________________
१०८ ] बंधविहाणे मूलपयडिठिइबंधो
[ोघत आयुषः सप्तानामुत्कृष्टस्थितिबन्धस्वामी भवतीत्येतावदपि पर्याप्तं स्यात् । कुतः ? साकारायुक्तविशेषणविरहितानां सप्तकर्मसत्कोत्कृष्टस्थितिबन्धप्रायोग्यस्योत्कृष्टसंक्लेशस्येपन्मध्यमसंक्वेशस्य चानवाप्तेः । तथाऽप्येतादृश उत्कृष्टसंक्लेश ईवन्मध्यमो वा संक्लेशः केषां जीवानां किटगवस्थायां प्राप्यत इत्यनवगते उत्कृष्टस्थितिबन्धस्वामिविषयकः स्पष्टावबोधो न जायतेति सविशेषमभिहितम् । “सागारो" इत्यादिपदेष्वेकवचनान्तो निर्देशस्तु जातिमधिकृत्य, ततस्तादृशा ये केचनाऽपि मिथ्यादृष्टिजीवास्ते सर्वेऽपि सप्तानामौधिकोत्कृष्टस्थितिबन्धस्वामिन इत्यपि बोद्धव्यमिति ॥७७।७८॥
तदेवं दर्शिता मूलसप्तकर्मणामौधिकोत्कृष्टस्थितिबन्धस्वामिनः। साम्प्रतमायुपस्तान् दर्शयन्नाहसागाराइविसिट्ठो वट्टेमाणो उ गुरुप्रवाहाए। सगणी खलु सबाहिं पज्जत्तीहिं य पज्जत्तो ॥७॥ तयणुरुवसंकिलिट्ठो मिच्छादिट्ठी पणिदितिरियाणरो।
तदरिहसद्धपमत्तो वाऽऽउस्स उ बंधइ गुरुठिइं ॥८॥
(प्रे०) "सागाराइविसिट्ठो' इत्यादिगाथाद्वयम् , तत्र “सागाराई"त्यादि प्राग्वद् व्याख्येयम् , तुकारस्त्ववधारणार्थः "गुरुप्रबाहाए" इत्यस्योत्तरं योज्यः, ततः "गुरुप्रबहाए उ वढेमाणो' ति पूर्वकोटीतृतीयभागप्रमाणायां वेद्यमानायुरवशेषलक्षणायां “गुाम्' उत्कृष्टायामबाथायामेव वर्तमान इत्यर्थः । इदमुक्तं भवति-कर्मरूपतावस्थानलक्षणस्थितिबन्धस्याऽधिकृतत्वाद् बन्धसमयप्रभृतिकचरमनिषेकपर्यन्तप्रमाणायाः स्थितेबन्धका द्रष्टव्याः; सा च स्थितिरोघतः पूर्वकोटीत्रिभागेनाभ्अधिकत्रयस्त्रिंशत्सागरोपमप्रमाणा उत्कृष्टतो भवति, तत्र पूर्वकोटीत्रिभागस्त्वबाधा । त्रयस्त्रिंशत्लागरोपभन्थितिकं नरकायुर्बध्नतां देवायुर्वा बध्नतां सर्वेषां न सा उत्कृष्टाबाधा सम्पद्यते, किन्तु बहनां समादिना हीनाहीनतराद्यैव, केषाञ्चिदेवोत्कृष्टा पूर्वकोटीविभागलक्षणा । तत्र येषां त्रयस्त्रिंशसागरोपमस्थितिकं नरकायुर्देवायुवा बध्नतामुत्कृष्टा पूर्वकोटीविभागलक्षणाऽबाधा न संपद्यते, किन्तु समयादिना होना सम्पद्यते, तेषां प्रस्तुतकर्मरूपतावस्थानलक्षणोत्कृष्टस्थितिबन्धस्वामित्वं न भवति । अत उत्कृष्टया पायामेर वर्तमान इत्यनेन तेषां व्यावर्तनं कृतमिति । उत्कृष्टाबाधा पूर्वकोटिस्थितिकाऽसंजिनामपि लभ्यते, न चैते उत्कृष्टस्थितिवन्धस्वामिनो भवन्ति, सप्तमपृथिवीनारकतयाऽनुत्तरवासिदेवतया वा तपामनुत्पतेः । इत्यं तेषां व्यावृत्तये उक्तम्- "सरणी खलु" इति । 'तयणुवसंकिलिट्रो"त्ति तान्योत्कृष्टस्थितिकायुपो'ऽनुरूपः'-अनुकूलः, अस्य चान्वयः संक्लिष्टपदार्थकदेशे संक्लेशे, तत उत्कृष्टायुरनुकू नो यः संक्लेशस्तेन यक्तस्तदनुरूपसंक्लिष्टः । ननु 'ज्ञानावरणादीनां सप्तानामुत्कृष्टस्थितेर्वन्धका अपि तस्या ज्ञानावरणादिसत्कोत्कृष्टस्थितेरनुरूपसंक्लेशेनोपेता एव सन्ति, अन्यथा तेषां ज्ञानावरणादेशकास्थितिवन्धस्यैवाऽसम्भवात् , तत्कथं तत्र “परमसंकेसेणीसिमझिमेणं वा" इत्याद्यभिहितम, अत्र पुनः “तयणुरुषसंकिलिट्ठो” इत्युच्यते ?' इति चेत्, सत्यमेतत् , सर्वेषां स्थितिबन्धानां स्वानुरूप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org