? वक्ष्यमाणस्य प्रतिनिपतन्निति विशेषणस्योपशमश्रेणिं समारूढस्यैवोपपत्तेः । ततः किमित्याह“य तो" इत्यादि, चशब्दो व्युत्क्रमेण 'तो' इत्यस्योत्तरं योज्यस्ततश्चोपशान्ताद्धाक्षयात्प्रतिनिपतन् “णंतरसमयम्मि हवेहिइ सवेनो' ति यस्मात्स्थितिबन्धादनन्तरसमये 'सवेदः'-वेदोदयवान भविष्यतीत्यर्थः । नपुसकवेदोदयेन स्त्रीवेदोदयेन वोपशमश्रेणिमारुह्योपशान्ताद्धाक्षयात् क्रमेण पतन् वेदोदयात्प्रागनन्तरभाविनि स्थितिवन्धे वर्तमानो महात्माऽपगतवेदमार्गणायां सप्तानां मूलप्रकृतीनामुत्कृष्टस्थितिबन्धस्वामी भवतीति भावः । ननु 'कस्मात् पुवेदेन श्रेणिं समारुह्य प्रतिपतन्तो वय॑न्ते, तदन्यवेदेन समारुह्य प्रतिपतन्तस्तु गृह्यन्ते ?' इदि चेद्, उच्यते-उपशमश्रेणिमारोहतां यत्र यत्र स्थाने यस्य यस्य वेद-क्रोधादेर्येन क्रमेणोदयविच्छेदो जायते, उपशान्ताद्धाक्षयेण प्रतिपततामपि तेषामानुलोम्येन तत्तत्स्थानप्राप्तौ तस्य तस्य वेदकषायादेख्दयः प्रवर्तते । उक्तं च सप्ततिकाचूणौं "अद्घाखो उवसंतद्धाए पुण्णाए परिवडति सो जहा आरुढो तहा परिवडति, जहिं उदओदीरणबंधादो ठिया तहिं तहिं परिवडतस्स ते श्राढविज्जंति, एवं जाव पमत्तसंजो ताव परिवडति'' इति ।। किञ्च श्रेणिमारोहतां विशुद्धयमानतया यथोत्तरस्थितिबन्धा हीनहीनतराः प्रवर्तन्ते, प्रतिपततां तु तेषां संक्लिश्यमानतया यथोत्तरस्थितिबन्धा अधिकाधिकतराः प्रवर्तन्त इति तु सुगमम् । प्रकृते च ये उत्कृष्टस्थितिबन्धस्वामिनो द्रष्टव्याः, ते च श्रेणिमारुह्योपशान्ताद्धाक्षयानन्तरं बहुन् स्थितिबन्धानतिक्रम्यावेद्यवस्थायां चरमस्थितिबन्धं ये कुर्वन्ति, ते प्राप्यन्ते । एवम्भूता हि स्त्रीवेदेन नपुंसकवेदेन वा श्रेणिं समारुह्य प्रतिपतन्त उपशमका भवन्ति, न पुनः पुवेदेन समारुह्य प्रतिपतन्तोऽपि । कुतः ? स्त्रीवेदेन नपुंसकवेदेन वा श्रेणिं समारूढा यस्मिन् स्थानेऽवेदिनो भवन्ति तत्स्थानात संख्येयसहस्रषु स्थितिबन्धेष्वतिक्रान्तेषु पश्चात्पु वेदेन श्रेणिं समारूढा अवेदिनो जायन्ते, न त्वर्वाक् । तथा च सति प्रतिपातकालेऽप्यानुलोम्येन पुवेदेनोपस्थितानां यत्र पुवेद उदेति तत्स्थानात्संख्येयसहस्रेषु स्थितिबन्धेष्वतिक्रान्तेषु सत्सु पश्चात् पुवेदान्यवेदेनारुह्य प्रतिपततां स्वस्ववेदोदयो जायते, प्रतिपततां संक्लिश्यमानतयोत्तरोत्तरस्थितिबन्धा अधिकाधिकतरास्तु सर्वेषामेव प्रवर्तन्ते । ततः पुवेदेन श्रेणिं समारुह्य पततां पुवेदोदयादागवेद्यवस्थायां यावान् स्थितिबन्धो जायते, तदपेक्षया संख्येयस्थितिबन्धानन्तरं स्त्रीवेदेन नपुंसकवेदेन वोपस्थाय प्रतिपततां स्वस्ववेदोदयादागवेद्यवस्थायाश्चरमस्थितिवन्धोऽत्यधिको जायते । इत्थं हि न पुवेदेनोपस्थाय प्रतिपततामवेद्यवस्थायां प्रकृतोत्कृष्टस्थितिबन्धस्वामित्वम्, किन्तु तदन्यवेदेनोपस्थाय प्रतिपततामितिकृत्वाऽपगतवेदमार्गणायां पुवेदेनोपस्थाय प्रतिपतन्तो वर्जिताः, तदन्यवेदेन श्रेणिं समारुह्य प्रतिपतन्तस्तूत्कृष्टस्थितिवन्धस्वामितया गृहीता इत्यलं विस्तरेण । विशेषार्थिना तु कर्मप्रकृतिकषायप्राभृतादिग्रन्था अवलोकनीया इति ॥६६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy