________________
६४ ]
बंधविहाणे मूलपथडिठिइबंधो [ मार्गणास्थानेष्वायुषः विशेषावश्यकभाष्यवृत्तौ-“यदाऽप्युत्कृष्ठसंक्लेशौ नारक-देवावुत्कृष्टस्थितिकं मोहनीयं बद्ध्वा तिर्यचूत्पद्यते, तदाप्यायुषो जघन्यस्थितिर्न सम्भवति, क्षुल्लकभवग्रहणलक्षणजघन्यस्थितिषु जीवेषु नारकदेवानामनुत्पादात् ।" इति ॥७१॥
अथ मार्गणान्तरेषु प्रकृतायुःसत्कजघन्यस्थितिबन्धमानमाह
भवणेसाइसुरेसु जहारिहं अागमाणुसाराप्रो ।
भिन्नमुहुत्तपभोई जा णेयो हायणपुहुत्तं ॥७२॥ _(प्रे०) "भवणेसाइसुरेसु"मित्यादि, भवनेशादयः-भवनपत्यादयो ये सुरास्तेषु, भवनपत्याद्यनुत्तरान्तदेवगतिमार्गणाभेदेष्वित्यर्थः। तेषु किमित्याह-"जहारिह"मित्यादि, यथार्हम्यथासम्भवमागमानुसारात्-व्याख्याप्रज्ञप्ति-पञ्चसंग्रहादिश्रुतानुसाराज्ज्ञेय इत्युत्तरार्धेऽन्वयः। आयुषो जघन्यस्थितिबन्ध इत्यनुवर्तते । कियान् ज्ञेयः ? इत्याह-'भिन्नमहत्त"त्यादि, अयम्भावःव्याख्याप्रज्ञप्त्यां चतुर्विशतितमे शते संवेधं दर्शयता सुधर्मागणधरेण भगवताऽसुरकुमारादीनां सहस्रारकल्पपर्यन्तानां देवानां मनुष्यतया जघन्यतो मासपृथक्त्वायुष्युत्पादोऽभिहितः, तिर्यक्त्वेन त्वन्तमुहूर्तायुष्यसावभिहितः । उक्तं च तत्र
"असुरकुमारे णं भंते ! जे भविए पंचिंदियतिरिक्खजोणिएसु उववज्जित्तए से णं भंते ! केवति० ?, गोयमा ! जहन्नेणं अंतोमुहुत्तहितीएसु।" इति ।
शेषाणां तु सहस्रारकल्पपर्यन्तानां तथैवातिदिष्टः। यदुक्तम्- "एवं जाव ईसाणदेवस्स" इति । तथा “एवं एएणं कमेणं अवसेसावि जाव सहस्सारदेवेसु उववाएयव्या” इति ।।
__ अानतप्रभृतयो देवास्तु मनुष्यतयैवोत्पद्यन्ते, अतस्ते जघन्यतोऽपि वर्षपृथक्त्वायुषि संजायन्ते, उक्तं च--"प्राणयदेवे णं भंते ? जे भविए मणुस्सेसु उववज्जित्तए से णं भंते ! केवति० ? गोयमा ! जहन्नेणं वासपुहुत्तद्वितिएसु उववज्जित्तए" इति ।
शेषाणां त्वतिदेशादिनाऽभिहितः । यदुक्तम्--“एवं जाव अच्चुयदेवो” तथा “गेवेज्जदेवे णं भंते ! जे भविए मगुस्सेसु उववज्जित्तए से णं भंते ! केवतिका० ?, गोयमा ! जह. वासपुहत्तठितिएम" तथैव "विजय-वेजयंत-जयंत-अपराजियदेवे णं भंते ! जे भविए मणुस्सेसु उववजित्तए से णं भंते ! केवति ?, एवं जहेव गेवेज्जदेवाण" इति । “सव्वट्ठसिद्धगदेवे णं भंते ! जे भविए मणुस्सेसु उववजित्तए सा चेव विजयादिदेववत्तव्वया भाणियव्वा ।” इति च ।।
इत्थं च श्रीभगवत्यभिप्रायेण भवनपत्यादिसहस्रारपर्यन्तेषु देवगतिमार्गणाभेदेषु तिर्यगायुषो जघन्यस्थितिबन्धोऽन्तमुहूर्तप्रमाणो जायते, तत उपरितनदेवभेदेषु बन्धप्रायोग्यस्य मनुष्यायुषो जघन्योऽपि स्थितिबन्धो वर्षपृथक्त्वं भवति । स एव प्रकृते मूलप्रकृत्यपेक्षया प्राप्यत इति मूले भिन्नमुहूर्तप्रभृत्या यावद् वर्षपृथक्त्वमभिहितः। यत् पुनर्यावत्पदग्रहणं तत्तु पञ्चसंग्रहादौ स्वदेवालयाच्च्युत्वा पुनरपि तत्रैवोत्पद्यमानस्य देवस्य जघन्यान्तरस्य पृथक् पृथगभिहितत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org