SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ११२ ] बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानेष्वायुर्वज नाम् (प्रे० ) " सव्वणिरय" इत्यादि, निरयौघ- प्रथमादिनिरयभेदलक्षणेसु सर्वेषु निरयगतिभेदेषु " णरतिग" त्ति सूत्रस्य सूचकत्वादपर्याप्तवर्णानां त्रयाणां नरगतिमार्गणाभेदानां त्रिके, मनुष्यौघपर्याप्तमनुष्य मानुपीरूपमार्गणात्रय इत्यर्थः । तथा " सुर" सि देवगत्योघे, “सहसारंत" त्ति भवनपत्यादिसहस्रार कल्पान्ता ये देवगतिमार्गणाभेदास्तेष्वेकादशभेदेषु पञ्चमनोयोगभेदेषु अनन्तरोक्त भेदद्वयवर्जेषु सत्यवचना-ऽसत्यवचन- मिश्रवचनलक्षणेषु त्रिषु वचनयोगभेदेषु, तथा संज्ञिमार्गणायामित्येतासु द्वात्रिंशन्मार्गणासु प्रत्येकं "सत्तण्ह" त्ति आयुर्वजनां सप्तकर्मणामुत्कृष्टायाः स्थितेन्धकः खलु “उक्कोससंकि लिट्टो मिच्छो" त्ति "सागाराई" त्याद्यनन्तरोक्तवचनात्साकारादिविशेषणविशिष्ट उत्कृष्ट संविष्टः “ईसिमज्झिमसंकि लिट्टो अवि मुणेयव्यो" इति वचनादीषन्मध्यमसंक्लिष्टच "मिच्छो" ति मिध्यादृष्टिः, भवेदिति परेण योगः । अत्र पञ्चमनोयोगभेद-त्रिवचनयोग भेदवर्जा सु शेषमार्गेणानु “पज्जत्तापज्जत्ता" इत्याद्यनन्तरोक्त सामान्यवचनात्सर्वाभिः पर्याप्तिभिः पर्याप्त इत्यपि स्वामिविशेषणतया द्रष्टव्यम् एवमेवोत्तरत्रापि सर्वाभिः पर्याप्तिभिः पर्याप्त इति यथासम्भवं द्रष्टव्यम्, साकारादीनि विशेषणानि च स्वयमेव योज्यानि । एतासु सर्वमार्गणासु भावना त्वोघानुसारेण द्रष्टव्येति । तदेवं दर्शिता निरयगतिभेदेषु प्रकृतस्वामिनः, तत्साम्याद् देवगत्योघादिभेदेषु च । साम्प्रतं क्रमप्राप्तेषु तिर्यग्गतिभेदेषु दर्शयन्नाह - " तिरिये " इत्यादि, तिर्यग्गत्योघे, अपर्याप्तभेदवर्जे पञ्चेन्द्रियतिर्यत्रिके, पञ्चेन्द्रियतिर्यगोध-तत्पर्याप्त-तिर श्रीमार्गणाभेदत्रय इत्यर्थः एतासु चतसृषु मार्गणासु प्रत्येकं सप्तानामुत्कृष्टस्थितेर्बन्धकः "सागाराई "त्यादि, तथा “पज्जत्ता" (गाथा ०८२-८३) इत्यादिवचनात् साकारादिविशेषणविशिष्टः सर्वपर्याप्तिभिः पर्याप्तः "उक्कोससंकिट्टो' ति उत्कृष्टसंक्लिष्ट : “ ईसिमज्झिमअसंकिट्टो वि" ( गाथा० ८४ ) इत्यादिवचनादी पन्मध्यम संक्लिष्टच "मिच्छादिट्ठी भवे सण्णी" ति निरुक्त विशेषणविशिष्टः संज्ञी मिध्यादृष्टिजीवी भवेदिति । एकवचनान्तनिर्देशस्तु प्राग्वज्जातिमधिकृत्य, एवं पूर्वोत्तरत्र च बोद्धव्यमिति || ८५ ८६ ॥ अथ क्रमप्राप्तायामपर्याप्ततिर्यक् पञ्चेन्द्रियमार्गणायां प्रस्तुतस्यामिनी दिदर्शयिपुस्तत्साम्यादन्यत्रापि सममेवाह होड पज्जत्तेसु पणिदिय तिरिय-पणिंदिय-तसेसु । तथ्यग्गकिलिट्टो गायव्वो बंधगो सरणी ॥८७॥ (०) "होइ थपज्जतेसु मित्यादि, अपर्याप्तपञ्चेन्द्रियतिर्यग पर्याप्तपञ्चेन्द्रियाऽर्याप्तत्रसलक्षणे त्रिपर्याप्तभेदेषु "बंधगो "त्ति प्रस्तुतत्वात्सप्तानामुत्कृष्टस्थितेर्वन्धकः - स्वामी " तप्पा उग्गकिलिट्टो" ति पूर्वोक्तन्यायेन साकारादिविशेषणविशिष्टस्तस्या- पर्याप्तपञ्चेन्द्रियतिर्यगादिमार्गणासु बन्धप्रायोग्यस्यान्तःकोटीकोटी सागरोपम प्रमाणायुत्कृष्ट स्थितिबन्धस्य प्रायोग्य : ' - अनुरूप : 'क्लिष्ट:' -संक्रिटस्तत्प्रायोग्यष्टिः, तत्प्रायोग्योत्कृष्टसंकट इति भावः, एवम्भूतः संज्ञी ज्ञातव्यो भवतीति पूर्वेण योगः । यत्रापर्यातपञ्चेन्द्रियाऽपर्याप्तत्र समायोस्तिर्यग्मनुष्यो वेत्यादि स्वयमेव द्रष्टव्यम्, सुगमत्वादिति ॥८७॥ अथ क्रमप्राप्ताऽपर्याप्तमनुष्यमार्गणया तुल्यवक्तव्यत्वादन्यत्रापि सममेवाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy