________________
८]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानेषु सप्तानाम् ____ "तथा नैकेन्द्रियेषु “सासाणो" ति भावप्रधानोऽयं निर्देशः, सासादनभाव , सूत्रे मतः, अन्यथा द्वीन्द्रि यादीनामिवैकेन्द्रियाणामपि ज्ञानित्वमुच्येत , न चोच्यते, किन्तु विशेषतः प्रतिषिध्यते । तथाहि-“एगिदियाणं भंते ! किं नाणी अन्नाणी ? गोयमा! नो नाणी नियमा अन्नाणी' इति । स चेत्थं सासादनभावप्रतिषेधः सूत्रे मतोऽपि केनचित्कारणेन कार्मग्रन्थिकै भ्युपगम्यत इतीहापि प्रकरणे नाधिक्रियते, तदभिप्रायस्यैवेह प्रायोऽनुसरणाद् ।'' इति ।
___इत्थं हि षडशीत्यभिप्रायेण सासादनमार्गणायां ज्ञानावरणादीनां जघन्यस्थितिबन्ध एकेन्द्रियस्वामिकः, सिद्धान्ताभिप्रायेण पुनरेकेन्द्रियेषु सासादनमावस्यानभ्युपगमात् सासादनमार्गणायां ज्ञानावरणादीनां जघन्योऽपि बन्धो द्वीन्द्रियस्वामिकः तथाऽपि प्रकृते नव्यशतकवदभिप्रायविशेषेण संज्ञिसत्कसासादनभावापेक्षयाऽसावन्तःकोटोकोटीसागरोपमप्रमाणो दर्शितः । उक्तं च नव्यशतके
“साणाइअपुव्वंते अयरंतो कोडीकोडीउ नऽहिगो बंधो।।
न हु हीणो न य मिच्छे भवियरसंन्निमि ।।४॥” इति । को भावः ? इति चेद, एकेन्द्रियादीनां सासादनभावस्य कादाचित्कत्वेनासावत्र न विवक्षितः, ततश्च सासादने जवन्योऽपि स्थितिबन्धः संज्ञिस्वामिकः प्राप्तः, स चान्तःकोटीकोटीसागरोपमप्रमाण एव । षडशीत्यायभिप्रायेण तु मूलोक्तादन्यथाऽप्येकेन्द्रियादिस्वामिको यथासम्भवं बोद्धव्य इति ॥५८॥
साम्प्रतं यासु मार्गणास्वेकेन्द्रियाणां प्रवेशः, न पुनः श्रेण्यारूढानां महात्मनां तासु लाघवाधुगपदाह
तिरियम्मि य सब्वेसु एगिदिय-पंचकायभेएस ॥५६॥ ओरालमीस-कम्मण--दुश्रणाणा--ऽपत--
तिसुहलेसास। अभविय-मिच्छत्तेसु अमणा--ऽणाहारगेसु य॥६०॥ मोहगुरुठिइविभत्तो सत्तरहं अोघजेठिइबंधो । पलियासंखमूणो । सो सत्तण्हं लहू णेयो ॥६१॥
(प्रे०) "तिरयम्मि य सव्वेसु"मित्यादि, तिर्यग्गत्योधमार्गणाभेदे, चः समुच्चये। तथा सर्वेसु षट्चत्वारिंशत्संख्याकेष्वेकेन्द्रियसत्कपृथिव्यादिवनस्पतिकायान्तपञ्चकायसत्कमार्गणाभेदेषु । तत्रैकेन्द्रियपृथिव्यम्बुतेजोवायुकायानां प्रत्येकं सप्त सप्त मार्गणाभेदास्तथा वनस्पतिकायसत्कास्त्वेकादश भेदाः प्राग्वद्वोद्धव्याः । अन्या मार्गणाः संग्रहीतुमेकां गाथामाह--"अोरालमीसे"त्यादि, औदारिकमिश्रकाययोग-कार्मणकाययोग-मत्यज्ञान-श्रुताज्ञाना-ऽसंयम-कृष्णादित्र्यशुभलेश्यामार्गणासु, अभव्य-मिथ्यात्वमार्गणयोरसंड्य-ऽनाहारिमार्गणयोश्चेत्यर्थः । एतासु तिर्यग्गत्योपाद्यकोनषष्टिमार्गणासु किमित्याह-"मोहगुरुठिइ" इत्यादि, सप्ततिसागरोपमकोटीकोटीलक्षणया मोहनीयस्य गुरुस्थित्या विभक्तो यः सप्तानामायुर्वर्जानां मूलप्रकृतीनाम् "अोघजेट्ठठिइबंधो" ति त्रिंशत्सागरोपमकोटी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org