________________
उत्कृष्टस्थितिबन्धस्वामिनः ] द्वितीयाधिकारे स्वामित्वद्वारम्
[ ११३ होइ अपज्जत्तणरे अणुत्तरेसु य पंचसु सुरेसु। एगिदिय-विगलिंदिय-कायपणगसव्वभेएसु ॥८॥ तप्पाउग्गकिलिट्ठो णवरि भवे बायरो त्ति वत्तव्यं ।
एगिदिये णिगोए पुहवाइगपंचकायेसु ॥६॥ (प्रे०) "होइ अपज्जत्तणरे" इत्यादि, अपर्याप्तमनुष्यभेदे “अणुत्तरेसुं य पंचसु सुरेसुं" ति विजय-जयन्त-जयन्ता-ऽपराजित-सर्वार्थसिद्धनामधेयेषु पञ्चस्वनुत्तरेषु सुरेषु, अनुत्तरसुरदेवगतिभेदेष्वित्यर्थः । चः समुच्चये । तथा “एगिदिये" त्यादि, अत्र सर्वभेदेष्वित्यस्यैकेन्द्रियादिषु प्रत्येक योजनादेकेन्द्रियसत्कसर्वभेदेषु,द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियलक्षणविकलेन्द्रियसत्केष्वोध-पर्याप्ता-ऽपर्याप्तभेदभिन्नेषु सर्वभेदेषु, पृथिव्यादिवनस्पतिकायान्तकायपञ्चकसत्कसर्वभेदेष्वित्येतास्वेकषष्टिमार्गणासु प्रत्येकम् “तप्पाउग्गकिलिट्रो" ति पूर्ववत्साकारादिविशेषणविशिष्टस्तत्प्रायोग्योत्कृष्टसंक्लिष्टः, भवतीति पूर्वेण योगः, सप्तानामुत्कृष्टस्थितिबन्धस्वामीति प्रक्रमाद्गम्यते, अनुवृत्या वा द्रष्टव्यम् । अत्रैवैकेन्द्रियौघादिकतिपयमार्गणासु सूक्ष्मा बादराश्च द्विविधा जीवाः, अतस्तासु के उत्कृष्टस्थितिबन्धस्वामिनो भवन्ति, के पुनर्नेत्येतत्स्फुटीकर्तु माह—“णवरि भवे” इत्यादि, नवरं-परं बादर इत्यपि विशेषणं वक्तव्यं भवेत् । कासु मार्गणासु बादर इति वक्तव्यं भवेदित्याह-"एगिदिय" इत्यादि, एकेन्द्रियोघमार्गणायां “णिगोए"त्ति निगोदवनस्पती, साधारणवनस्पतिकायौघमार्गणाभेद इत्यर्थः । “पुहवाइगपंचकायेसु' ति पृथिव्यादिकेषु पञ्चसु कायमार्गणासत्कौघमार्गणाभेदेषु, पृथिवीकायौधे, अप्कायौधे, तेजस्कायौघे, वायुकायौघे वनस्पतिकायौघे चेत्यर्थः। एतासु सप्तमार्गणास्वेव वक्तव्यम्, न शेषासु । ननु एकेन्द्रियौघादिमार्गणावद्वादरैकेन्द्रियौघादिमार्गणास्वपि बादरजीवा एवोत्कृष्टस्थितिवन्धस्वामिनो भवन्ति, तथा चैकेन्द्रियौपादिमार्गणावद्वादरैकेन्द्रियौघादिमागणास्वपि उत्कृष्टस्थितिबन्धस्वामितया 'बादर' इति विशेषणकथने न किञ्चिद्दोषः सँल्लक्ष्यते, तत्कथमेकेन्द्रियौघादिमार्गणास्वेव प्रस्तुतस्वामिविशेषणतया 'बादर' इति विशेषणं वक्तव्यम् , न पुनः शेषमार्गणावपीति कथ्यते ? इति चेत्, सत्यम्, यदि यथासम्भवं स्वरूपदर्शनविशेषणतयाऽपि तन्निवेशाभिप्रायः स्यात् , न चात्रैवम् , व्यवच्छेदकविशेषणाभिप्रायेण मूलकृता तन्निवेशात्, तथा च व्याख्यातमपि तथैव । इदमुक्तं भवति-विशेषणं हि कुत्रचिद्धेतूपदर्शनाभिप्रायेण निवेश्यते, तत्र च तद्धेतुद्वारेण व्याख्यायते, यथा"अक्खस्स पोग्गलकया जं दग्विन्दियमणा" इत्यत्र द्रव्येन्द्रियमनस्साम् "पुद्गलकृतानी"ति विशेषणम् । उक्तं च तद्वृत्तौ-"पुद्गलकृतानि-पुद्गलस्कन्धनिचयनिष्पन्नानि, हेतुद्वारेण चेदं विशेषणं द्रष्टव्यम् , पुद्गलकृतत्वाद्' इत्यर्थः" इति (विशेषावश्यकभाष्यवृत्तौ)। कुत्रचित्तु तदतिप्रसङ्गवारणार्थमितरार्थव्यवच्छेदकपरतया वण्यते, यथा-"इंदिय-मणोनिमित्तं जं विण्णाणं सुयाणुसारेणं" (वि.प्रा.भा.गाथा-१००) इत्यत्र "श्रुतानुसारेणे"ति विज्ञानविशेषणम् । उक्तं च तद्व्याख्यायाम्—“इन्द्रियमनोनिमित्तं च मति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org