________________
१०६ ]
बंधविहाणे मूलपयडिठिइबंधो [ोघत आयुर्वर्जानाम् भिधानादित्यसङ्गतमिव लक्ष्यत एतद् ? इति चेद, न, वस्तुतचापरिज्ञानात् । यतः "श्रुतोपयुक्त" इत्यस्य मिथ्यादृष्टिविशेषणतयाऽङ्गीकारात् श्रुतपदेन श्रुताज्ञानं गृह्यते, न पुनः श्रुतज्ञानम् , येनोक्तविरोधः स्यात् । इदमुक्तं भवति-अविशेषितं श्रुतं श्रुतज्ञानं श्रुताज्ञानं च भवति, विशेषितं पुनस्तत् सम्यग्दृष्टेः श्रतज्ञानं भवति, मिथ्यादृष्टेस्तु ताज्ञानं भवति, उक्तं च श्रीनन्द्यध्ययनागमे-"अविसेसियं सुयं सुयनाणं सुयअन्नाणं य, विसेसियं सुयं सम्मदिट्ठिस्स सुयं सुयनाणं, मिच्छदिट्ठिस्स सुयं सुयअन्नाणं' इति । प्रकृते च "साकार" इत्यादिविशेषणानि मिथ्यादृष्टिजीवस्य विशेषणतयोपात्तानि, ततश्च श्रतोपयुक्त इतिविशेषणमपि मिथ्यादृष्टिजीवस्य, तेन श्रतपदेन श्रुताज्ञानं गृह्यते, तथा च सतिश्रुताज्ञानोपयुक्तो मिथ्यादृष्टिरिति न कश्चिद्विरोध इति । यद्वा यथाश्रुतं श्रुतोपयुक्त इत्यनेन साभिलापज्ञानोपयुक्तता तत्स्वामिनो गृह्यते, सा च मिथ्यादृष्टेरप्युत्कृष्टस्थितिबन्धस्वामिनो न कुत्रचिद्विरुध्यते, श्रतज्ञान-श्रताज्ञानयोयोरपि साभिलापज्ञानरूपत्वाऽविशेषात् , अत एव शास्त्रार्थविवरणचञ्चुभिः श्रीमन्मलयगिरिपादैः श्रीप्रज्ञापनासूत्रवृत्तौ नरकगतिभेदे उत्कृष्टस्थितिबन्धस्वामिनां श्रतोपयुक्ततेति साभिलापज्ञानोपयुक्तता प्रज्ञापयाञ्चक्रे । तथा च तद्ग्रन्थः___“सुत्तोवउत्ते" त्ति साभिलापज्ञानोपयुक्त इति भावः' इति ।
उक्तविशेषणविशिष्ट एकेन्द्रिय-विकलेन्द्रियाणामन्यतमोऽपि स्यादिति तेषां व्यवच्छेदायाह"पणिदियो" ति पञ्चेन्द्रियः, पञ्चेन्द्रियजातिनामकर्मोदयवानित्यर्थः । एवम्भूता असंज्ञिनोऽपि भवेयुः, न च तेषामौघिकोत्कृष्टस्थितिबन्धो जायत इति तेषामपि व्यवच्छेदार्थमाह-"सण्णी" त्ति विशिष्टस्मरणशक्तिरूपा या दीर्घकालिकीसंज्ञा तयोपेत इत्यर्थः, न पुनराहारादिसंज्ञया संज्ञी, तदपेक्षया संज्ञीतिव्यवहारस्यागमेष्वपरिभाषणात् । निरुक्तसर्वविशेषणविशिष्टः संज्ञी जीवोऽप्यपर्याप्तावस्थायां तथाविधमानससामथ्यापेतत्वादौधिकोत्कृष्टस्थितिबन्धं निवतयितु नालं भवति, अतस्तादृशस्याऽपर्याप्तावस्थस्य संज्ञिनोऽपि व्यवच्छेदार्थमाह-"पज्जत्तो सव्वाहि पज्जत्तीहि" ति संज्ञिनः प्रायोग्याभिः सर्वपर्याप्तिभिः पर्याप्त इत्यर्थः । उक्तं च शतकचूणा
“सब्यासिं पगईणं उक्कोसठिई मिच्छदिट्ठी सव्याहिं पज्जत्तीहिं पज्जत्तो सव्वसंकिलिट्टो बंधइ" इति ।
अत्र संज्ञिनः प्रायोग्याः पर्याप्तयस्त्वाहारप्रभृतयः पड् । उक्तं चान्यत्र- “अाहार-सरीरिं-दिय पज्जत्ती प्राणपाण-भास-मणे । चउ-पंच-पंच-छप्पिय इग-विगला-ऽसन्नि-सन्नीणं” इति ।
ननु निरुक्तविशेषणविशिष्टो नैरयिकजीव एव भवति उतान्योऽपीत्याह-"चउगइट्रो" इत्यादि, 'चतुर्गतिस्थः'-नरक-तियेर-मनुष्य-देवलक्षणचतुर्गतीनामन्यतमगतिस्थः, अन्यतमगतौ वर्तमानो नारकादिमिथ्यादृष्टिजीवो भवति, न केवलो मिथ्यादृष्टिनरयिकजीव एवेत्यर्थः। तुशब्दोऽवधारणे । मिथ्यादृष्टेरुपादानं पुनः सम्यग्दृशां व्यवच्छेदार्थम् , सम्यग्दृशां सप्तकर्मणामन्तःकोटीकोटीसागरोपमेभ्योऽधिकस्थितिबन्धप्रायोग्यः संक्लेश एव न भवतीति भावः । इत्थं सप्तानामुत्कृष्टस्थितिबन्धेऽप्रधानहेतून वन्धकविशेषणतयाऽभिधाय मुख्यहेतुरयमिति दिदर्शयिपुरुत्कृष्टस्थितिबन्धमुख्यहेतु स्वातन्त्र्येणाभि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org