________________
११० ]
बंधविहाणे मूलपयडिटिइबंधो [ मार्गणास्थानेष्वायुर्वर्जानाम् विशेषणविशिष्टास्तदनुरूपविशुद्धाः प्रमतसंयता अप्यौधिकोत्कृष्टस्थितिकायुपो बन्धस्वामिनो भवन्तीति ॥७६८०॥
तदेवमभिहिता अष्टानामपि मूलप्रकृतीनामुत्कृष्टस्थितिबन्धस्वामिन ओघतः । साम्प्रतमादेशतो व्याजिहीपुलविवार्थ यासु मार्गणास्वोधवत्तास्वतिदिशति
सत्तण्ह खलु पणिंदिय-तस-वयदुग-कायचउकसायेसु।
अयत-णयणेयरेसुभविया-ऽऽहारेसु अोघव्व ॥८१॥ . (प्रे०) “सत्तण्ह' इत्यादि, आयुर्वर्जानां सप्तानामोघवदिति गाथाप्रान्तेऽन्वयः, उत्कृष्ट स्थितिबन्धस्वामिन इति प्रक्रमाद्गम्यते । केषु मार्गणाभेदेवित्याह-"खलु पणिदिये"त्यादि, खलुशब्दो पादपूत्यै । द्विकशब्दस्य पञ्चेन्द्रिय-बस-बचस्सु प्रत्येक योजनात् पञ्चेन्द्रियविके, त्रसकायद्विके, बचोयोगहिक चेत्यर्थः, तत्रापि व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायादपर्याप्तवर्जितौ पञ्चेन्द्रियौषतत्पर्याप्तभेदो, सकायोध-तत्पर्याप्तभेदौ, बचोयोगसामान्या-ऽसत्यामृषावचोयोगी चैकैकद्विकात् क्रमेण ज्ञातव्याविति । तथा काययोगसामान्य-क्रोधादिचतुःकषायमागणाभेदेपु, "प्रयत-णयणेयरेसुं" इति 'अयते' असंयमे 'नयने'-चक्षुर्दर्शनमार्गणाभेदे तथेतरपदादचक्षुदर्शनमार्गणाभेदे चेत्यर्थः, तथा भव्यमार्गणाऽऽहारिमार्गणाभेदयोरित्येतासु पोडशमार्गणासु प्रत्येकमित्यर्थः । एतासु प्रत्येकं भावनाऽप्योघवदेव द्रष्टव्या इति ॥१॥
अथ भणितशेपमार्गणासु प्रतिपिपादयिषुलावार्थं बहुमार्गणाविषयकसमानव्यक्तव्यतामादावेवाभिदधाति
सेसासु मग्गणासु उक्कोसठिई बंधगो णेयो। सागाराइविसिट्ठो सतण्हं अाउवज्जाणं ॥२॥ पज्जत्तापज्जत्ता दुहा वि जीवाऽत्थि जत्थ तत्थ भवे । पज्जत्तो सव्वाहिं पज्जत्तीहिं त्ति वत्तव्वं ॥३॥ उक्कोससंकिलिट्टो वुच्चइ सतह बंधगो जत्थ ।
तत्थ खलु ईसिमझिमसंकिट्ठो अवि मुणेयब्वो ॥८४॥ (प्रे०) "सेसासु" इत्यादि, अनन्तरमेव ‘सत्तरह खलु पणिदियेत्यादिना कथिताः षोडपमार्गणाः परिहत्य शेपासु निरयगत्योपादिमागेणासु प्रत्येकमुत्कृष्टस्थितेवन्धको ज्ञेयः, क इत्याह"सागाराई"त्याधत्तरार्धम् , सुगमं गतार्थं च । एपो हि सामान्यतो बन्धकोऽवसेयः । कुत एवं ज्ञायते ? इति चेद, विशेषतोऽग्रे वक्ष्यमाणत्वादिति । अन्यामपि सामान्यवक्तव्यतामाह-"पज्जत्ता-पज्जत्ता" इत्यादि, 'पर्याप्ताः' स्थस्वप्रायोग्याभिः सर्वाभिः पर्याप्तिभिः पर्याप्ताः करणपर्याप्ता इत्यर्थः । अपर्याप्ताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org