________________
उत्कृष्टस्थितिबन्धस्वामिनः ] द्वितीयाधिकारे स्वामित्वद्वारम
[ १०६ संक्लेशैरेव निर्वय॑मानत्वात् , तथाप्यायुर्वर्जानां सप्तानां मूलप्रकृतीनामुत्कृष्टस्थितिबन्धप्रायोग्येषु संक्लेशेषु सर्वोत्कृष्टसंक्लेशोऽपि प्रविष्टः, प्रायुप उत्कृष्टस्थितिवन्धानुरूपसंक्लेशेषु त्वसौ सर्वोत्कृष्टसंक्लेशो न प्रविष्टः, अत्यन्तसंक्लिष्टरायबन्धस्यैवाकरणात् । उक्तं च पञ्चसंग्रहवृत्ती --- “अत्यन्तसंक्लिष्टानामायुबन्धासम्भवात्” इति । इत्थं यत्कृष्टसंक्निष्टानाभायष उत्कृष्टस्थितिवन्धवामित्वव्यवच्छेदार्थमत्र "तयणुरुवसंकिलिहो" इत्युपात्तम् , पूर्व तूत्कृष्ठसंक्लेशेनापि सप्तानामुत्कृष्टस्थितिबन्धस्य भावाद् 'परमसंकेसेणीसिमझिमेणं वा" इति व्यस्तमभिहितमिति । 'मिच्छादिद्वी पणिदितिरियणरो" त्ति मिथ्यादृष्टिरिति प्राग्वत्सम्यग्दृशां व्यवच्छेदार्थम् , आयप उत्कृष्टास्थितिवन्यप्रायोग्यस्य संक्लेशस्य सम्यग्दृष्टिष्वघटनात् । कुतः ? सम्यग्दृष्टिभिर्नरकायुयोऽबन्धाद् , देवायुपस्तु विशुद्धिप्रत्ययत्वाच्च । उक्तं च शतकग्रन्थे
___ "साठिईणं उक्कोसश्रो उ उकोससंकिले सेणं । विवरीप य जहन्नो, आउातिगवज्जसे साणं" ।।५८|| इति । संज्ञिपञ्चेन्द्रियतिरश्चो नरस्य च ग्रहणं तु देवनारकाणामायुग उत्कृष्टस्थितिवन्धस्वामित्वव्यबच्छेदार्थम् । इत्थं हि साकारोपयोगादिविशिष्ट प्रारुप उत्कृष्टावाधायां वर्तमानः सर्वपर्याप्तिभिः पर्याप्त आयुष उत्कृष्टस्थितिवन्धानुरूपसंक्लेशोपेतो यो मिथ्याष्टिः संक्षिपञ्चेन्द्रियतिर्यग मनुष्यो वा सः, आयुषो गुरुस्थितिं वध्नातीति प्रान्तेऽन्वयः । इदं हि संक्लेशश्रत्ययं सप्तमनरकसत्कोत्कृष्टस्थितिकायुरधिकृत्याभिहितम् । उत्कृष्टस्थितिकायस्त्वनुत्तरदेवसत्कमपि बध्यते, विशुद्धया बध्यमानस्य तस्य बन्धकानामप्युत्कृष्टस्थितिबन्धस्वामित्वं भवतीति तानपि सङ्गलबाह-"तदरिहसुद्धपमत्तो वा” इति, अत्र साकारोपयोगादिविशेषणानां यथायोगमनन्तरगाथातोऽनुवृत्तिर्दष्टव्या, भावना तु प्राग्वदेव, "तदरिह'त्ति-तस्योत्कृष्टस्थितिकायुपोऽर्हा-प्रायोग्या, अस्याश्चान्वयः प्राग्वत् शुद्धैकदेशे शुद्धौ द्रष्टव्यः, ततस्तस्योत्कृष्टायुषो बन्धेऽर्हा या शुद्धिस्तयाऽम्बितो यस्तदहशुद्धः प्रमत इत्यर्थः । तत्र तत्प्रायोग्यविशुद्धस्य ग्रहणमत्यन्तसंक्लेश इवात्यन्त विशुद्धावप्यापुर्बन्धस्याऽभावात् । उक्तं च पञ्चसंग्रहवृत्तौ – “अत्यन्तविशुद्धानामायुर्बन्धाभावाद्” इति । प्रमत्तग्रहणं त्वप्रमतानामायुप उत्कृष्टस्थितिबन्धस्वामित्वप्रतिषेधार्थम् । ननु कस्मादप्रमतानामायुप उत्कृष्टस्थितिबन्धस्वामित्वं प्रतिषिध्यते, तैरपि देवायुष उत्कृष्टस्थितिबन्धस्त्रयस्त्रिंशत्सागरोपमलक्षणः क्रियत एव ? इति चेत्, सत्यम् , तथापि न ते आयुबन्धस्य प्रारम्भकाः, किन्तु केवलं प्रमत्तावस्थायां प्रारब्धस्यैव निवाहकाः। उक्तं च—“अपमत्तो बन्धिउं नाढवेइ, पमत्तेनाढत्तमप्पमत्तो बंधेइ” इति । ततः किं ? ततो वेद्यमानपूर्वकोटीलक्षणायुषो भागद्येऽतिक्रान्ते तृतीयभागस्याडसमये प्रमत्तावस्थायामारन्यस्योत्कृष्टस्थितिकायुषोऽवाधायाः प्रतिसमयं परिगलनादप्रमत्तावस्थायां वध्यमानमपि तत् मध्यमावाधोपेतं सन्मध्यमस्थितिकमेव भवति, न तूत्कृष्टस्थितिकम् । उक्तं च नव्यशतकवृत्ती देवेन्द्र सूरिपादैः-"पूर्वकोटीत्रिभागस्य द्वितीयादिसमयेषु बनतो नोत्कृष्ट लभ्यते, अबाधाया परिगलितत्वेन मध्यमत्वप्राप्ते' रिति । इत्थं हि साकारोपयोगादिविशेषणविशिष्टास्तदनुरूपसंक्लिष्टमिथ्यादृष्टितिर्यग्-मनुभ्या इव साकारोपयोगादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org