________________
६.]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानेषु सप्तानाम् 'लघुः'-जघन्यो ज्ञातव्यः, स्थितिवन्ध इति गम्यते । तद्यथा-द्वीन्द्रियभेदत्रये ज्ञानावरणादिचतुर्णा पल्योपमसंख्येयभागेन हीनाः सागरोपमस्य पञ्चसप्ततिः सप्तभागाः । मोहनीयस्य तु पल्योपमसंख्येयभागेन हीनानि पञ्चविंशतिः सागरोपमाणि । नाम-गोत्रयोः पुनः पल्योपमसंख्येयभागेन न्यूनाः पञ्चाशत् सागरोपमसप्तभागाः । त्रीन्द्रियमार्गणाभेदत्रये प्रत्येकं ज्ञानावरणादिचतुर्णा पल्योपमसंख्येयभागेन न्यनाः पञ्चाशदभ्यधिकशतं सागरोपमसप्तभागाः । मोहनीयस्य पुनः पञ्चाशत् सागरोपमाणि पल्योपमसंख्येयभागेन न्यूनानि । नामगोत्रयोस्तु पल्योपमसंख्येयभागेन हीनाः शतं सागरोपमसप्तभागाः । चतुरिन्द्रयमार्गणाभेदत्रये प्रत्येकं ज्ञानावरणादीनां चतुर्णा पल्योपमसंख्येयभागेन हीनानि शतं सागरोपमाणि । नामगोत्रयोस्तु प्रत्येकं पल्योपमसंख्येयभागेन न्यूना द्विशतसागरोपमसप्तभागा इति । "बिंदियभंगो अपज्जतसे"त्ति अपर्याप्तत्रसकायमार्गणायां 'द्वीन्द्रियभङ्ग'-अपर्याप्तद्वीन्द्रियभङ्गः, अपर्याप्तद्वीन्द्रियमार्गणावज्ज्ञानावरणादीनां जघन्यस्थितिबन्धः पल्योपमसंख्येयभागेन न्यूनाः पञ्चसप्तत्यादिसागरोपमसप्तभागा इत्यर्थः ॥६२॥ साम्प्रतं यासु मार्गणासु श्रेणिगतजीवापेक्षया सप्तानां जघन्यस्थितिबन्धः प्राप्यते, तासु मार्गणासु क्रमशो जघन्यस्थितिबन्धं प्रकटयन्नाह
थी-णपुमेसुसंखियसहस्सवरिसाणि संखसयवासा।
पलियाऽसंखियभागो तिघाइ-मोह-इयराण कमा ॥६३॥
(प्रे०) "थीणपुमेसु"इत्यादि, स्त्रीवेदमार्गणायां नपुंसकवेदमार्गणायां च प्रत्येकमित्यर्थः । किमित्याह-“संखियसहस्से'त्यादि, संख्येयसहस्रवर्षाणि, ‘संखसयवासा"त्ति पुंस्त्वं प्राकृतत्वात् ततः संख्येयशतवर्षाणि, “पलियासंखियभागो"त्ति पदैकदेशे पदसमुदायोपचारात् पल्यः-पल्योपमस्तस्याऽसंख्येयभागः-असंख्येयतमैकभागः, जघन्यस्थितिबन्धो भवतीति प्रक्रमाद्गम्यते । केषां कर्मणामित्याह-तिघाइ' इत्यादि, त्रयाणां ज्ञानावरण-दर्शनावरणा-ऽन्तरायलक्षणानां घातिनां "मोह" ति मोहनीयस्य "इयराण' त्ति अायुर्वर्जसप्तानां जघन्यस्थितिबन्धस्य वक्त प्रक्रान्तत्वादनन्तरमेव घातिकर्मणां गृहीतत्वाच्च घातिभ्य इतराणि यानि आयुर्वजानि वेदनीय-नामगोत्रलक्षणानि त्रीणि कर्माणि तेषां "कमा 'त्ति क्रमाद्-यथासंख्यम् । अयम्भावः-उपशमकानामिव क्षपकश्रेणिमारोहतामवेद्यवस्थायाः प्राग यावान् जघन्यस्थितिवन्धः पुरुषवेदिनां जायते, तदपेक्षया स्त्रीवेदिनां नपुंसक्वेदिनां चाधिकतरोऽसौ भवति । कस्माद् ? उच्यते-यत्र स्थाने पुवेदिनां पुवेदोदयस्य विच्छेदो जायते, ततः स्थानात् संख्येयस्थितिबन्धेष्वकृतेषु प्रागेव स्त्री-नपुंसकवेदिनां स्वस्ववेदोदयो विच्छिद्यते, किञ्चोत्तरोत्तरस्थितिबन्धाः श्रेणिमारोहतां हीनहीनतराः प्रवर्तन्ते, तेषु ये स्तोकस्तोकतरस्थितीनां बन्धाः पुवेदिनां सवेद्यवस्थायां प्राप्यन्ते, न ते सर्वे तदन्यवेदिनामपि सवेद्यवस्थायां प्राप्यन्ते, किन्त्वधिकस्थितेन्धा एव जघन्यतोऽपि प्राप्यन्ते, ते च तेषां ज्ञानावरण-दर्शनावरणा-ऽन्तरायाणां प्रत्येकं संख्येयानि वर्षसहस्राणि, मोहनीयस्य संख्येयानि वर्षशतानि, वेदनीय-नाम-गोत्राणां त्रयाणामघातिकर्मणां तु पल्योपमस्यासंख्येयतमैकभाग इति ॥६३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |