________________
उत्कृष्टस्थितिबन्धस्वामिनः ]
द्वितीयाधिकारे स्वामित्वद्वारम्
[ ११५
रूपोत्कृष्टसंक्रिट इत्यर्थः । सुगमं चैतत् अपर्याप्तावस्थाभाविन्यदारिकमिश्र काययोगे सर्वसंक्लेशानुत्प
1
तेरिति ॥६९॥
उक्कोससंकि लिट्टो मिच्छो रियोऽमंतदेवो वा । वेउव्वदुगे वरं मीसे तज्जोगसंकिडो ॥ ६२ ॥
(०) “उक्कोस संकि लिट्ठो मिच्छो" इत्यादि, "वेउव्वदुगे" त्ति 'वैक्रियद्विके' वैक्रियवैक्रियमिश्रकाययोगमार्गणा द्रयरूपे साकारायुक्त विशेषणविशिष्ट उत्कृष्टसंक्लिष्टो मिथ्यादृष्टिर्निरयोSष्टमसहस्रारकल्पान्तभवो देवो वेत्यर्थः । सप्तकर्म सत्कोत्कृष्ट स्थितिबन्धस्वामीति गम्यते । अत्राष्टम कल्पान्तदेवग्रहणमानतादिकल्पनिवासिशुक्ललेश्याकदेवानां व्यवच्छेदार्थमिति । अपर्याप्तावस्थायां कस्याप्योघोत्कृष्टस्थितिबन्धो न भवतीति कृत्वा वैक्रियमिश्र काययोगमार्गणायामनुपपद्यमानं स्वामिविशेषणमपोदितुमाह - "णवरं मीसे" इत्यादि, नवरं "मीसे" त्ति वैक्रियमिश्रकाययोग मार्गणाभेदे " तज्जोगसंकिट्टो "त्ति तत्प्रायोग्यसंक्लिष्टोऽन्यतमो मिथ्याष्टिर्निरयो देवो वा उत्कृष्टस्थितिबन्धस्वामी भवति, न पुनरुत्कृष्टसंक्लिष्टः, अपर्याप्तानामुत्कृष्टसंक्लेशस्यासम्भवादिति भावः ॥ ६२॥ तप्पा उग्गकिलि श्राहारदुगे भवे पमत्त जई ।
से काले पज्जत्तिं निट्ठवउ स व मुण मीसजोगेसु ं ॥ ६३॥ (गीतिः)
(प्रे० ) ' तप्पा उग्गे "त्यादि, आहारका ऽऽहारक मिश्रकाययोगद्वयरूपे श्राहारकद्विके निरुक्तसाकारादिविशेषणविशिष्टस्तत्प्रायोग्य क्लिष्टः 'प्रमत्तयतिः' - प्रमत्तसंयतो भवेत्, सप्तकर्म सत्कोत्कृष्टस्थितिबन्वस्वामीति गम्यत इति । ननु मिथ्यात्वाभिमुखः प्रमत्तयतिरिति कथं नोच्यते, ग्रमत्तसंयतेसु तस्यैवाविकतमसंक्लिष्टत्वेनाधिकतमस्थितेर्वन्धकत्वात् ? इति चेद्, न, चतुर्दशपूर्वराणां श्रुतकेवलिनामेत्र प्रकृताऽऽहारका दियोगद्वयसम्भवात् । उक्तं च द्रव्यलोके -
"आकाशस्फटिकस्वच्छं, श्रुतकेवलिना कृतम् । अनुत्तरामरेभ्योऽपि कान्तमाहारकं भवेत् " ॥ इति । तदानीं च तावत्तत्वे तेषां मिथ्यात्वाभिमुखत्वासम्भव एव इति । श्रदारिकमिश्रकाययोगादिमिश्रयोगत्रये मतान्तरेणान्यथैव प्रकृतस्वामित्वमाह - " से काले" इत्यादि, "मीसजोगेसु" ति अनन्तरोक्तौ-दारिकमिश्र - वै क्रियमिश्रा ऽऽहारकमिश्रकाययोगलक्षणेषु त्रिषु मिश्रयोगमार्गणाभेदेषु "सेकाले पज्जति निट्ठवउ स व मुण" ति तत्र शब्दो देश्यः, स चानन्तर्ये, ततोऽनन्तरकाले - यस्य समयस्यानन्तरोत्तरसमये 'पर्याप्ति' - शरीरपर्याप्ति 'निष्ठापयेत्' - समापयेत् स मिश्रयोगचरमसमये वर्तमानो वा 'जानिहि, ' - सप्तानामुत्कृष्टस्थितिबन्धस्वामीति मतान्तरेण त्वमवगच्छेत्यर्थः । इदमुक्तं भवति - औदारिकमिश्रयोगमार्गणायां करणापर्याप्ताः संज्ञिपञ्चेन्द्रियजीवा एवोत्कृस्थितेबन्धका भवन्ति, न तु लब्ध्यपर्याप्ताः, श्रदारिक मिश्र काययोगगतानामपि तेषां तथाविधसंक्लेशानुत्पत्तेः । करणापर्याप्तास्तु शरीरपर्याप्तेः समाप्तौं सत्यां प्रकृतमार्गणाया बहिर्भवन्ति । कुतः १
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only