SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ उत्कृष्टस्थितिबन्धस्वामिनः ] द्वितीयाधिकारे स्वामित्वद्वारम् [ १०७ दधाति - " परमसंकेसेणी सिमज्झिमेणं वा परिणामेण " मिति, स्थितिबन्धस्य प्रकृतत्वात् "परमसंकेसेण "त्ति 'परमेण' - उत्कृष्टेन स्थितिबन्ध संक्लेशेन, समस्तेऽपि भवचक्रे कस्यापि जीवस्य यस्मादधिकः संक्लेशो न प्राप्यते सः 'परमः ' - सर्वोत्कृष्टः कपायोदयजन्यः परिणामविशेषः संक्लेशस्तेनेत्यर्थः । उत्कृष्टस्थितिबन्धो यथा सर्वसंक्लेशेन जायते, तथा तदन्यसंक्लेशैरपि जायते । कुतः ? प्रतिस्थितिबन्धमसंख्य लोकाकाशप्रदेशराशिप्रमितानां स्थितिबन्धसंक्लेशानां हेतुतया भणितत्वात् । वक्ष्यते चात्रैव ग्रन्थेऽग्रे षष्ठाधिकारे – “पइठिइबंधमसंखा लोगा अट्ठएह अमवसरणारा " मित्यनेन प्रतिस्थितिबन्धस्थानं नानाजीवानाश्रित्य तत्कारणीभूता असंख्य लोकाकाशप्रदेशराशितुल्या अध्यवसायाः सन्तीति । अत्रोत्कृष्टसंक्लेशेन तेष्वसंख्य लोकाकाशप्रदेशप्रमितेषूत्कृष्ट स्थितिबन्धप्रायोग्याध्यवसायेष्वेकः सर्वतीवर सोदयजन्यः काषायिकः संक्लेशो गृहीतः, न पुनः शेषाः, यतस्तेपामपि संग्रहायोक्तम्" ईसिमज्झिमेणं वा परिणामेणं" ति उत्कृष्टस्थितिबन्धप्रायोग्येषु संक्लेशेषु योऽनन्तरमुत्कृष्टसंक्लेशो गृहीतस्तस्मादुत्कृष्टसंक्लेशादीनहीनतरा ये शेषाः स्थितिबन्धसंक्लेशास्ते प्रत्येकमीपन्मध्यमसंक्लिष्टपरिणामतया गृह्यन्ते तेष्वेकैकेने पन्मध्यमपरिणामेनेत्यर्थः । अथवा सर्वसंक्लेशापेक्षया ये मध्यमादयः संक्लेशास्त एवेषन्मध्यमपरिणामेन गृह्यन्ते, अथवा ईवदिति सर्वलघुः सर्वजघन्यसंक्लेशः, मध्यमेति जघन्यसंक्लेशोत्कृष्टसंक्लेशयोर्मध्ये वर्तमाना मध्यमपरिणामाः । एते सर्वेऽप्युत्कृष्टस्थितिबन्धप्रायोग्याध्यवसायानपेच्य बोद्धव्याः, तेषूत्कृष्टस्थितिबन्धप्रायोग्य संक्लेशेषु य उत्कृष्टः संक्लेशः सोऽनन्तरम् "परमसंकेसेण" इत्यनेन गृहीतः, ईपत्पदेन जघन्यो गृह्यते, मध्यमपदेन तु शेषा उत्कृष्टजघन्ययोर्मध्यवर्तिनः परिणामाः- संक्लेशा गृह्यन्ते, इत्थं हि निरुक्तविशेषणविशिष्टो मिथ्यादृष्टिजव उत्कृष्टसंक्लेशेनोत्कृष्टस्थितिं बध्नाति, उत्कृष्टस्थितिबन्धप्रायोग्येन जघन्यसंक्लेशेन मध्यमपरिणामेन वा सप्तकर्मणामुत्कृष्टां स्थितिं बध्नातीत्यर्थः । उक्तं च शतकचूर्णी - "उको संकिले से जाणि संकिलेसठाणाणि उक्कोसटिई रिव्यत्तेन्ति, तेसु सव्वंतिमो उक्कोससंकिलेसो वच्चइ, तेरा उक्कोसियं टिइं णिवत्तेन्ति, "ईसिमहमज्झिमेणावि" त्ति त उक्कोससंकिलेसाओ उरण उणतराणि य ठिंइबंधज्भव सारण ठाराणि तेहिं पि तमेव उक्कसियं ठिडं वित्तन्ति, ते ईसिमज्झिमा वुच्चंति, हवा सव्वसंकिले से पडुच्च मज्झिमाइया ते चेव ईसिमज्झिमा बुच्चंति, श्रहवा उक्कोसियं ठिझं वित्तन्ति, जाणि अज्झत्रसारणठाणाणि तेसु सव्वखुड्डगं ईषत् तेवि तमेव उक्कोसियं ठिदं पित्र्यत्तेन्ति, जहन्नुको सा मझे जारि भवसारणठाणाणि तारिख मज्झिमाणि तेहिंतो वि तमेव उक्कोसियं ठिई रिव्यत्तेन्ति" इति । हेतुतयोपात्ताऽपि प्रकृतपदद्वय्युत्कृष्टस्थितिबन्धस्वामिविशेषणतया योजनीया । कुतः ? स्वामित्वप्ररूपणायाः प्रस्तुतत्वात् । तथा च योजने साकारो जाग्रत् साभिलापज्ञानोपयुक्तः सर्वपर्याप्तिभिः पर्याप्तोऽन्यतमगतिस्थः पञ्चेन्द्रियः संज्ञी सर्वसंक्लेशे वर्तमानः सन्नीवन्मध्यमसंक्लेशे वा वर्तमानः सन् मिथ्यादृष्टिर्जीवः “सत्तण्ह" ति आयुर्वर्जानां सप्तानां मूलकर्मणां “ठिडं उ उक्कोस" मिति उत्कृष्टां प्राग्दर्शितां त्रिंशत्कोटी कोटी सागरोपमादिलक्षणां स्थिति बध्नातीत्युत्तरेण योगः, स च प्राग्दर्शित एवेति । इदन्तु बोध्यम् - अत्र सर्वसंक्लेशे वर्तमान ईषन्मध्यमसंक्लेशे वर्तमानो वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy