________________
॥ अथ द्वितीयं स्वामित्रद्वारम् ॥
साम्प्रतं द्वितीयस्वामित्वद्वारस्यावसरः, तत्र सप्तानां मूलप्रकृतीनामनन्तरोक्तप्रमाणायाः कर्मरूपतावस्थानलक्षणायाः स्थितेर्वन्धस्वामिनः प्ररूपणीयाः, ते चोत्कृष-जघन्य भेदभिन्नायाः स्थितेः स्वामिनः स्थितिबन्धप्रमाणवदोषत अादेशतश्च द्विधा प्राप्यन्ते, तबादावुत्कृष्टस्थितिवन्धस्वामिन श्रोघतः प्ररूपयितुकाम आयुर्वर्जसप्तप्रकृतीरधिकृत्याह
सागारो जागारो सुअोवउत्तो पणिंदियो सरणी । पज्जत्तो सम्बाहिं पज्जत्तीहिं चउगइट्ठो ॥७७॥ मिच्छादिट्ठी उ परमसंकेसेणीसिमझिमेणं वा ।
परिणामेणं बंधइ सत्तण्ह ठिई उ उक्कोसं ॥७॥ (प्रे०) "सागारो"इत्यादि, "सागारो" इत्यादिनाऽभिहितविशेषणविशिष्टो जीवः परमसंक्लेशेनेषन्मध्यमेन वा परिणामेन, सप्तानामुत्कृष्टां स्थिति बनातीति द्वितीयगाथायां सम्बन्धः । तत्र "सागारु"त्ति विशेषावबोधलक्षणेन साकारेणोपयोगेनोपयुक्तः, स एव ज्ञानज्ञानिनोरभेदनयेन साकार इत्युक्तः । अत्र साकारोपयोगयुक्त इति विशेषणात् सामान्यावबोधलक्षणेन दर्शनोपयोगेनोपयुक्तानामुत्कृष्टस्थितिबन्धस्वामित्वं प्रतिषिद्धमिति बोद्धव्यम् । पुनः किं विशिष्ट इत्याह-'जागारो'ति 'जाग्रत्'-अनुदितनिद्रोदय इत्यर्थः, एतेन हि येषां साकारोपयोगसत्वेऽपि निद्रानुभवो विद्यते तेषामुत्कृष्टस्थितिबन्धो न भवतीति ज्ञापितम् । पुनः किंविशिष्ट इत्याह- सोवउत्तो"नि थनोपयुतः, नन साकारोपयुक्त इति ग्रहणादेव श्रतोपयुक्तो गृहीतो भवति, सामान्ये तद्विशेषाणां गमावेशाद् ? इति चेद्, न, साकारोपयुक्ता हि मत्याधुपयुक्ता अपि भवन्ति, न च तेपामुत्कृष्टस्थितिबन्धः सम्भवति, अतस्तेषामुत्कृष्टस्थितिबन्धस्वामित्वप्रतिषेधार्थ श्रुतोपयुक्त इत्यस्य ग्रहणं कृतम् ।
___नन्वेवमपि प्रकृतविशेषणम् "मिच्छादिट्ठी" इत्यनेन वक्ष्यमाणविशेषणेन कथं न विरुध्येत, मिथ्यादृशामज्ञानस्यैवागमेऽङ्गीकारेणाऽऽवश्यकाऽऽचाराङ्गादिलक्षणश्रुतोपयोगस्यासम्भवात् । न चात्र वक्ष्यमाणस्य विकल्पार्थकस्य वाशब्दस्य प्रत्येक योजनात साकारो वा जाग्रता श्रतोपयुक्तो वा पञ्चेन्द्रियो वा, एवं यावन्मिथ्यादृष्टिर्वेत्युत्कृष्टस्थितिबन्धकानां विकल्पाः प्रदर्श्यन्ते, ततश्च श्रुतोपयुक्तःमिथ्यादृष्ट्योर्विशेषणविशेष्यभावानङ्गीकारेण न स्यात्कश्चिद्विरोध इत्यपि वक्तुं युज्यतेः तथा सति "चउगइट्ठो” इत्येतावन्मात्रमपि पर्याप्तं स्यात्, तत एव निःशेषस्य प्राणिसमुदायस्थ ग्रहणेन साकारोपयुक्तादीनामपि ग्रहणात् । न च तथैवास्त्वित्यपि वाच्यम् । एकेन्द्रियादिपुिलसत्चसमाजेषस्कृष्टतोऽपि सप्तमूलकर्मणामौघिकोत्कृष्टस्थितिवन्धस्य त्रिंशत्कोटीकोटीसागरोपमादिलक्षणस्यान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org