________________
जघन्यस्थितिबन्धस्य ] द्वितीयाधिकारे स्थितिबन्धप्रमाणद्वारम्
[८७ सेसणिरयदेव-विवाहारयुगल-विभंग-देसेसु। परिहारे तेउ-पउम-वेग-सासाण-मीसेसु ॥५८॥
अंतोकोडाकोडी णेयो सत्तण्ह हस्सठिइबंधो।
(प्रे०) "सेसणिरयदेवविउवे" त्यादि, अनन्तरोक्तनरकौघ-प्रथमनरकभेदद्वयवर्जा ये शेषा द्वितीयादिपृथिवीभेदभिन्नाः षड् निरयगतिभेदाः, तथैवानन्तरोक्तदेवगतिसत्कभेदत्रयवर्जा ज्योति
कादिसर्वार्थसिद्धविमानान्ताः सप्तविंशतिर्देवगतिभेदास्तेषु “विउवाहारयुगल"ति युगलशब्दस्य प्रत्येकं योजनाद्वैक्रिय-क्रियमिश्रकाययोगमार्गणयोर्यद् युगलम्-द्विकं तद्वैक्रिययुगलं तस्मिन् , आहारकाऽऽहारकमिश्रकाययोगमार्गणयोर्यदाहारकयुगलं तस्मिन् , तथा विभङ्गज्ञानमार्गणायां देशसंयममार्गणायां चेत्यर्थः । मार्गणान्तरसंग्रहार्थमाह-"परिहारे तेउपउमे"त्यादि, परिहारविशुद्धिकसंयममार्गणायां तेजोलेश्या-पद्मलेश्या-वेदकसम्यक्त्व-सासादन-सम्यग्मिथ्यात्वमार्गणास्वित्यर्थः । एतासु द्वितीयपृथिवीप्रभृतिनिरयभेदादिपञ्चचत्वारिंशन्मार्गणासु किमित्याह-"अंतोकोडाकोडी यो" इत्याद्यत्तरगाथापूर्वार्धम् । आयुर्वर्जानां सप्तकर्मणां ह्रस्वस्थितिबन्धः "अंतोकोडाकोडी" त्ति अन्तःकोटीकोटीसागरोपमप्रमाणो ज्ञातव्य इत्यर्थः । सुगमं चैतत् , यतोऽपूर्वकरणगुणस्थानकान्तानां मिथ्यादृष्टयादिसंज्ञिनां जघन्यतोऽन्तःकोटीकोटीसागरोपमप्रमाणस्थितिबन्ध एव भवति । यद्यपि सास्वादनमार्गणायां षडशीतिग्रन्थानुसारेण ज्ञानावरणादीनां जघन्यस्थितिबन्ध एकेन्द्रियस्वामिको लभ्यते, कुतः ? षडशीतावेकेन्द्रियाणामपि सास्वादनसम्यक्त्वस्वीकारात् । उक्तं च तत्र जीवस्थानेषु गुणस्थानप्रतिपादनावसरे-"बायरअसंनिविगले अपज्जि पढमबिय'' इति । तथा च तट्टीका
'ततो बादराश्च-बादरैकेन्द्रियाः पृथिव्यम्बुवनस्पतिलक्षणाः, असंज्ञी च विशिष्टस्मरणादिरूपमनोविज्ञानविकलः, विकलाश्च विकलेन्द्रिया द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियाः (द्वन्द्वे) बादरासंज्ञिविकलं तस्मिन् बादरासंज्ञिविकले । किं विशिष्टे ? "अपज्जि''त्ति अपर्याप्ते, कोऽर्थः ? अपर्याप्तबादरैकेन्द्रियेषु पृथिव्यम्बुवनस्पतिषु तथाऽपर्याप्तेऽसंज्ञिनि तथा विकलेषु द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रि येष्वपर्याप्तेषु । किमित्याहपढमबिय" त्ति इह “सव्वगुणा'' इति पदाद्गुणशब्दस्याकर्षणं, ततः प्रथमं मिथ्यादृष्टिगुणस्थानं द्वितीयं सासादनगुणस्थानं भवति ।” इत्यादि । (गा० ३)
इत्थं हि षडशीत्यभिप्रायेण सासादनमार्गणायामेकेन्द्रियाणामपि प्रवेशेन सासादनमार्गणायां जघन्यस्थितिबन्ध एकेन्द्रियस्वामिकः प्राप्यते । यद्वा सिद्धान्ते द्वीन्द्रियान्तानामेव सासादनसम्यक्त्वमभ्युपगतम् , एकेन्द्रियाणां तु नाभ्युपगतम् एकेन्द्रियाणां ज्ञानित्वपच्छायां निषिद्धत्वात् । उक्तं च-- "एगिदिया णं भंते किं नाणी अन्नाणी ? गोयमा ! नो नाणी नियमा अन्नाणी" इति । न चैवं सति षडशीतिकारवचनं सूत्रेण विरुध्येत इति वाच्यम् । यतः षडशीतिकाराः कर्म ग्रन्थाप्रायेणैकेन्द्रियाणां सासादनगुणस्थानकं वदन्ति, उक्तं च तैः-"नेगिंदिसु सासाणो नेहाहिगयं सुयमयंपि" इति । तथा च तट्टीका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org