SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ जघन्यस्थितिबन्धस्य ] द्वितीयाधिकारे स्थितिबन्धप्रमाणद्वारम अथ पुरुषवेदमार्गणायां जघन्यस्थितिवन्धमानमाह-- पुरिसम्मि तिघाईणं संखसयसमा हवेज्ज मोहस्स । सोलस वासा संखियसहस्सवासा अघाईणं ॥६४॥ (प्रे०) “पुरिसम्मि तिघाईणं" इत्यादि, पुरुषवेदमार्गणायां ज्ञानावरण-दर्शनावरणाऽन्तरायलक्षणानां त्रयाणां घातिकर्मणाम् “संखसयसमा हवेज्ज' ति जघन्यस्थितिबन्धः संख्येयशतसमाः-संख्येयशतवर्षाणि भवेदित्यर्थः। 'मोहस्स"त्ति मोहनीयकर्मणः “सोलसवासा"त्ति पुंस्त्वं प्राकृतत्वात्ततः प्रकृतो जघन्यस्थितिबन्धः पोडश वर्षाणि भवेदित्यर्थः । “संखियसहस्सवासा अघाईणं"ति प्राग्वत् संख्येयसहस्रवर्षाणि त्रयाणामायुर्वर्जानामघातिकर्मणां जघन्यस्थितिबन्धो भवेदित्यर्थः । इति ॥६४॥ अथ क्रोधमार्गणायामाह कोहम्मि तिघाईणं संखसयसमा हवेज्ज मोहस्स । दो मासा संखेज्जा सहस्सवासा अघाईणं ॥६५॥ (प्रे०) 'कोहम्मि तिघाईण" मित्यादि, क्रोधकषायमार्गणाभेदे त्रयाणां ज्ञानावरणदर्शनावरणा-ऽन्तरायलक्षणानां घातिकर्मणां प्रत्येकं जघन्यस्थितिबन्धः संख्येयाः शतसमाः-शतवर्षाणि भवेत् । मोहनीयस्य त्वसौ “दो मासा"त्ति द्वौ मासौ भवेत् । वेदनीय-नाम-गोत्रलक्षणानां त्रयाणामघातिकमणां प्रत्येकम् "सहस्सवासा''ति सहस्रवर्षाणि जघन्यः स्थितिबन्धो भवेदित्यर्थः । इति ॥६॥ अथ मानकपायमागेणायामाह-- माणे वासपुहुत्तं तिण्हं घाईण एगमासोऽस्थि । मोहस्स होइ संखियवासा तिण्हं अघाईणं ॥६६॥ (प्रे०) "माणे वासपुहुत्त"मित्यादि, मानकषायमार्गणायां जघन्यस्थितिबन्धो वर्षपथक्त्वमस्तीति परेणान्वयः । केषामित्याह-"तिण्हं घाईण"ति ज्ञानावरण-दर्शनावरणा-ऽन्तरायलक्षणानां त्रयाणां घातिकर्मणाम् । “एगमासो"त्ति एकमासः-त्रिंशदहोरात्रप्रमाणो जघन्यस्थितिबन्धः "मोहस्स"ति मोहनीयलक्षणचतुर्थघातिकर्मणो भवति । तथा संख्येयानि वर्षाणि जघन्यस्थितिबन्धो वेदनीय-नाम-गोत्रलक्षणानां त्रयाणामघातिकर्मणां भवतीत्यर्थः ॥६६॥ अथ मायायां प्रकृतजघन्यस्थितिबन्धं दर्शयन् पुवेदादिचतुर्मार्गणासु मतान्तरेणाऽन्यथाऽपि जघन्यस्थितिबन्धं प्रतिपादयंश्चाह मायाए णायव्वो मासपुहुत्तं उ तिण्ह घाईणं । णेयो पण्णरस अहोरत्ताई मोहणीयस्स ॥ ६७ ॥ हस्सो वासपुहुत्तं तिण्ह अघाईण अहव णायव्यो । पुरिसाईसुं चउसुं छण्ह य संखियसहस्ससमा ॥ ६८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy