________________
११६ ]
__ बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानेष्वायुर्वर्जानाम् शरीरपर्याप्त्या पर्याप्तानां तेषां शुद्धौदारिकयोगप्रवर्तनात् । यत आ शरीरनिष्पत्तेर्मिश्रकाययोगो भवति, न परतः । तथा चोक्तम्_ "तेएण कम्मएणं, आहारेई अणंतरं जीवो। तेण परं मिस्सेणं, जाव सरीरस्स निप्फत्ती” ॥ इति । यथौदारिकमिश्रकाययोगमार्गणायां तथा वैक्रियमिश्रकाययोगमार्गणादावपि ज्ञेयम् । इत्थं चानन्तरोक्ताभिप्रायेण मिश्रयोगगताः केचन जीवा अपर्याप्तावस्थाया मध्ये वर्तमानाः सन्तस्तत्प्रायोग्योत्कृष्टसंक्लेशमवाप्य तदानीमपि सप्तानामुत्कृष्टस्थितिबन्धं कुर्वन्ति । “से काले" इत्यादिना भण्यमानाभिप्रायेण तु शरीरपर्याप्त्या निष्पत्तेराग मिश्रयोगस्य चरमसमय एवोत्कृष्टस्थितिबन्धप्रायोग्यसंक्लेशसम्भवः, न पुनस्ततः पूर्वमपि । अत उत्कृष्टस्थितिबन्धोऽपि मिश्रयोगद्विचरमादिसमयेषु न भवति, किन्तु चरमसमय एव भवतीति ॥६३॥ अथ शेषे कार्मणकाययोगभेदे दिदर्शयिषुस्तत्साम्यादनाहारकमार्गणायामपि सममाह
कम्मा-ऽणाहारसुसरणी खलु बंधगो चउगइटो ।
तप्पाउग्गकिलिट्ठो णायव्यो मिच्छदिट्ठीयो ॥६४॥ (प्रे०) “कम्माणाहारेसु"मित्यादि, कार्मणकाययोगमार्गणाऽनाहारकमार्गणयोः प्रत्येकम् "खलु बंधगो" ति सप्तप्रकृतिसत्कोत्कृष्टस्थितेर्बन्धकः खलु ज्ञातव्य इति परेणान्वयः । क इत्याह"सण्णी" इत्यादि, साकारायुक्तविशेषणविशिष्टस्तत्प्रायोग्योत्कृष्टसंक्लिष्टो नरकगत्यायन्यतमगतिस्थः संज्ञी मिथ्यादृष्टिर्जीवः। स च संज्ञिभ्यश्व्युत्वा संज्ञितयोत्पद्यमानो ज्ञेयः, असंज्ञिभ्य आगतस्य प्रकृतमार्गणाद्वये वर्तमानजीवस्य तत्प्रायोग्योत्कृष्टसंक्लेशासम्भवादिति ॥१४॥ गता योगमार्गणाभेदाः । साम्प्रतं वेदमार्गणाभेदेषु प्रकृतस्वामिनो दिदर्शयिषुस्तत्साम्यात्कृष्णलेश्यायामपि सममेव दर्शयन्नाह
इत्थी-पुरिसेसु तहा णपुंस-किण्हासु बंधगो सरणी।
उक्कोससंकिलिट्ठो मिच्छादिट्ठी मुणेयव्वो ॥६५॥ (प्रे०) 'इत्थीपुरिसेसु” इत्यादि, स्त्रीवेद-पुरुषवेदमार्गणयोस्तथा नपुसकवेद-कृष्णलेश्यामार्गणयोरिति प्रत्येकं द्विके 'बंधगो'त्ति सप्तप्रकृतीनामुत्कृष्टस्थितेर्बन्धकः-स्वामी भवति । क इत्याह"सण्णी" इत्यादि, निरुक्तसाकारादिविशेषणयुक्त उत्कृष्टसंक्लिष्टः, तथा “ईसिमज्झिमसंकिट्ठो अवि मुणेयव्यो” (गाथा-८४) इति प्रागुक्तवचनादीपन्मध्यमसंक्लिष्टश्च संज्ञी मिथ्यादृष्टिजीवो ज्ञातव्य इति । सुगमम् ॥६५॥ अथापगतवेदमार्गणायां प्रकृतस्वामिन आह
गयवेए स भवे यो अपुरिसवेएणुवट्ठिो य तो। परिणिवडंतोऽणंतरसमयम्मि हवेहिइ सवेश्रो ॥६॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org