________________
८६ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्थानेषु सप्तानाम् (प्रे०) “णिरयपढमणिरयेसु"मित्यादि, निरयगत्योध-प्रथमपृथिवीनिरयभेदयोस्तथा "देवभवणवंतरेसु"त्ति देवगत्योघभेदे भवनपतिदेव-व्यन्तरदेवभेदयोः, 'सन्वेसुपंचिदियतिरियेसु" ति सर्वेषु पञ्चेन्द्रियतिर्यगोध-तत्पर्याप्ताऽपर्याप्त-तिरश्च्यात्मकेषु चतुर्यु पञ्चेन्द्रियतिर्यग्भेदेषु, "असमत्तमणुसपणिदियेसु यति असमाप्तशब्दस्य प्रत्येकं योजनात् , अपर्याप्तमनुष्यभेदेऽपर्याप्तपञ्चेन्द्रियजातिभेदे चेत्यर्थः । बहुवचनान्तनिर्देशस्तु प्राकृतलक्षणाबोद्धव्यः । एवमेव पूर्वत्रोत्तरत्र च ज्ञातव्यम् । एतासु निरयगत्योघाद्यपर्याप्तपञ्चेन्द्रियपर्यन्तासु परिगणितमार्गणासु प्रत्येकं किमित्याह-"मोहगुरुठिइविभत्तो' इत्यादि, मोहनीयस्य या औषिकी सप्ततिसागरोपमकोटीकोटीप्रमाणा गुरु:-उत्कृष्टा स्थितिस्तया मोहगुरुस्थित्या विभक्तः, ततः सहस्रण गुणितः-ताडितश्च यः "अोघगरुबंधो" त्ति ज्ञानावरणादीनामायुर्वर्जानामौधिको 'गुरुः'-उत्कृष्टो 'बन्धः'-स्थितिबन्धः, स च प्राक संज्ञिमार्गणायामुत्कृष्टपदे यावान् दर्शितस्तावान् भवति, तद्यथा-ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायाणां प्रत्येक सागरोपमस्य त्रिसहस्राणि सप्तभागाः (३०६० सागरोप०)। मोहनीयस्य सागरोपमसहस्रम् (१००० सागरोप०)। नामगोत्रयोः प्रत्येक सागरोपमस्य द्वे सहस्र सप्तभागाः (२०४० सागरोप०)। "स"त्ति मोहनीयगुरुस्थितिविभक्तः सहस्रगुणितश्च ज्ञानावरणादीनां य ओघगुरुबन्धः सः “पलियस खंसणो सत्तण्ह लह मुणेयव्वो"त्ति पल्योपमस्य संख्येयेन-संख्येयतमैकभागेनोन:-हीनः सन् सप्तानां ज्ञानावरणादीनां लघुः-जघन्यस्थितिबन्धो ज्ञातव्यः, न त्वसंज्ञिनामुत्कृष्टस्थितिबन्धतुल्य एवेति । इदमत्र हृदयम्--एकेन्द्रियजीवाः सप्तानां जघन्यां स्थितीमुत्कृष्टापेक्षया पल्योपमस्याऽसंख्येयभागेन न्यूनां बध्नन्ति, विकलेन्द्रिया-ऽसंज्ञिपञ्चेन्द्रियास्तु स्वस्वोत्कृष्टापेक्षया पल्योपमस्य संख्येयभागेन न्यूनां बध्नन्ति, उक्तं च कर्मप्रकृतिचूणौं-'बेइंदियादीणं अप्पप्पणो उक्कसट्टिती पलिउवमस्स संखेजतिभागेण ऊणा इयरोत्ति-जहएणगठ्ठिति भवति ।।” इति । किञ्चासंज्ञिनश्च्युत्वा संज्ञितयोत्यद्यमाना विग्रहगतौ वर्तमाना जीवाः संज्ञिप्रायोग्यमन्तःकोटीकोटीसागरोपमप्रमाणं स्थितिबन्धं न कुर्वन्ति, किन्त्वसंज्ञिपञ्चेन्द्रियप्रायोग्यमेव स्थितिबन्धं निवर्तयन्ति, ततश्चोत्पत्तिस्थाने प्रथममाहारं गृह्णन्त एते संक्षिप्रायोग्यस्थितिबन्धं कुर्वन्ति । इत्थं हि यासु मार्गणासु संज्ञिन एव जीवाः प्रविष्टाः सन्ति, न पुनरसंज्ञिनोऽपि, तासु मार्गणासु यद्यसंज्ञिनां गतिविद्यते, तदा तैर्विग्रहगतिस्थैरसंज्ञित आगतै वैः क्रियमाणं स्थितिबन्धमपेक्ष्य जघन्यस्थितिवन्धप्रमाणमसंज्ञिपञ्चेन्द्रियजीवानामिव यथोक्तं सागरोपमस्य पल्योपमसंख्येयभागन्यूनत्रिसहस्रसप्तमभागादिकं लभ्यते । प्रकृतेऽपि नरकौघ-प्रथमनरकदेवौघ-भवनपतिदेव-व्यन्तरदेवरूपासु पञ्चमार्गणासु तथा शतकचूादिमतेनाऽपर्याप्तमनुष्यमार्गणायां चेत्येतासु षण्मार्गणास्वसंज्ञिजीवानामप्रवेशेऽपि तदीयोत्पादस्य सत्त्वाज्जघन्यः स्थितिबन्धोऽसंज्ञिपञ्चेन्द्रियाणां प्रायोग्यो दर्शितः, शेषमार्गणाद्वये तु जघन्यस्थितेर्वन्धका असंज्ञिपञ्चेन्द्रियजीवा विद्यन्ते एव, इति तथैवोक्त इति ॥५६॥५७॥ अथ शेषनिरय-देवभेदेषु सप्तानां जघन्यस्थितिबन्धप्रमाणं दिदर्शयिषुस्तत्साम्याद् वैकियकाययोगादिमार्गणास्वपि सममेव दर्शयन्नाह
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International