________________
जघन्यस्थितिबन्धस्य ]
द्वितीयाधिकारे स्थितिबन्धप्रमाणद्वारम्
इत्थं हि क्षपकापेक्षयोपशामकानां जघन्यस्थितिबन्धो द्विगुणः सन् ज्ञानावरण-दर्शनावरणमोहनीया-ऽन्तरायकर्मणामन्तर्मुहूर्तम् ; यद्यपि क्षपकाणामप्यमीषां चतुर्णां जघन्यस्थितिबन्धोऽन्तमुहूर्तमात्रो भवति, तथाऽपि तदपेक्षयाऽत्रोपशमकानां द्विगुणमन्तर्मुहूर्तं बोद्धव्यम् | वेदनीयस्य जघन्यस्थितिबन्धस्तु चतुर्विंशतिमुहूर्ता भवति । नामगोत्रयोः प्रत्येकं जघन्यस्थितिबन्धः पुनः पोडश मुहूर्ता जायते । यदुक्तं कषायप्राभृतचूण
-
"चरिमसमयसुहुमसांपराइयस्स गाणावरण- दंसरणावरण- अंतराइयाणमंतोमुहुत्तिओ ट्ठदिबंधो । णामागोदाणं ठिदिबंधो सोलस मुहुत्ता । वेदरणीयस्स ट्ठिदिबंधो चडवीस मुहुत्ता । से काले सव्वं मोहणीयमुवसंतं ।” इति ।
अथ शेषमार्गणासु सप्तानां जघन्यस्थितिबन्धप्रमाणं दिदर्शयिषुरतिदेशद्वारेणाह – “श्रोघव्व सेसासुं" ति अनन्तरोक्ता निरयगत्योघाद्योपशमिकसम्यक्त्वपर्यन्ताश्चतुस्त्रिंशद्भ्यधिकशतमार्गणा विवर्त्य शेषासु मनुष्यगत्यादिषटत्रिंशन्मार्गणासु प्रत्येकं सप्तकर्मसत्को जघन्यः स्थितिबन्ध वज्ज्ञानावरण-दर्शनावरण-मोहनीया - ऽन्तरायकर्मणामन्तर्मुहूर्तम्, वेदनीयस्य द्वादशमुहूर्ताः, नाम - गोत्रयोस्तु प्रत्येकमष्टौ मुहूर्ताः, ज्ञेय इत्यत्रापि युज्यत इति । अत्र शेषमार्गणास्तु नामत इमाः - अपर्याप्त - भेदवर्जास्त्रयो मनुष्यगतिमार्गणाभेदाः, तथैव द्वौ पञ्चेन्द्रियजातिमार्गणाभेदौ द्वौ च त्रसकायमार्गणाभेदौ, पञ्च मनोयोगभेदाः, पञ्च वचोयोगभेदाः, काययोगसामान्यौ-दारिककाययोगभेदी, अपगतवेद - लोभकपाय-मत्यादिचतुर्ज्ञान - संयमौष - सूक्ष्मसम्परायसंयम-चक्षुरादित्रिदर्शन-शुक्ल लेश्याभव्य-सम्यक्त्वौघ-क्षायिकसम्यक्त्व-संज्ञयाऽऽहारिमार्गणाभेदाचेति । एतासु प्रत्येकमनिवृत्तिबादरक्षपकाणां सूक्ष्मसम्परायक्षपकाणां च प्रवेशात् तेषामेवाधिकजघन्यस्थितिबन्धस्वामित्वाच्चा-ऽऽयुर्वर्ज - बन्धप्रायोग्यज्ञानावरणादिमूलप्रकृतीनां जघन्यस्थितिबन्धप्रमाणमोघवदतिदिष्टमिति || ६६ | ७० ॥ तदेवमभिहितं सप्तानां जघन्यस्थितिबन्धप्रमाणमादेशतो मार्गणास्थानेष्वपि । साम्प्रतमुक्तशेषस्यायुःकर्मणस्तदादेशतः प्रकटयन्नाह -
सव्वणिरयभेसु देवे वेउव्व - सासणेसु य ।
उस मुहत्त तो जहरणगो होइ ठिइबंधी ॥ ७१ ॥
Jain Education International
[ ६३
(प्रे० ) " सव्वणिरये "त्यादि, निरयौघ- प्रथम पृथिव्यादिभेदलक्षणेषु सर्वेषु निरयगतिमार्गणाभेदेषु तथा ‘देवे”त्ति देवौघमार्गणायां तथा वैक्रियकाययोगमार्गणायां सासादनमार्गणायां च प्रत्येकमायुषो जघन्यस्थितिबन्धो 'मुहूर्तान्तः ' - अन्तर्मुहूर्तप्रमाणो भवतीत्यर्थः । अत्र मुहूर्तान्त इत्यनेन क्षुल्लकभवप्रमाणो जघन्यस्थितिबन्धो नैव ग्राह्यः । कस्माद् ? उच्यते, क्षुल्लकभवप्रमाणजघन्यस्थितिका पर्याप्तमनुष्यादय एव सन्ति, न पुनः पर्याप्तमनुष्यादयोऽपि किञ्च प्रकृतमार्गणागतानां नारकादिजीवानामपर्याप्ततयोत्पादः प्रतिषिद्ध इत्येतेऽपर्याप्तप्रायोग्यमायुरपि न बध्नन्ति इत्थं तेषां क्षुल्लकभवप्रमाणजघन्यस्थितिकायुर्वन्धस्यानवकाशादयं क्षुल्लकभवप्रमाणो न गृह्यते । यदुक्तं
For Private & Personal Use Only
www.jainelibrary.org