________________
६२ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानेषु सप्तानाम (प्रे०) “मायाए णायव्वो"इत्यादि, मायाकषायमार्गणायां त्रयाणां घातिनां जघन्यस्थितिबन्धो मासपृथक्त्वं ज्ञातव्य इत्यर्थः। तुकारस्तु पादपूत्यै । अथ चतुर्थस्य घातिन आह-'यो पण्णरस'' इत्यादि, मोहनीयस्य जघन्यस्थितिबन्धः पञ्चदशाहोरात्राणि ज्ञेयः। "हस्सो' त्ति प्रस्तुतो ह्रस्वः स्थितिबन्धस्त्रयाणामायूर्जानामघातिनां वर्षपथक्त्वं ज्ञेय इत्यर्थः। अनन्तरोक्तपुरुषवेदादिचतसृषु मार्गणासु प्रकृतजघन्यस्थितिबन्धोऽन्यथाऽपि दृश्यते, इति तमपि संग्रहीतुमाह"अहवे"त्यादि, अथवाऽनन्तराभिहितेषु “पुरिसाईसु"ति पुरुषादिषु चतुर्यु मार्गणाभेदेषु प्रत्येकम् "छण्ह य" ति सूचनात् सूत्रमितिकृत्वाऽऽयुर्मोहनीयवर्जानां पण्णां मूलप्रकृतिनाम् "सखियसहस्ससमा” ति संख्येयसहस्रसमाः, जघन्यस्थितिबन्ध इति गम्यते । इति ॥६७।६८॥
अथ सामायिकसंयमादिशेषमार्गणासु प्रस्तुतसप्तप्रकृतिसत्कजघन्यस्थितिबन्धमाहसमइअ-छेएसु लहू मुहूत्तगाण व दिणाण व पुहुत्तं । तिण्हं घाईण भवे मोहस्स भवे मुहुत्तंतो ॥६६॥ मासपहुत्त ऐयो तिण्ह अघाईण उवसमे दुगुणो।
सत्तरहं अोपत्तो यो अोषव्व सेसासु ॥७॥
(प्रे०) “समइअछेएसु लहू” इत्यादि, सामायिकसंयम-छेदोपस्थापनसंयममार्गणयोलघुःजघन्यः स्थितिबन्धः "मुहुत्तगाण व दिणाण व पुहुत्तं 'ति मुहूर्ता एव मुहूर्तकास्तेषां वा दिनानाम्दिवसानां वा पृथक्त्वम् , मुहूर्तपृथक्त्वं दिनपृथक्त्वं वेत्यर्थः । केषामित्याह-"तिण्हं घाईण भवे"त्ति मोहनीयवर्जानां त्रयाणां घातिनां प्रत्येकं भवेत् । मोहनीयस्य तर्हि कियान् भवेदित्याह-'मोहस्स भवे महत्तंतो"ति मोहनीयस्य जघन्यस्थितिबन्धो मुहूर्तान्तः-अन्तमु हूतं भवेत् । “मास पुहत्तं यो तिण्ह अघाईण"त्ति आयुर्वर्जानां त्रयाणामघातिकर्मणां प्रत्येकं जघन्यस्थितिबन्धो मासपृथक्त्वं ज्ञातव्य इति । अथौपशमिकसम्यक्त्वमार्गणायामाह - "उवसमे दुगुणो' इत्यादि, औपशमिकसम्यक्त्वमार्गणायां प्रकृतो जघन्यस्थितिबन्धः "अोपत्तो"ति अोघतः,-अोघापेक्षयेत्यर्थः । यावत् स्थितिवन्धप्रमाणमोघप्ररूपणायां जघन्यतोऽभिहितं तत्प्रमाणापेक्षयेति यावत् । ओघापेक्षया किमित्याह"दगणो" ति द्विगुणो ज्ञातव्य इति परेणान्वयः । केषां कर्मणामित्याह-"सत्तण्ह" ति प्रस्तुतानामायुर्वर्जानां सप्तकर्मणाम् । अयम्भावः-अोघे ज्ञानावरणादीनां सप्तानां यो जघन्यस्थितिबन्ध उक्तः सक्षपकश्रेणिमारूढानां सूक्ष्मसम्परायचरमस्थितिबन्धमपेक्ष्य, उपशमश्रेणिमारूढास्तु क्षपकाणामिव न विशुद्धास्ततः सूक्ष्मसम्परायचरमस्थितिबन्धे वर्तमाना अपि क्षपकाणामिव जघन्यस्थितिबन्धं नैव कुर्वन्ति, किन्तु ततो द्विगुणमेव कुर्वन्ति । यदुक्तं कर्मप्रकृतिचूर्णी-“जमि समते खवगस्स ट्ठितिबंधो आदि मज्झे अवसाणे वा दिटठो तंमि चेव ठाणे उवसामगाणं दुगुणो द्वितिबंधो आदि मज्झे अवसाणे वा दिट्ठो” इति ।
www.jainelibrary.org |
Jain Education International
For Private & Personal Use Only