________________
१०४ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानेष्वायुषः अतस्तेजोलेश्यामार्गणाप्रविष्टेषु भवनपत्यादिदेवेषु यावानन्तर्मुहूर्तप्रमाण आयुषो जघन्यस्थितिबन्धो भवति, तावान् दशवर्षसहस्राणि तेजोलेश्यामार्गणायामायुषो जघन्यस्थितिबन्धो ज्ञातव्यः, इत्थमेव पद्मलेश्याकादीनां सनत्कुमारादिदेवानामायुषो जघन्यस्थितिबन्धप्रमाणानुसारेण पद्मलेश्यादिमार्गणाद्वये आयुषो जघन्यस्थितिबन्धो यथासम्भवं बोद्धव्य इति ।
अथोक्तशेषमार्गणास्वाह-"सेसासु खुड्डुभवो"त्ति अनन्तराभिहिता नरकगत्यादिशुभलेश्यात्रयान्ता अष्टपञ्चाशन्गार्गणा विहाय शेषासु तियग्गत्यादिपञ्चोत्तरशतमार्गणासु प्रत्येकम् “खड्भवो" त्ति ओघवत्क्षुल्लकभवः-षट्पञ्चाशदभ्यधिकशतद्वयावलिका इत्यर्थः । आयुषो लघुः स्थितिवन्धो ज्ञेय इत्यनुवर्तते । शेषमार्गणा नामत इमाः-पञ्च तिर्यग्गतिमार्गणाभेदाः, चत्वारो मनुष्यगतिमार्गणाभेदाः, एकानविंशतिरेकेन्द्रियादिजातिमार्गणाभेदाः, द्विचत्वारिंशत्पृथिव्यादिकायमार्गणासत्कभेदाः, पञ्च मनोयोगभेदाः, पञ्च वचोयोगभेदाः, काययोगसामान्यौ-दारिकौ-दारिकमिश्रकाययोगभेदाः, त्रयः स्त्र्यादिवेदभेदाः, चत्वारः क्रोधादिकषायभेदाः, मत्यज्ञानादिरूपारत्रयोऽज्ञानभेदाः, असंयम-चक्षुदर्शना-ऽचक्षुर्दर्शन-कृष्ण-नील-कापोतलेश्या-भव्या-ऽभव्य-मिथ्यात्व-संज्य-ऽसंज्या-ऽऽहारिमार्गणाभेदाथेति । एतासु प्रत्येकं संख्येयवर्षायुषां मिथ्यादृष्टितिर्यग्मनुष्यान्यतराणां प्रवेशात् तैः क्षुल्लकभवप्रमाणजघन्यस्थितिकायुर्वन्धस्य निर्वर्तनाच्चायुषो जघन्यस्थितिबन्धप्रमाणं तथैव दर्शितमिति ॥७६॥
तदेवं प्रतिपादितं शेषस्यायुःकर्मणो जघन्यस्थितिबन्धमानमादेशतोऽपि, तस्मिंश्च प्रतिपादिते गतं स्थितिबन्धप्रमाणाख्यं प्रथमं द्वारम् ॥
॥ इति बन्धविधाने मूलप्रकृतिस्थितिबन्धे द्वितीयाधिकारे प्रथमं स्थितिबन्धप्रमाणद्वारं समाप्तम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org