________________
११४ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानेष्वायुर्वर्जानाम ज्ञानमपि भवति, अतस्तद्वयवच्छेदार्थमाह-'श्रुतानुसारेणेति' । कुत्रचित्त्वतिप्रसङ्गाद्यभावे स्वरूपप्रदर्शनपरतया तदुपन्यस्यते, यथा—'निययत्थुत्तिसमत्थं तं भावसुयं मई सेसं' (वि०या०भा० गाथा—१००) इत्यत्र 'निजकार्थोक्तिसमर्थमिति भावश्रुतविशेषणम् । उक्तं च तट्टीकायाम्-‘स्वरूपविशेषणं चैतत् , शब्दानुसारेणोत्पन्नज्ञानस्य निजकार्थोक्तिसामर्थ्याऽव्यभिचाराद्” इति । प्रस्तुते च 'बायरो ति वत्तव्य'मित्यभिदधता ग्रन्थकृता 'बादर' इति विशेषणमेकेन्द्रियौघादिमार्गणासु यथोक्तोत्कृष्टस्थितिबन्धप्रायोग्यसंक्लेशो मार्गणाप्रविष्टसूक्ष्मजीवानां न प्राप्यते, ततश्च ते प्रस्तुतमार्गणायां बन्धप्रायोग्योत्कृष्टस्थितिबन्धस्वामिनोऽपि नैव भवन्ति, अतस्तेषां व्यवछेदार्थमुपन्यस्तम् , तथैव च व्याख्यातम् । यदि चैकेन्द्रियौघादिमार्गणावद् बादरैकेन्द्रियौधादिमार्गणासु तद्वक्तव्यतया मूलकृताऽभिहितं स्यात् , तदा तत्र बादरैकेन्द्रियौघादिमार्गणास्थानेषु सूक्ष्मजीवानामप्रवेशेनाऽतिप्रसङ्गाभावात् स्वरूपविशेषणतयैव व्याख्येयं स्यात् । इत्थमेव प्रागुक्ते ‘पज्जत्ताऽपज्जत्ता दुहा वि जीवाऽत्थि' इत्यादावपि 'सर्वपर्याप्तिभिः पर्याप्त, इत्यादि विशेषणोपादानाभिसन्धिरवगन्तव्यः। एवं यत्र कुत्रचिदतिप्रसङ्गाभावेऽपि विशेषणं दृश्येत तत्र तु तत्स्वरूपविशेषणतयैव द्रष्टव्यमित्यलं विस्तरेण ॥८८।८६॥ शेषदेवगतिभेदेषु प्राह
तेरहसु आणताइग-गेविज्जऽवसाणदेवभेएसु ।
तप्पाउग्गकिलिट्ठो णायव्यो मिच्छदिट्ठीयो ॥१०॥ (प्रे०) "तेरहसु आणताइग' इत्यादि, त्रयोदशबानतकल्पादिकेषु सर्वोपरितनोवेयकावसानेषु देवगतिसत्कमार्गणाभेदेषु प्रत्येकं सप्तप्रकृतिसत्कोत्कृष्टस्थितेवन्धकः “तप्पाउग्गकिलिट्रो' त्ति साकारादि विशेषणविशिष्टः सर्वपर्याप्तिभिः पर्याप्तस्तत्प्रायोग्यसंक्लिष्टो मिथ्यादृष्टिातव्यः । अानतादिदेवानां शुक्ललेश्यत्वेन सर्वदेव सर्वोत्कृष्टसंक्लेशाभाव इत्यर्थः ॥ इति ॥१०॥ गता गतीन्द्रियकायभेदाः । साम्प्रतमवशेषेषु योगमार्गणाभेदेषूत्कृष्टस्थितिबन्धस्वामिनः प्रतिपादयन्नाह
उरले मिच्छो सरणी दुगइट्ठो होइ सब्बसंकिट्ठो ।
एमेव उरलमीसे गवरं तयणुरुवसंकिट्टो ॥११॥ _(प्रे०) "उरले मिच्छो" इत्यादि, “उरले' त्ति औदारिककाययोगमार्गणायां साकारादिविशेषणविशिष्टः सर्वसंक्लिष्टः "दुगइट्ठो"त्ति द्विगतिस्थः, मनुष्यस्तिर्यग्वेत्यर्थः। एवम्भतः संजी मिथ्यादृष्टिः “होइ" ति भवति, सप्तकर्मसत्कोत्कृष्टस्थितेः स्वामीति गम्यते । अत्रेपन्मध्यमसंक्लिष्ट इत्यपि वक्तव्यम् “ईसिमज्झिमसंकिट्ठो अवि मुणेयव्यो"इति वचनात् । “दुगइट्ठो' इत्येतच्च स्वरूपदर्शनमात्रपरं बोद्धव्यम् , मनुष्यतिर्यग्वर्जानां प्रस्तुतमार्गणाया एव बहिस्त्वेनाऽतिप्रसंगाभावाद् व्यवच्छेदकपरत्वानुपपत्तेरिति । स्वल्पविशेषादौदारिकमिश्रकाययोगमार्गणायां सापवादमतिदिशन्नाह- "एमेव उरलमीसे" इत्यादि, औदारिकमिश्रकाययोगमार्गणायामपि "एमेव"त्ति 'एवमेव,'-ौदारिककाययोगमार्गणावदित्यर्थः । “णवरं" ति नवरमयं विशेषः, तमेवाह-'तयणुरुवसंकिट्ठो' ति तदनु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org