SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ उत्कृष्टस्थितिबन्धस्वामिनः ] द्वितीयाधिकारे स्वामित्वद्वारम् [ १११ पर्याप्तेतराः, यैः स्वप्रायोग्याः पर्याप्तयो न समाप्तास्ते लब्ध्यपर्याप्ताः करणापर्याप्ताश्चेत्यर्थः । यदुक्तं लोकप्रकाशतृतीयसर्गे "असमाप्य स्वपर्याप्ती,-म्रियन्ते येऽल्पजीविताः । लब्ध्या ते स्युरपर्याप्ता, यथा निःस्वमनोरथाः ॥ निर्वतितानि नाद्यापि, प्राणिभिः करणानि यैः । देहाक्षादीनि करणा, ऽपर्याप्तास्ते प्रकीर्तिता." इति।। एवम्भूताः पर्याप्तापर्याप्तभेदाद् द्विविधा अपि जीवाः “त्थि जत्थ"त्ति अकारस्य दर्शनात् 'सन्ति' विद्यन्ते 'यत्र' यस्यां यस्यां मार्गणायां—तत्थ भवे" ति 'तत्र' तस्यां तस्यां मार्गणायां भवेत् , किं भवेदित्याह- "पज्जत्तो" इत्यादि, सर्वाभिः स्वप्रायोग्याभिः पर्याप्तिभिः पर्याप्त इति वक्तव्यं भवेदित्यर्थः । सप्तकर्मणामुत्कृष्टायाः स्थितेबन्धकविशेषणतयेत्यनुवर्तते । अयम्भावः--सजातीयेषु पर्याप्ताऽपर्याप्तजीवेषु पर्याप्तजीवानामेव करणादिविशिष्टसामग्रीसद्भाबादुत्कृष्टसंक्लेशादेः सम्भवः, न पुनर्लब्ध्यपर्याप्तानां करणापर्याप्तानां वा । तथा च सति तेषामुत्कृष्ट स्थितिबन्धस्वामित्वप्रतिषेधाय निरयगत्योपादिमार्गणासु यासु करणपर्याप्ताः करणापर्याप्ताश्च जीवा प्रविष्टाः; यासु च तिर्यग्गत्योघादिमार्गणासु करणपर्याप्ता लब्ध्यपर्याप्ताः करणापर्याप्ताश्च जीवाः प्रविष्टास्तासु "सर्वाभिः स्वप्रायोग्याभिः पर्याप्तिभिः पर्याप्त" इति सप्तानामुत्कृष्टस्थितिबन्धस्वामिविशेषणतया वक्तव्यम् , न पुनर्यास्वपर्याप्तपञ्चेन्द्रितिर्यगादिमार्गणासु केवला अपर्याप्तजीवा एव प्रविष्टास्तासु, केवला वा पर्याप्तजीवाः प्रविष्टास्तासु मनोयोगादिमार्गणास्विति । अथान्यदर्थापत्तिगम्यं मन्दबुद्धय पकृतये स्फुटमाह"उक्कोससंकिलिट्ठो"इत्यादि, "जत्थ"त्ति 'यत्र' यासु मार्गणासु “सत्तण्ह बन्धगो"त्ति आयुर्वर्जानां सप्तानामुत्कृष्टस्थितेर्वन्धकः "उक्कोस संकिलिट्ठो” ति उत्कृष्टः संक्लिष्टः, अर्थतः सर्वसंक्लिष्टः "वुच्चइ" त्ति “सत्सामिप्ये सट्टा" इत्यनेन सूत्रेण वर्तमानस्य सामिध्ये भविष्यति वर्तमानप्रत्ययस्य प्रयुक्तत्वाद् वक्ष्यत इत्यर्थः। तत्र किमित्याह—'तत्थ खलु" इत्यादि, खलुशब्दोऽवधारणे, स च प्रान्ते योज्यः, ततस्तत्र-तासु मार्गणासु स:-सप्तानामुत्कृष्टस्थितेर्बन्धक अोषवदीपमध्यमसंलिप्टोऽपि ज्ञातव्य एवेत्यर्थः । सुगम चैतत, प्रत्येकं स्थितीनामसंख्यलोकाकाशप्रदेशराशितुल्याध्यवसायबन्धप्रायोग्यतयोत्कृष्टसंक्लेशप्रायोग्यस्थितेरीपन्मध्यमसंक्लेशैरपि बध्यमानत्वादिति ॥८२।८३८४॥ तदेवं लाघवार्थं सामान्यवक्तव्यत्वादिकमार्यात्रयेण समाप्य साम्प्रतमतिदिष्टमार्गणा वर्जेयित्वा शेषमार्गणास्वपि प्रथमं सप्तप्रकृतीनामेवोत्कृष्टस्थितिबन्धस्वामिनो विशेषतः प्रकटयन्नाह--- सव्वणिरय-णरतिग-सुर-सहसारंत-पणमण-तिवयणेखें। सरिणम्मि बंधगो खलु उक्कोसठिईअ सत्तरहं ॥५॥ उक्कोससंकिलिट्ठो मिच्छो तिरिये पणिदितिरियतिगे। उक्कोससंकिलिट्ठो मिच्छादिट्ठी भवे सरणी ॥८६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy