________________
जघन्यस्थितिबन्धस्य ] द्वितीयाधिकारे स्थितिबन्धप्रमाणद्वारम्
[८६ कोट्यादिप्रमाण औधिको ज्येष्ठः-उत्कृष्टः स्थितिबन्धः, स च प्रागुक्तैकेन्द्रियाणामुत्कृष्टस्थितिबन्धप्रमाणो भवति, स पुनः किंविशिष्ट इत्याह-"पलियासंखंसूणो सो" ति पल्योपमस्याऽसंख्यांशेनाऽसंख्याततमेनकभागेनोनः-न्यूनः सः “सत्तण्हं लहू णेयो'त्ति यथासंख्यं ज्ञानावरणादीनामायुर्वर्जानां सप्तानां लघुः-जघन्यो ज्ञेयः, स्थितिबन्ध इति गम्यते । इदमुक्तं भवति-मोहनीयोत्कृष्टस्थित्या विभक्तो ज्ञानावरणस्यौधिकोत्कृष्टस्थितिबन्धः पल्योपमासंख्यभागेन न्यूनः सन् ज्ञानावरणस्य जघन्यस्थितिबन्धतया ज्ञेयः, एवं दर्शनावरणादीनामपि ज्ञातव्यः । तद्यथा-ज्ञानावरण-दर्शनावरणवेदनीया-ऽन्तरायाणां प्रत्येकं जघन्यस्थितिबन्धः सागरोपमस्य त्रयः सप्तभागाः पल्योपमस्या-ऽसंख्येयभागेन न्यूनाः । मोहनीयस्य जघन्यस्थितिबन्धः पल्योपमाऽसंख्येयभागेन न्यून एकः सागरोपमः । नाम-गोत्रयोस्तु प्रत्येकं सागरोपमस्य द्वौ सप्तभागौ पल्योपमाऽसंख्यभागेन न्यूनौ जघन्यस्थितिबन्धो भवतीति । सुगमं चैतत् , यतः प्रकृततिर्यग्गत्यादिमार्गणासु प्रत्येकं विद्यते एकेन्द्रियजीवानां प्रवेशः, न पुनः श्रेणिगतानाम् , एकेन्द्रियास्तु जघन्यतोऽपि निरुक्तस्थितिबन्धाद्धीनं स्थितिबन्धं न कुर्वन्ति, तदन्ये श्रेणिमनारूढा जीवास्त्वधिकमेव स्थितिबन्धं कुर्वन्ति; इत्थं टेकेन्द्रियाणां यो जघन्यस्थितिबन्धः स एव प्रकृतसवेमार्गणासु जघन्यस्थितिवन्धतया प्राप्यते । इदन्त्ववधेयम्यदत्र प्रत्येकं मार्गणासु ज्ञानावरणादीनां जघन्यस्थितिबन्धः पल्योपमाऽसंख्येयभागेन न्यूनाः सागरोपमस्य द्वयादिसप्तभागा इत्युक्तः, स तद्वाचकशब्दसाम्यादेव, न पुनस्तिर्यग्गत्योधादिप्रकृतसर्वमार्गणास्वसौ तुल्य एव भवति, किं तर्हि ? स्वामिभेदेन हीनाधिको भवति । इदमुक्तं भवति-यथा प्राग जघन्योत्कृष्टस्थितिवन्धाल्पबहत्वे पर्याप्तसूक्ष्मैकेन्द्रियजघन्यस्थितिबन्धापेक्षयाऽपर्याप्तवादरैकेन्द्रियाणां जघन्यस्थितिबन्धो विशेषाधिकः, ततोऽपर्याप्तसूक्ष्मैकेन्द्रियाणां जघन्यस्थितिवन्धो विशेषाधिक इत्येवं तारतम्येन दर्शितस्तथा प्रकृतेऽप्येकेन्द्रियौघमार्गणा-सूक्ष्मैकेन्द्रियौघमार्गणा-तदपर्याप्तमार्गणादिभेदेषु स्वामिभेदेन भिन्नो भिन्नो बोद्धव्यः। अत्र प्रस्तुतसर्वमार्गणासु युगपदभिधानं तु बन्धस्य हीनाधिक्येऽपि पल्योपमासंख्यभागेन न्यूनाः सागरोपमस्य द्वयादिसप्तभागा इत्येवंरूपेण समानाभिलापेनाभिधेयत्वात् । इत्थमेवान्यत्राऽपि यथासम्भवं विज्ञेयमिति ॥५६।६०।६१॥ अथ विकलेन्द्रियभेदेष्वपर्याप्तत्रसकायमार्गणायां चाह
सबविगलेसु सगगुरुठिइबंधो पलियसंखभागूणो ।
सत्तण्ह लहू णेयो विदियभंगो अपज्जतसे ॥६२॥
(प्रे०) "सव्वविगलेसु"इत्यादि, अोध-पर्याप्ता-ऽपर्याप्तभेदभिन्नद्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियलक्षणेषु 'सर्वविकलेषु', विकलेन्द्रियसत्केषु सर्वमार्गणाभेदेष्वित्यर्थः । एतेषु किमित्याह-' सगगुरुठिइबंधो” इत्यादि, स्वकः-स्वकीयः, द्वीन्द्रियौघ-पर्याप्तद्वीन्द्रियादितत्तन्मार्गणासम्बन्धीत्यर्थः, एवम्भूतो यः प्रागभिहितः प्रस्तुतानां ज्ञानावरणादीनां गुरु:-उत्कृष्टः स्थितिबन्धः सः स्वकगुरुस्थितिबन्धः, किं विशिष्टः ? "पलियसंखभागूणो" ति पल्योपमस्य संख्येयभागेन न्यूनो ज्ञानावरणादीनां सप्तानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org