________________
जघन्यस्थितिबन्धस्य ]
द्वितीयाधिकारे स्थितिबन्धप्रमाणद्वारम
तथा चोक्तं पञ्चसंग्रहे
"आइसा श्रमरस्स अंतरं होणयं मुहुत्ततो । सहसारे अच्चुयगुत्तरे दिमास वास नव ॥” इति ।
जीवसमासेऽप्येवमेवोक्तम् । तथा च तद्ग्रन्थः"जावीसाणं तोमुहुत्तमपरं सरणं सहसारो | नव दी मासा वासा अगुत्तरोकोस उयहिदुगं || २५४ ||" इति ।
,
भावना तु स्वयमेव कर्तव्येति । महाबन्धकारास्तु-भवनपत्यादीशान कल्पान्तदेवभेदेषु प्रकृतमायुषो जघन्यस्थितिबन्धमानमन्तर्मुहूर्तम्, सनत्कुमार- माहेन्द्रयोस्तु तद् मुहूर्तपृथक्त्वम् बह्मलान्तकयोर्दिनपृथक्त्वम्, शुक्र- सहस्रारकन्पयोः पचपृथक्त्वम् श्रानतकल्पादिचतुष्के मासपृथक्त्वम्, ग्रैवेयकानुत्तरविमानभेदेषु तु वर्षपृथक्त्वमिति वदन्तीति ॥ ७२ ॥
,
-S
अथाऽऽहारक- तन्मिश्रमार्गणयोः प्रकृतं दिदर्शयिषुराहश्राहारदुगे मरिडं जहण्णगो लंतकम्मि उपाओ । संघयणीए उत्तो पल्लपुहुत्तं परे विंति ॥ ७३ ॥
Jain Education International
[ ६५
(टी०) “आहारदुगे” इत्यादि, आहारककाययोगमार्गणा-ऽऽहारकमिश्रकाययोगमार्गणयोर्यद्द्विकं तदेवाहारकद्विकं तस्मिन्, आहारका ऽऽहारकमिश्रकाययोगमार्गणयोः प्रत्येकमित्यर्थः । तयोः प्रत्येकं किमित्याह--‘“मरिउ "मित्यादि, प्रकृतमार्गणाइये जघन्यत उत्पाद: - गत्यान्तरे उत्पत्तिरूपः "लंतगम्मि"त्ति लान्तकाख्ये षष्टकल्पे उक्त इत्युतरार्धेऽन्वयः, कुत्रोक्त इत्याह-' संघयणीए "त्ति श्रीमज्जिनभद्रगणिक्षमाश्रमणपूज्यप्रणीते बृहत्संग्रहण्याख्ये ग्रन्थे इत्यर्थः । तथा चोक्तं तत्र— "लंतंभि चउदपुत्रिस्स” इति । चतुर्दश पूर्वधराणामेवाहारकशरीरित्वेनाऽऽहारक- तन्मिश्र काय योगिनां जघन्यतो लान्तककल्प उत्पादो बृहत्संग्रहण्यामर्थादभिहितो बोद्धव्य इति भावः । इदमुक्तं भवतिबृहत्संग्रहण्यामाऽऽहारका-ऽऽहारकमिश्र काययोगिनां जघन्योत्पादस्यार्थतो लान्तककल्पेऽभिहितत्वात्, लान्तककल्पदेवानां जघन्यतो दशसागरोपमस्थितिकत्वाच्च तत्रोत्पित्सून प्रकृतमार्गणागतजीवान् प्रतीत्य दशसागरोपमेभ्यो हीनः स्थितिबन्धो न सम्भवति । 'पल्लपुहुत्त परे बिति" त्ति 'परे' - महाबन्धकाराः प्रकृतमार्गणाद्वये पल्योपमपृथक्त्वं ब्रुवन्ति, आयुषो जघन्यस्थितिबन्धमिति प्रक्रमागम्यत इति || ७३ || अथ मतिज्ञानादिमार्गणासु प्रकृतमायुषो जघन्यस्थितिबन्धप्रमाणमाह
मइ-सु- वहिणासु हिदरिसम्म सम्म खइएस । वेगसम्मत्तम्मिय वियो हायहुतं ॥ ७४ ॥
(प्रे० ) " मइसुप्रज्वहिणाणे सु" मित्यादि, मतिज्ञान - श्रुतज्ञाना - ऽवधिज्ञानमार्गणासु तथाऽवधिदर्शनमार्गणायां, सम्यक्त्वौघ क्षायिकसम्यक्त्वमार्गण योर्वेदकसम्यक्त्वमार्गणायां चेत्येतासु सप्त
For Private & Personal Use Only
www.jainelibrary.org